________________ लघी० 115] विज्ञानाद्वैतवादः 119 कोपलभ्यमानादेकस्माञ्चन्द्राद् द्वितीयश्चन्द्रः, नियतसहोपलम्भश्च ज्ञानेनार्थ इति / भेदे हि नियमेन सहोपलम्भो न दृष्टः यथा घटपटयोः, तथा च भेदः सहोपलम्भाऽनियमेन व्याप्तः, तद्विरुद्धश्च सहोपलम्भनियमो दृश्यमानः स्वविरुद्धमनियम निवर्त्तयति, स च निवर्तमानः स्वव्याप्यं भेदं निवर्त्तयति, ततोऽयं हेतुः विपक्षाद्भेदात् स्वविरुद्धव्याप्तात् निवर्तमानो रोश्यन्तराभावाद् अभेद एवावतिष्ठते इत्यविनाभावसिद्धिः / तथा यद्वेद्यते तद्धि ज्ञानादभिन्नम् यथा 5 विज्ञानस्वरूपम् , वेद्यन्ते च नोलादय इत्यतोऽपि विज्ञानाद्वैतसिद्धिरिति / अत्र प्रतिविधीयते / यत्तावदुक्तम्-' यदवभासते तज्ज्ञानम्' इत्यादि; तत्र अर्थानामवभास ___ मानत्वं स्वतः, परतो वा स्यात् ? स्वतश्चेत् ; असिद्धम्, नहि परनिरसंवेदनाद्वैतवादिमत पेक्षप्रतिभासा घटादयः कस्यचित् स्वप्नेऽपि प्रसिद्धाः, अन्यत्र महाखण्डनम् मोहाक्रान्तचेतसो योगाचारात् / परतश्चेत् विरुद्धम् , तथावभासमानत्वस्य जडत्वे सत्येव संभवात् , स्वसिद्धौ परमुखप्रेक्षित्वलक्षणत्वाज्जडत्वस्य / 'यद् येनोपलब्धिलक्षणप्राप्तेनाकारेण न प्रतिभासते न तत् तदात्मकम् यथा घटाकारेण पटः, न प्रतिभासते च ज्ञानाकारेण घटाद्यर्थः' इत्यनुमानाच्च घटादेर्जडत्वप्रसिद्धः अनुमानबाधितपक्षनिर्देशानन्तरं प्रयुक्तत्वेन कालात्ययापदिष्टत्वम् / ननु ज्ञानाद् भिन्नस्यार्थस्य उक्तप्रकारेणाऽप्रसिद्धः कथं परतः प्रतिभासः यतो विरुद्धत्वं हेतोः स्यात् ? तदयुक्तम् ; ज्ञानार्थयोर्भेदस्याध्यक्षत एव प्रसिद्धः, 15 प्रत्यक्षेण हि पुरोवर्तिस्फुटविकटाकारो नीलधवलादिरूपो दिक्प्रदेशविशेषनियतोऽनात्मनिष्ठोऽर्थः प्रतीयते, प्रतीयमानस्य चापह्नवे अन्तःसंवेदने कः समाश्वासः ? इति सर्वापह्नव एव स्यात् , नहि विज्ञानस्य सुखादेर्वा प्रतीतेरन्यतः सत्त्वम् / न च विज्ञानरूपतया अर्थसत्त्वमिष्टमेव इत्यभिधातव्यम् ; विज्ञानव्यतिरिक्तस्यैवास्य प्रतिभासमानत्वात् / तथा च, यद् यत्रोपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्तत्र नास्ति यथा क्वचित्प्रदेशविशेषे घटः, नोपलभ्यते च उपलभ्यमाने घटादौ 20 तथाभूतं ज्ञानस्वरूपमिति / न चेदमसिद्धम; तत्स्वरूपस्यानहङ्कारास्पदाद् बाह्यार्थस्वरूपाद्विलक्षणस्य अन्तरहङ्कारास्पदस्यानुभवात् / ततश्च यो विरुद्धरूपानुभवो नासौ एकस्वरूपार्थविषयः यथा सुख-दुःखानुभवः, अस्ति च अर्थ-ज्ञानयोः परस्परपरिहारस्थितस्वरूपत्वेन विरुद्धयोः स्वरूपानुभव इति / ग्राहकस्वरूपं हि विज्ञानमन्तः ग्राह्यस्वरूपं तु नीलादिकं बहिः परिस्फुटं प्रति 1 वाभ्यन्तराभावात् ब० , ज०। गत्यन्तराभावात् भां०। 2 "तदनेन प्रबन्धेन वेद्यत्वलक्षणो हेतुः समर्थितो विज्ञानवादिनां स चैवं प्रयोगमहति-यद् वेद्यते येन वेदनेन तत् तस्मान्न भिद्यते यथा ज्ञानस्य आत्मा / " विधिवि० न्यायकणि० पृ. 260 / ज्ञानाद्वैतविषयकः विस्तृतः पूर्वपक्षः शाबरभाष्यस्य बृहतीपनिकायां (5 / 1 / 1) द्रष्टव्यः / 3 पृ० 1175010 / 4 "क्षणिकत्वमनन्यवेद्यत्वं नानासन्तानत्वमिति स्वतः तावन्न सिद्धयति भ्रान्तेः / " अष्टश०, अष्टसह. पृ० 241 / " यत्तु संवेदनाद्वैतं पुरुषाद्वैतवन्न तत् / सिद्ध्येत् स्वतोऽन्यतो वापि प्रमाणात् स्वेष्टहानितः // 85 // " आप्तपरी० / 5 अर्थस्य सत्त्वज०, भां०। ६-द्धस्वरूपानु-भां० /