________________ 124 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि. साध्ये विरुद्धो हेतुः / अभेदे चानयोः किं संवेदनादर्थस्याऽभेदः, अर्थाद्वा संवेदनस्य ? प्रथमवि-. कल्पे संवेदनमेव स्यात् नार्थः तस्य तत्रैवानुप्रविष्टत्वात् , तथा च 'संवेद्यत्वात्' इत्यसिद्धो हेतुः / द्वितीयविकल्पे तु अर्थ एव न संवेदनम् , इति कुतोऽस्य अभेदः साध्येत ? भेदस्यानयोः प्रत्यक्षप्रतिपन्नत्वात् कालात्ययापदिष्टत्वच। संवित्स्वरूपस्य चाऽभिन्नत्वेन अकर्मकत्वे साधनविकलो दृष्टान्तः / अथ संवित्सम्बन्धित्वमात्रं वेद्यत्वम् ; तथापि विरुद्धत्वम् सम्बन्धित्वस्य भेदे सत्येव संभवात् , भेदाश्रयो हि सम्बन्धः तदभावे तस्याप्यभावात् संवित्सम्बन्धित्वस्यासिद्धिः इत्यसिद्धत्वच / अथ वेद्यत्वं संवित्स्वभावत्वं विवक्षितम् , तदसिद्धमेव अर्थस्याऽसंवित्स्वभावत्वसमर्थनात् / ततो निर्बाधबोधाद् वस्तुव्यवस्थामभ्युपगच्छता तत्संवेदनमिव असंवेदनस्वभावो बाह्यार्थो नीलसिताद्यनेकाकारः प्रतिपत्तव्यः / . ननु ज्ञानमेवेदं चित्रं नीलसुखाद्यनेकाकारखचितमाभासते न पुनर्बाह्योऽर्थः तत्सद्भावे प्रमाणाऽभावात् , यस्य सद्भावे प्रमाणं नास्ति तन्नास्ति यथा खरचित्राद्वैतवादिनो बौद्धैकदेशिनः - विषाणम् , नास्ति च बाह्यार्थसद्भावे किञ्चित्प्रमाणमिति / न चेद- . पूर्वपक्षः मसिद्धम् ; तथाहि-तत्सद्भावावेदकं निराकारम् , साकारं वा प्रमाणं स्यात् ? न तावन्निराकारम् ; तस्य सर्वत्राऽविशेषतः प्रतिकर्मव्यवस्थानिबन्धनत्वानुप१५ पत्तेः / साकारत्वे तु सिद्धं ज्ञानमेव नीलाद्यनेकाकाराक्रान्तं चित्रमेकम् , न पुनः तद्व्यतिरिक्तो जडोऽर्थः तद्व्यवस्थाहेतोः कस्यचिदप्यभावात् / नचाकारविशिष्टं ज्ञानमेव तद्व्यवस्थाहेतुः; तस्य स्वाकारानुभवमात्रेणैव चरितार्थत्वात् / तदुक्तम् "धियोऽनीलादिरूपत्वे बाह्योऽर्थः किनिवन्धनः / धियो नीलादिरूपत्वे बाह्योऽर्थः किन्निबन्धनः // " [प्रमाणवा० 3 / 435] इति। ... १-त्वसंभवात् आ० / 2 नीलपीताद्यनेका-भां० / अस्य च विज्ञानाद्वैतवादस्य विविधरीत्या पर्यालोचनं निम्नग्रन्थेषु द्रष्टव्यम्-अभिसमयालंकारालोक पृ० 374 / शाबरभा०, बृहती, पञ्जिका, शास्त्रदी० सू. 1 / 5 / मीमांसाश्लो. निरालम्बनवाद / ब्र. सू० शांकरभा०, भामती 2 / 2 / 28 / बृहदारण्यकभा० वा० 4 / 3, पृ० 1458 / योगसू० व्यासभा०, तत्त्ववे० 4 / 14 / वि० प्रमेयसं० पृ० 75 / विधिवि० न्यायकणिका पृ० 254 / न्यायमं० पृ. 536 / आप्तमी, अष्टश० अष्टसह. पृ. 242 / युक्तयनु० पृ० 45 / न्यायवि० टी० पृ० 126 / तत्त्वार्थश्लो० पृ. 36 / आप्तपरी० पृ. 45 / प्रमेयक० पृ० 20 उ० / शास्त्रवा० श्लो० 375-413 / सन्मति० टी० पृ० 349 / स्या. रत्ना० पृ. 149 / स्या० मं० का० 16 / 3 “तरङ्गा हयुदधेर्यद्वत् पवनप्रत्ययोदिताः / नृत्यमानाः प्रवर्तन्ते व्युच्छेदश्च न विद्यते // 56 // आलयौघस्तथा नित्यं विषयपवनेरितः। चित्रैस्तरङ्गविज्ञानः नृत्यमानः प्रवर्तते / / 57 // " लंकावतार पृ. 271 / 4 धियो नीलादिरूपत्वे बाह्योऽर्थः किं प्रमाणकः / धियोऽनीलादिरूपत्वे स तस्यानुभवः कथम् // " प्रमाणवा० / “यदि संवेदनमेव नीलाकारमात्मप्रकाशकं बाह्योऽर्थः किं प्रमाणमादाय विदितो भवेत् / नहि तत्र प्रत्यक्षं तस्य स्वसंवेदनमात्र एव पर्यवसानात् / न च ततः परं नीलमाभासते