________________ लघी० 1 / 5] विज्ञानाद्वैतवादः 123 स्वपि हि कृत्तिकासु सहोपलम्भनियमो वर्तते / विरुद्धत्वञ्च भेदेनैव सहोपलम्भस्य व्याप्तत्वात् , सहशब्दो हि भेदाधिष्ठानः, अभेदे सहशब्दार्थानुपपत्तेः, न हि स एव तेनैव 'सह' इति व्यपदेशमर्हति / व्याप्तिशून्यत्वञ्चास्य ; तथाहि-हेतोर्विपक्षे बाधकप्रमाणसद्भावाद् व्याप्तिरवसेया, अभेदस्य च भेदो विपक्षः, ततो नियतसहोपलम्भस्य व्यावृत्तौ दर्शितायां गत्यन्तराभावाद् अभेदेनैव व्याप्तिः सिद्धयेत्, न चायं भेदाद् व्यावृत्तः, भिन्नास्वपि हि कृत्तिकासु नियतसहोपलम्भ- 5 स्य दृष्टत्वात् / कालात्ययापदिष्टश्चायम्; संवित्-संवेद्य-संवेदकानां परस्परविविक्तस्वरूपाणामबाधितप्रत्यक्षेण प्रतीयमानत्वात् / न च एतेनैव बाध्यमानत्वाद् अबाधितत्वमसिद्धम् ; प्रत्यक्षविरोधे एतस्यानुमानस्य आत्मलाभस्यैवाऽसंभवात् , लब्धात्मलाभञ्च साधकं बाधकं वा तत्स्यात् / ___ सहोपलम्भशब्देन च किमत्राभिप्रेतम्-किमर्थद्वये उपलम्भद्वयस्य सहभावः, एकस्मिन्नेवोपलम्भे अर्थद्वयस्य युगपत्प्रतिभासित्वं वा ? प्रथमपक्षे असिद्धो हेतुः प्रतिविषयं ज्ञानभेदाऽसंभ- 10 वात्। साधनविकलश्च दृष्टान्तः ; न हि द्विचन्द्रप्रतिभासे प्रतिभासद्वयसाहित्यमस्ति, एकस्यैव ज्ञानस्य उभयाकारोल्लेखितयाऽध्यक्षतोऽध्यवसायात् / द्वितीयपक्षे तु विरुद्धत्वम् , एकत्रोपलम्भे सहाथद्वयप्रतिभासत्वस्य भेदे सत्येव संभवात् / अथ 'यदेकस्मिन्नेव संवेदने स्फुरति तत् संवेदनादभिन्नम् यथा संवेदनस्वरूपम् , स्फुरन्ति च तत्रैव संवेदने नोलादयो भावाः' इत्यतोऽनुमानाद् भेदे प्रतिभास्यत्वाऽसंभवान्नास्य विरुद्धत्वम् ; तन्न; संवित्-संवेद्ययोर्भेदस्य प्रत्यक्षादि- 15 प्रसिद्धत्वेन प्रतिपादितत्वात् / किञ्च, संवेदनस्य स्वपरावभासस्वभावत्वात् परस्य चाऽभावे तत्स्वभावसंवेदनस्वरूपस्यासंभवेन संवेदनस्याप्यसंभवात् कस्य केनाऽभेदः ? यञ्चोक्तम्-'यद्वद्यते तद्विज्ञानादभिन्नम्' इत्यादि / तत्र किमिदं वेद्यत्वम्-वेदनकर्मत्वम् ,तत्सम्बन्धित्वमात्रम् , तत्स्वभावत्वं वा ? यदि वेदनकर्मत्वम् ; तदा विरुद्धो हेतुः कर्मत्वस्य भेदेनैव व्याप्तत्वात् , न हि छिदिक्रियायाः कर्मभूतानि काष्ठानि अभिन्नान्युपलभ्यन्ते, अतः क्रिया-कारकयो- 20 भेंदे सत्येवोपलब्धेः भेदेनैव कर्म-क्रियाभावस्य व्याप्तत्वात् अभेदविपरीतार्थसाधनत्वाद् अभेदे सिद्धसन्दिग्धव्यतिरेकानन्वयत्वतः // 84 // " न्यायवि. पृ० 192 पू० / अष्टश०, अष्टसह, पृ. 242 / प्रमेयक० पृ० 21 / सन्मति० टी० पृ. 352 / “कृत्तिकाभिश्च व्यभिचारः प्रकृतहेतौ, तथाहि-तासु युगपदुपलम्भनियमोऽस्ति न चाभेदः, तद्भेदस्य सर्वाविसंवादेन प्रसिद्धत्वात् / " स्या० रत्ना० पृ० 157 / 1 तत्र भदन्तशुभगुप्तस्त्वाह-विरुद्धोऽयं हेतुर्यस्मात् “सहशब्दश्च लोकेऽन्यो (स्या) नैवाने (न्ये) न विना क्वचित् / विरुद्धोऽयं ततो हेतुर्यद्यस्ति सहवेदनम् / " इति / पुनः स एवाह-यदि सहशब्द एकार्थः तदा हेतुरसिद्धः। तथाहि-नटचन्द्रमल्लप्रेक्षासु न टेकेनैवोपलम्भो नीलादेः।" तत्त्वसं. पं. * पृ० 567 / 2 राश्यन्तराभावाद् ब०, ज०, आ० / 3 सद्भावः आ० / ४-यं विज्ञान-भां०, ज० / 5 नहि चन्द्र-आ० / 6 स्युरिति ब०, ज० / 7 पृ० 119 पं० 5 / 8 " तथा किं यद् वेद्यते इति कर्मणि प्रयोगात् वेदनकर्तृकविदिक्रियारूपं वेदनकर्मत्वं वेद्यत्वं हेतुरिष्यते, किं वा यद्वद्यते इति यच्छब्दस्य वेदनक्रियया सामानाधिकरण्ये भावनिर्देशात् विदिक्रियारूपवेदनस्वभावत्वम् ?" स्या. रत्ना० पृ० 167 / ९-तुस्तस्य भां० /