________________ लघी०१।५] विज्ञानाद्वैतवादः कपरमब्रह्मसिद्धिप्रसङ्गः, जलचन्द्रवत् तस्यैव भेदेन प्रतिभाससंभवात् / यथा च अनादिवासनासामर्थ्यप्रतिनियमात् एवंविधो विज्ञानाद्वैते भेदप्रतिभासप्रपञ्चः, तथा नित्यनिरंशैकरूपे ब्रह्मण्यपि अनाद्यविद्यासामर्थ्यप्रतिनियमात् / / ___ किञ्च, भ्रान्तिः सर्वत्र साधर्म्यदर्शनाजायते, यथा अनुदकरूपासु मरीचिकासु उदकभ्रान्तिः, न च विज्ञप्तिमात्रवादिनः नचित् ( केचित् ) साधर्म्यदर्शनमस्ति यद् भेद- 5 भ्रान्तेर्निमित्तं स्यात् / ननु स्वापादौ अर्थाभावे साधर्म्यदर्शनाभावे च भेदभ्रान्तिरुपलभ्यते ततोऽयमदोषः ; तदसत् ;. तत्रापि पारम्पर्येण बाह्यार्थोपयोगात् , न ह्यननुभूतेऽर्थे स्वप्नः कदाचित् कचिदप्युदेति, अतोऽनुभूतार्थसापेक्षजन्मत्वात् स्वप्नस्य कथमर्थाभावे संभवः ? नन्वननुभूतेऽपि स्वंशिरश्छेदादौ ज्ञानमुपजायते ; तन्न ; तत्रापि परशिरश्छेदो दृष्टः, स्वशरीरञ्चानुभूतम् , तत्र मनोदोषवशाद् विवेकमपश्यन् आत्मशरीरे शिरश्छेदमभिमन्यते, अत- 10 स्तत्रापि अनुभूतोऽर्थ एव कारणम् / नहि अननुभूतपरशिरश्छेदस्य तदपि ज्ञानमुपजायते / गन्धवनगरप्रत्ययेऽपि परमार्थसन्तो बाह्यार्था जलधराः कुतश्चिदन्याकारतयाऽवभासन्ते / कथञ्च बाह्यापह्नवे जातिनैयत्यसिद्धिः ? ज्ञानमात्रे हि जगति नियामकाभावात् मनुष्योऽश्वः, अश्वोऽपि मनुष्यः, हस्त्यपि पिपीलिका, पिपीलिकापि हस्ती स्यात् / बाह्याभ्युपगमे तु तन्नैयत्यं सुघटमेव; येन हि मनुष्यत्व जात्युपभोग्यसुखदुःखादिनिमित्तं कर्म समाचरितं स तत्परिपाकवशात्तामेव 15 जातिं प्रतिपद्यते, एवमन्येऽपि प्राणिनः स्वोपार्जितसाधारणकर्मबलात् तास्ताः जातीः प्रतिपद्यन्ते / किञ्च, अर्थस्याऽसत्त्वम् इच्छामात्रेण, साधकप्रमाणाभावात् , संवादासत्त्वात् , अर्थक्रियाकारित्वाऽभावात् , बाधकप्रमाणसद्भावाद्वा ? यदीच्छामात्रेण तदाऽतिप्रसङ्गः, तदद्वैतादेरपि अतोऽसत्त्वानुषङ्गात् / नापि साधकप्रमाणाभावात् ; प्रत्यक्षस्यैव अनात्मभूताऽबाधितार्थक्रियाप्रसाधकोदकाद्यर्थसंसाधकस्य सद्भावात् / संवादासत्त्वमपि असिद्धम् ; प्रत्यक्षप्रतिपन्ने जलादौ 20 अनुमानादेः संवादकस्य संभवात् / अर्थक्रियाकारित्वाभावोऽपि अनुपपन्नः ; बाह्याऽऽध्यात्मिकार्थक्रियायाः तन्निबन्धनत्वात् / बाधकञ्चार्थस्य न किञ्चित्प्रमाणमुपलभ्यते / यञ्चात्र बाधकमुक्तम्-‘परतः सम्बद्धात् , असम्बद्धाद्वा' इत्यादि; तत्र सम्बद्धादेव ज्ञानादर्थस्य प्रतिभासः, सम्बन्धश्च योग्यतालक्षणः , न तादात्म्य-तदुत्पत्तिलक्षणः तस्य क्षणक्षयादिना चक्षुरादिना चाऽनेकान्तात् / योग्यस्य चार्थस्य समकालस्य भिन्नकालस्य वा ग्रहणमविरुद्धम् / 25 1 आदर्श ब०, ज०, प्रतौ च त्रुटितमेतत्स्थलम्, भां० प्रतौ तु 'नचित्' इति पाठः / 2 कदाचिदप्युदे-भां० / 3 "न चार्थाभावः प्रत्यक्षाधिगम्यः बाह्यार्थप्रकाशकत्वेनैवास्योत्पत्तेः / प्रमेयक० पृ० 21 पू० / सन्मति० टी० पृ० 349 / 4 “अयं वक्ति, चलतीत्यादिरूपा बाह्या , अहं सुखी दुःखीत्यादिस्वरूपा आध्यात्मिका अर्थक्रिया ।"५पृ०११७ पं०११।६“सम्बन्धो हि योग्यतास्वभाव एव ज्ञानार्थयोः ग्राह्यग्राहकभावानं न तु तादात्म्यादिः / " स्या० रत्ना० पृ० 163 / ७क्षणक्षयस्य ज्ञानेन तादात्म्येऽपि ज्ञानस्य प्रतिभासो न क्षणक्षयस्य, चक्षुरादेानमुत्पद्यते न च ज्ञानात् तत्प्रतिभासः / स्या० रत्ना० पृ.... 16