________________ 120 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० भासते, तथापि अनयोरभेदे न किञ्चित् कुतश्चिद्भिद्यत, प्रतिभासभेदं विरुद्धधर्माध्यासञ्च विहाय अन्यस्य भेदकस्याऽसंभवात् / तथा, 'यद् द्वयाकारतया प्रतिभासते तत् तत्त्वतो भिन्नम् यथा सुखदुःखे, द्वयाकारतया प्रतिभासेते च विषय-ज्ञानाकारौ' इत्यनुमानाच्चानयोर्भेदः / अभेदे वा ज्ञानरूपाग्रहणे नीलादेरप्यग्रहणप्रसङ्गः; यादृशं हि पारमार्थिकं यस्य रूपं तस्याग्रहणे तदपि न गृह्यते यथा पीतस्य पोतरूपाग्रहणे पीतम् , न गृह्यते च ज्ञानस्वरूपं नोलादेरिति / ननु प्रकाशव्यतिरिक्तस्य नीलादेरूपलम्भे स्यादेतत् , न चासौ तद्वयतिरिक्तः कदाचिदप्युपलभ्यते; तदयुक्तम् / यतः कोऽयं प्रकाशो नाम 'अहम्' इति बुद्धिः, नीलादेईश्यता वा ? प्रथमपक्षे सिद्धो नीलादेस्ततो भेदः, न हि भिन्नमुपलभ्यमानमेव अभिन्नं युक्तम् सुखदुःखादेरप्य भेदापत्तेः / एतेन द्वितीयपक्षोऽपि प्रतिक्षिप्तः; दृश्यताया दर्शननिबन्धनत्वात्, अत एव दर्शनात् 10 पूर्वमप्यस्य सत्त्वसिद्धिः। किञ्च, अर्थाभावोऽनुपलब्धेः नान्यतः, “एकः प्रतिषेधहेतुः” [न्यायवि० पृ० 36 / ] इत्यभिधानात् / नचोपलश्यमानस्यैव अनुपलब्धिर्वक्तुं युक्ता, प्रतीतिविरोधात् / न च वक्तव्यम् पुरोवर्तिज्ञानाकार एवोपलभ्यते, तत्कथमर्थोपलब्धिः ? यतो न ज्ञानाकारतया पुरोवर्तिन्यर्थे कस्यचित्प्रतीतिरस्ति, 'नीलमर्थमुपलभामहे' इति सामानाधिकरण्येन अर्थे प्रतीत्युत्पत्तेः / साका१५ रता च विज्ञानस्य अग्रे निराकरिष्यते / अस्तु वाऽसौ; तथापि तत्प्रतिबिम्बित आकारः कादा चित्कत्वात् कार्यः / यत खलु कादाचित्कम् तत्कार्य दृष्टम् यथा घटादि, कादाचित्कश्च ज्ञानस्य नोलाद्याकार इति / कार्यत्वञ्च अन्यापेक्षया व्यातम् , यच्चान्यत् तद्विज्ञानसामग्रीतोऽधिकम् तस्यां सत्यामपि तदनुत्पत्तेः / यस्यां सत्यामपि यन्नोत्पद्यते तत् ततोऽधिक कारणजन्यम् यथा भूम्यादिकारणसामग्रीतोऽभवन्नङ्कुरः तदधिकबीजाख्यकारणजन्यः, सत्स्वपि चक्षुरादिषु नोत्पद्यते 20 च नीलाकार इति / यत् तदधिकं तज्जनकं कारणम् सोऽर्थः / वासनारूपं चक्षुरादिभ्योऽधिकं कारणमत्र भविष्यतीति चेत; किम् आलम्बनत्वेन, अधिपतित्वेन, समनन्तरत्वेन वा ? प्रथमपक्षे अर्थ एव नामान्तरेणोक्तः स्यात् / उत्तरपक्षद्वये तु चक्षुरादिवत् तस्याः ग्राह्याकारकारणानुपपत्तिः / यदि च बाह्यमर्थमन्तरेण रूपादिज्ञानं स्यात ; तदा कथं प्रतिनियतदेश-काल-प्रमातृनिष्ठतया तत्स्यात् नियामकाऽभावतः सर्वत्र सर्वदा सर्वे२५ षामनियमेनैव तत्प्रसङ्गात् ? कथं वा तत्रैव देशे तस्यैव प्रमातुः कदाचित्तदुत्पद्येत कदाचिन्नेति ? कथं वा तैमिरिकस्यैव सन्ताने खे केशपाशदर्शनं नान्येषाम् , तदुपलब्धैश्च केशादिभिः कार्य न क्रियते नान्यैः तुल्येऽप्यर्थाभावे ? स्वप्नदृष्टान्तमात्रेण अर्थाभावे देशादिनियमस्य कल्पने निरंशै १-नस्वरूपा-भां० / २-स्य स्वरूपं भां० / 3 चत्वारः प्रत्यया उक्ताः / हेतुप्रत्ययः, समनन्तरप्रत्ययः, आलम्बनप्रत्ययः, अधिपतिप्रत्ययश्च / अभिधर्म को० 2 / 61 / 4 कदाचिदुत्प-भां० / 5 "देशादिनियमः सिद्धः स्वप्नवत् प्रेतवत् पुनः। सन्तानानियमः सर्वैः पूयनद्यादिदर्शने // 3 // स्वप्नोपघातवत् कृत्यक्रिया नरकवत् पुनः / सर्व नरकपालादिदर्शने तैश्च बाधने // 4 // " विंश. विज्ञप्तिमान