________________ 118 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० व्यवस्थाविलोपः, तथा च 'इदं नीलस्य ग्राहकम् इदं पीतस्य' इति प्रतिनियतकर्मव्यवस्थापकाऽभावात् प्रतिनियतविषये प्रतिनियता प्रवृत्तिरपि दुर्लभा / साकारत्वे च ज्ञानस्य अर्थकल्पनावैयर्थ्यम् तत्रैव ग्राह्य-ग्राहकभावस्य परिसमाप्तत्वात् / ननु ज्ञानगताकारस्य कादाचित्कस्य परिदृश्यमानकारणेभ्यः उपपद्यमानत्वात् कारणाभावे 5 च कार्यसद्भावाऽनुपपत्तेः तदुपपत्तये तदाकारोऽर्थः कल्प्यते, यस्तथा ज्ञानं जनयतीति; तदप्य साम्प्रतम् ; वासनासामर्थ्यात् तथाभूतज्ञानोत्पत्ते ऽतोऽर्थसद्भावसिद्धिः, अर्थाच्च तथाभूतज्ञानसंभवे स्वप्नेन्द्रजालगन्धर्वनगरादौ तदभावः स्यात् / न हि स्वप्नादौ प्रतिभासमानोऽर्थः अस्ति, यः स्वगतमाकारं विज्ञाने विदध्यात्, अतो ज्ञानाभावे गन्धर्वनगराधाकारानुपलम्भात् तत्स द्भावे चोपलम्भात् अन्वय-व्यतिरेकाभ्यां ज्ञानस्यैवायमाकारोऽवसीयते / 10 किञ्च, अर्थो ज्ञानाधिरूढ़ एव अर्थतामासादयति, ज्ञानं पुनरर्थनिरपेक्षं स्वप्नादौ स्वसाम येनैव असतोऽप्यर्थान् अवभासयदर्थक्रियां निवर्तयति, अतो ज्ञानादभिन्नोऽर्थः / किञ्च, द्वयोर्दर्शने ‘अनेनाऽयं सदृशः' इति प्रतिपत्तिर्युक्ता, न च ज्ञानव्यतिरिक्तोऽर्थः कदाचिद् दृष्टः येन 'अर्थस्यायमाकारो न ज्ञानस्य ' इत्यध्यवसायः स्यात् / ततो नीलादेः परतः प्रकाशानुपपत्तेः सिद्धं स्वयं प्रकाशनियतत्वम् , तस्माच्च ज्ञानादभिन्नत्वम् / तथाहि-यत् स्वयं 15 प्रकाशते तज्ज्ञानादनन्यत् यथा सुखादि, स्वयं प्रकाशन्ते च नोलादय इति / सहोलम्भनियमाच, यद्धि येन नियमेन सहोपलभ्यते तत् ततो न भिद्यते यथा तैमिरि 1 "तस्माद् विभक्त आकारः सकलो वासनाबलात् / बहिरर्थत्वरहितस्ततोऽनालम्बना मतिः॥ अत एव सर्वे प्रत्यया अनालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययपदिति प्रमाणपरिशुद्धिः / तथाहि इदमेव अनालम्बनत्वं यदात्माकारवेदनत्वम् / " प्रमाणवा. अलं. पृ. 22 / २-नोपपत्ते-भां०, ज०। 3 "ननु नीलं कथमात्मस्वरूपं प्रकाशयति ? नहि प्रकाश्या घटादयः प्रदीपादिना स्वप्रकाशकाः आत्मनि क्रिया विरुद्ध्यते नहि सैवासिधारा तयैव छिद्यते / अत्र परिहारः-प्रकाशमानस्तादात्म्यात् स्वरूपस्य प्रकाशकः / यथा प्रकाशोऽभिमतः तथा धीरात्मवेदिनी।" प्रमाणवा० पृ०१४। 4 "सकृत् संवेद्यमानस्य नियमेन धिया सह / विषयस्य ततोऽन्यत्वं केनाकारेण सिद्ध्यति // 386 // " "विषयस्य हि नीलादेः धिया सह सकृदेव सम्वेदनं धिया सह (.), न पृथक् ततः संवेदनादपरो विषय इति कथम् ? तथाभूतमेव संवेदनमिति स्यात् विवेचयितुमशक्यम् इति प्रतिपादितम् / भेदावभासनं भवतीति चेत्-भेदश्च भ्रान्तिविज्ञानैदृश्येतेन्दाविवादये।" प्रमाणवा. अलं० पृ. 91 / “यत्संवेदनमित्यादिना नीलतद्धियोरभेदसाधनाय निराकारज्ञानवादिनं प्रति प्रमाणयति-यत्संवेदनमेव स्याद्यस्य संवेदनं ध्रुवम् / तस्मादव्यतिरिक्तं तत् ततो वा न विभिद्यते // 2030|| यथा नीलधियः स्वात्मा द्वितीयो वा यथोडुपः। नीलधीवेदनञ्चेदं नीलाकारस्य वेदनात् // 2031 // ... एतदुक्तं भवति-यस्मादपृथक संवेदनमेव तत्तस्मादभिन्नं यथा नीलधीः स्वस्वभावात् , यथा वा तैमिरिकज्ञानप्रतिभासी द्वितीय उडुपः-चन्द्रमा, नीलधीवेदनञ्चेदम् इति पक्षधर्मोपसंहारः / धर्म्यत्र नीलाकारतद्धियौ तयोरभिन्नत्वं साध्यधर्मः यथोक्तः सहोपलम्भनियमो हेतुः / ईदृश एव आचायींये सहोपलम्भनियमादित्यादौ प्रयोगे हेत्वर्थोऽभिप्रेतः / " तत्त्वसं० पृ० 567 /