________________ लघी० 115] विज्ञानाद्वैतवादः 117 दर्शनपूर्वकम् ; न च सत्तायाः परं सामान्यमस्ति यतोऽनवस्था स्यात् / विषयः घटादिः विषयी चक्षुरादिः तयोः समीचीनः यथार्थज्ञानजनको निपातः योग्यदेशाद्यवस्थानम् तस्य अनन्तरम् आद्य ग्रहणं ज्ञानम् अवग्रहः अवान्तरमनुष्यत्वादिजातिपरिच्छेदः / तत्र 'विषयः' इत्यादिना विषयस्वरूपं निरूपयति / तावत् शब्दः क्रमवाची विषयो गोचरः अर्थः किंविशिष्टः ? द्रव्यपर्यायात्मा / तत्र द्रव्यम् पूर्वोत्तरविवर्त्तवर्त्यन्वयप्रत्ययसमधिगम्यम् ऊर्ध्वतासामान्यम् , 5 तत्र क्रमभुवो विवर्ताः पर्यायाः ते आत्मा स्वभावो यस्य स तथोक्तः / ननु ज्ञानस्वरूपातिरक्तस्याऽर्थस्य सद्भावे प्रमाणाभावात् कस्य द्रव्यपर्यायात्मकत्वविशिष्टस्य _ विषयत्वं प्ररूप्यते ? प्रतिभासमानस्याऽशेषस्य वस्तुनो ज्ञानसंवेदनाद्वैतवादिनो योगाचारस्य 1 स्वरूपान्तःप्रविष्टत्वप्रसिद्धः संवेदनमेव पारमार्थिकं तत्त्वम् / पूर्वपक्षः ___ तथाहि-यदवभासते तज्ज्ञानमेव यथा सुखादि, अवभासन्ते च 10 भावा इति / न चैषां परतोऽवभासो घटते / स हि परतः सम्बद्धात्, असम्बद्धाद्वा भवेत् ? न तावदसम्बद्धात्; अतिप्रसङ्गात् / अथ सम्बद्धात्; किं तादात्म्येन, तदुत्पत्त्या वा ? यदि तादात्म्येन तदा ज्ञानरूपताऽर्थानाम् जडस्वभावता वा ज्ञानस्य स्यात् , तादात्म्यस्य अन्योन्यस्वरूपस्वीकारस्वभावत्वात् / झानस्वरूपत्वे चार्थानां सिद्ध ज्ञानाद्वैतम् / जडस्वभावत्वे तु ज्ञानस्य अर्थव्यवस्थावळ्च्छेदः जगतो विवेकविकलतया आन्ध्यप्रसक्तेः / अथ तदुत्पत्त्या; कुतः किमुत्पद्येत ज्ञानादर्थः, अर्थाद्वा ज्ञानम् ? प्रथमपक्षे अर्थस्य ज्ञानरूपताप्रसङ्गः ज्ञानादुत्पद्यमानत्वात् उत्तरज्ञानक्षणवत् / अथ अर्थाज्ज्ञानमुत्पद्यते ; किं समका'लात्, भिन्नकालाद्वा ? न तावत् समकालात् ; समसमयभाविनोः सव्येतरगोविंषाणवत् कार्यकारणभावाऽभावात, अन्यथा अर्थ प्रति ज्ञानस्यापि कारणत्वप्रसङ्गः अविशेषात् / भिन्नकालात्ततस्तदुत्पत्तौ ज्ञानस्याऽहेतुकत्वप्रसक्तिः, तत्कालेऽर्थस्याऽसत्त्वात् , यदसन् न ततः किञ्चिदुत्प- 20 त्तुमर्हति यथा मृताच्छिखिनः केकायितम् , असंश्च ज्ञानकाले अर्थ इति / किञ्च, अर्थो ज्ञानस्य जनको नित्यः संभवेत् , अनित्यो वा ? नित्यत्वे सर्व ज्ञानमेकदैवोलादयेत् नित्यैकरूपतया तस्यैकदेव तज्जननसामर्थ्यसंभवात्, अन्यथा नित्यैकरूपताव्याघातः स्यात् / अनित्यस्य च समकालस्य भिन्नकालस्य वा तज्जनकत्वं प्रतिषिद्धम् / तथा एकरूपः, अनेकरूपो वाऽसौ स्यात् ? एकरूपत्वे दूरासन्नानां स्पष्टाऽस्पष्टप्रतिभासभेदो न स्यात् / अनेकरूपत्वे परमाणुशो 25 भेदात् न कस्यचित् स्फुटतया अस्फुटतया वा स्थूलैकप्रतिभासः स्यात् / .. किञ्च, असौ निराकारज्ञानग्राह्यः, साकारज्ञानग्राह्यो वा ? निराकारज्ञानग्राह्यत्वे प्रतिकर्म १ायाः आ-भां० / २-त्मा भा-ब०, ज० / 3 प्ररूप्येत ज०, भां० / 4 “अनिर्भीसं सनिभीसमन्यनिर्भासमेव च / विजानाति न च ज्ञानं बाह्यमर्थ कथञ्चन // 1999 // " तत्त्वसं० पृ० 559 / ५-न्यरूप-आ० / 6 ज्ञानरूपत्वे ब०, ज०, भां० /