________________ लघी०१५] चित्राद्वैतवादः 125 किञ्च, प्रमेयात् पूर्वकालभाविज्ञानं तद्वयवस्थापकं स्यात् , उत्तरकालभावि वा ? प्रथमपक्षे कथमस्येन्द्रियार्थसन्निकर्षप्रभवता प्रमेयमन्तरेणैवोत्पद्यमानत्वात् ? यत्प्रमेयमन्तरेणैवोत्पद्यते न तदिन्द्रियार्थसन्निकर्षजम् यथा खपुष्पविज्ञानम्, प्रमेयमन्तरेणैवोत्पद्यते च प्रमेयात् पूर्वकालभावि तद्व्यवस्थापकत्वेनाभिमतं ज्ञानमिति / द्वितीयपक्षे तु प्रमाणात् पूर्वकालवृत्तित्वं प्रमेयस्य कुतश्चित् प्रतिपन्नम् , न वा ? यदि न प्रतिपन्नम्। कथं सद्वयवहारविषयः ? यत् कुत- 5 श्चिन्न प्रतिपन्नम् न तत् सद्वयवहारविषयः यथा गगनेन्दीवरम् , कुतश्चिदप्रतिपन्नञ्च प्रमाणात्पूर्वकालवृत्तित्वं प्रमेयस्येति / अथ प्रतिपन्नम् ; किं स्वतः, परतो वा ? यदि स्वतः; कथमस्य ज्ञानाद्भेदः तस्यैव स्वतोऽवभासलक्षणत्वात् ? यत् स्वतः प्रसिद्धम् न तज्ज्ञानाद्भिद्यते यथा ज्ञानस्वरूपम् , स्वतः प्रसिद्धच ज्ञानात्पूर्व प्रवर्तमानं प्रमेयत्वेनाभिमतं वस्त्विति / अथ परतः; तन्न; प्रमाणाद् व्यतिरिक्तस्य प्रमेयव्यवस्थाहेतोः परस्याऽसंभवात् / अथ प्रमाणमेव तस्य तवृत्तित्वं 10 प्रकाशयति ; तन्न ; तस्य स्वयं तत्कालेऽसतः तत्प्रकाशकत्वाऽयोगात् , यद् यत्काले नास्ति न तत्तस्य प्रकाशकम् यथा स्वोत्पादात्पूर्वकालवृत्तिपदार्थकालेऽसन् प्रदीपो न तत्प्रकाशकः, नास्ति च पूर्वकालविशिष्टस्य प्रमेयस्य काले ज्ञानमिति / समकालत्वे तु ज्ञानज्ञेययोः सव्येतरगोविषाणवत् ग्राह्यमाहेकभावाभावः, न च ज्ञाने नीलाद्याकारानुरागप्रतीत्यन्यथानुपपत्त्या तदनुरजको बहिरर्थोप्यस्तीत्यभिधातव्यम् ; स्वप्नावस्था- 15 यां तदभावेऽपि तदनुरागप्रतीतेः, न हि तद्दशाभाविनि करितुरगादिप्रत्ययेऽनुरञ्जको बहिरर्थोऽस्ति, स्वप्नेतरप्रत्ययानामविशेषप्रसङ्गात् / अतो बुद्धिरेवार्थनिरपेक्षा स्वसामग्रीतो विचित्राकारछायाछुरिता यथाऽत्रोत्पद्यते तथाऽन्यत्रापि / ननु एवमपि एकस्या बुद्धेः विचित्राकाररूपतया प्रतिभासमानायाः कथमेकत्वं युक्तम् ? इत्यप्यचोद्यम् ; अशक्यविवेचनत्वतः तस्यास्तदविरोधात् / उक्तच 20 "नीलादिश्चित्रविज्ञान-ज्ञानोपाधिरनन्यभाक् / अशक्यदर्शनस्तं हि पतत्यर्थे विवेचयन् // " [ प्रमाणवा० 3 / 220 ] नीलाकारद्वयाप्रवेदनात् / अथ तदर्थस्य रूपं तदा संवेदनमन्येन रूपेण विदितमविदितं वा भवेत् / यद्यविदितं स तस्यानुभवः कथं स्वरूपेणाज्ञातम् अस्य संवेदनामति कथं संगच्छते विदितश्चेत् तथापि" प्रमाणवार्तिकालं० / “धियोऽसितादिरूपत्वे सा तस्यानुभवः कथम् / धियः सितादिरूपत्वे बाह्योऽर्थः किं प्रमाणकः // 2051 // " तत्त्वसं० / उद्धृतञ्चैतत्-प्रमेयक० पृ. 22 उ० / स्या० रत्ना० पृ. 163 / 'तथाचाहुः कीर्तिपादाः' इति कृत्वा अद्वयवज्रसंग्रह तत्त्वरत्नावली पृ० 18 / १-हकभावः आ० / २-र्थोस्ति आ० / ३-विज्ञानो ब०, ज० / 'विज्ञाने' स्या० रत्ना• पृ० :173 / प्रमाणवा० / ४-नस्थं हि प्रमाणवा० / 5 विवेचयेत ब०, ज० / “अत्र देवेन्द्रव्याख्याचित्रज्ञाने हि यो नीलादिः प्रत्यवभासते ज्ञानोपाधिः ज्ञानविशेषणः अनुभवस्वात्मभूत इति यावत् , स एव एकोऽनन्यभाक् तज्ज्ञानस्वभावत्वात् अन्यमर्थं ज्ञानवदेव न भजते, तादृशश्च सन्नसौ तचित्रदर्शनप्रतिभासी