________________ 122 लवीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० ननु तथाभूतस्यार्थस्य यावज्ज्ञानं ग्राहकं तावदर्थोऽपि ज्ञानस्य ग्राहकः कुतो न स्यादिति चेत् ? स्वभावभेदात् / न खलु य एवैकस्य स्वभावः स एवान्यस्यापि, अन्यथा प्रदीपवत् घटस्यापि प्रकाशकत्वप्रसङ्गः, तथा प्रतीतिः अन्यत्रापि समाना / नहि अर्थस्य ज्ञानवत् ग्राहकत्वेन प्रतीतिरस्ति / 'नीलाद्याकाराणां वा यावद् बुद्धिर्व्यापिका तावन्नीलादयः किन्नास्या व्यापकाः, 5 नियतानाञ्चैषां यावदसौ व्यापिका तावत् सर्वेषां किन्न व्यापिका ?' इति चोद्ये भवतोऽपि नातः स्वभावभेदप्रतीतेः अन्यदुत्तरम् / __ यदप्यभिहितम्-'अर्थो नित्योऽनित्यो वा एकरूपोऽनेकरूपो वा' इत्यादि; तदपि अखिलार्थानामनेकान्ताभ्युपगमानिरस्तम् , नहि सर्वथा नित्योऽनित्यो वा एकरूपोऽनेकरूपो वा बहिर न्तर्वाऽर्थोऽस्ति इत्यनेकान्तसिद्धौ प्ररूपयिष्यते / 10 यदप्युक्तम्-'अर्थो ज्ञानाधिरूढ एवार्थतामासादयति' इत्यादि; तत्र कोऽधिरूढार्थः-व्यव स्थितिः, अपेक्षा वा ? न तावद्वयवस्थितिः; तस्य ज्ञानाऽनात्मभूतस्य स्वपराप्रकाशकस्य आत्मप्रकाशे परमुखप्रेक्षकस्य जडव्यवहारविषयस्य अध्यक्षादितो बहिर्व्यवस्थितत्वप्रतीतेः, अन्यथा जाड्यव्यवहारेण बहिश्छिदादिक्रिया न स्यात् / द्वितीयपक्षे तु ज्ञानार्थयोर्भेद एव स्यात् , अपेक्षायाः स्वामि-भृत्यवत् भेदे सत्येव संभवात् / 'ज्ञानापेक्षाऽर्थस्य सिद्धिः' इत्ये१५ तावता अर्थस्य ज्ञानात्मकत्वे कार्यस्यापि कारणात्मकत्वप्रसङ्गात् कारणाद्वैतमप्यनुषज्येत, न हि कारणनिरपेक्षा कार्यस्य सिद्धिरिति / यच्चान्यदुक्तम्-'यत् स्वयं प्रकाशते तज्ज्ञानादनन्यत्' इत्यादि; तदपि श्रद्धामात्रम् ; स्वयं प्रकाशमानत्वस्य अर्थे प्रागेव प्रतिषेधात् / यच्चोक्तम्-'सहोपलम्भनियमात्' इत्यादि ; तदप्युक्तिमात्रम् ; अनैकान्तिकत्वात् , भिन्ना 1 पृ. 117 पं० 21 / 2 "तथाहि-न तावत् पृथिव्यादिबाह्योऽर्थः अस्य ग्राह्यो विद्यते तस्य एकानेकस्वभावशून्यत्वात् / भासमानः किमात्माऽयं बाह्योऽर्थः प्रतिभासते। परमाणुस्वभावः किं किं वावयविलक्षणः // 1967 // " तत्त्वसं० पृ० 550 / 3 पृ० 118 पं० 10 / 4 अपेक्षायाः प्रागेव प्रतिषेधात भा० / ५-स्यापि सि-भां० / 6 पृ. 118 पं० 14 / 7 पृ. 118 पं. 16 / 8 “स्यादेतत्-यद्यपि विपक्षे सत्त्वं न निश्चितं सन्दिग्धं तु ततश्चानै कान्तो हेतुः सन्दिग्धविपक्षव्यावृत्तिकत्वात् / " तत्त्वसं० पं० पृ० 569 / “यश्च सहोपलम्भनियम उक्तः सोऽपि विकल्पं न सहते। यदि ज्ञानार्थयोः साहित्येन उपलम्भः ततो विरुद्धो हेतुः नाभेदं साधयितुमर्हति साहित्यस्य तद्विरुद्धभेदव्याप्तत्वात् अभेदे तदनुपपत्तेः / अथ एकोपलम्भनियमः; न; एकत्वस्य अवाचकः सहशब्दः / अपि च किमेकत्वेन उपलम्भः आहो एक उपलम्भः ज्ञानार्थयोः / न तावदेकत्वेन उपलम्भ इत्याह-बहिरूपलब्धेश्च विषयस्य / अथ एकोपलम्भनियमः तत्राह-अत एव सहोपलम्भनियमोऽपि प्रत्ययविषययोः उपायोपेयभावहेतुको नाभेदहेतुक इत्यवगन्तव्यम् / " शां० भा०, भामती 2 / 2 / 28 / " इदमत्राऽऽकूतम्-सहोपलम्भनियमश्च वेद्यत्वञ्च हेतू सन्दिग्धव्यतिरेकतया अनैकान्तिको....."विस्तरतस्तु न्यायकणिकायाम् (पृ. 264 ) अनुसरणीय इति / " योगसू. तत्त्ववैशा० 4 / 14 / “सहोपलम्भनियमान्नाभेदो नीलतद्धियोः / विरुद्धाऽ