________________ 116 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० अर्थग्रहणं योग्यतालक्षणम् , तदनन्तरभूतं सन्मात्रदर्शनं स्वविषयव्यवस्थापनविकल्पम् उत्तरपरिणामं प्रतिपद्यते अवग्रहः / पुनः अवग्रहीकृतविशेषाऽऽकाङ्क्षणम् ईहा / तथेहितविशेषनिर्णयोऽवायः कथञ्चिदभेदेऽपि परिणामविशेषाद् व्यपदेशभेदः / अक्षाणां चक्षुरादीन्द्रियाणां अर्थानां घटादीनां योगे सम्बन्धे योग्यतालक्षणे सति, न तु संयोगादिलक्षणे तस्य प्रागेव प्रतिक्षिप्तत्वात्, सत्तालोकः कारिकाविवरणम्- सकलहेयोपादेयसाधारणसत्त्वमात्रस्य आलोको दर्शनम् आत्मनः प्रथमतः प्रादुर्भवति, तदनु स एवाऽऽलोकः अर्थाकारविकल्पधीः भवति। अर्थः व्यवहारिणा हेयत्वेन उपादेयत्वेन वा प्रार्थ्यमानो भावः तस्य आकारः सत्त्वसामान्यादवान्तरो जातिविशेषो मनुष्यत्वादिः तस्य विकल्पधीः निर्णय१० रूपा बुद्धिः आविर्भवति तद्रूपतया दर्शनं परिणमत इत्यर्थः / तस्याः किन्नाम ? इत्यत्राह 'अवग्रह' इति / अयमपि विशेषाकाङ्क्षा भवति / अन्यस्याऽप्रकृतत्वादश्रूयमाणत्वाच अर्थाकारस्यैव विशेषो बलाकादिभेदो गृह्यते तस्य आकाङ्क्षा भवितव्यताप्रत्ययरूपतया ग्रहणाभिमुख्यम् / तस्याः नाम कथयति ईहा इति / सापि अवायो भवति आकातिविशेष विनिश्चयो भवति / ततश्च ज्ञानज्ञेययोः कथञ्चित्कालान्तरानुवृत्तिमत्त्वप्रसिद्धः सिद्धम् 15 इन्द्रियाऽनिन्द्रियप्रभवप्रत्यक्षस्य संव्यवहारनियुक्तत्वं हेयोपादेयार्थविषयत्वसंभवात् , सवथाऽ ननुवृत्तिमत एव तदसंभवतः तन्नियुक्तत्वाऽनुपपत्तेः / कारिकां विवृण्वन्नाह-'विषय' इत्यादि / ननु कारिकायां दर्शनं पूर्वमुक्तम् पश्चाद् अवग्रहः, वृत्तौ तु विपर्ययः किमर्थम् ? इति चेत् अवग्रहाद् दर्शनस्य विवृतिव्याख्यानम्- कारिकायां पूर्व प्रतिज्ञातस्य अनुमेयत्वख्यापनार्थम् / यथैव हि 20 अवान्तरजातिग्रहणपूर्वकम् उत्तरं विशेषज्ञानं तत्त्वात् , तथा तत एव अवान्तरजातिग्रहणं सत्ता 1 अवग्रहगृहीतवि-आ० वि० / अवग्रहीत-ज० वि० / “अवग्रहगृहीतेऽर्थे तद्विशेषाकाङ्क्षणमीहा / " सर्वार्थसि० पृ० 63 / अवगृहीतेऽर्थे राजवा० पृ०.४१ / तत्त्वार्थश्लो० पृ० 220 / “अवगृहीतेऽर्थे विषयार्थैकदेशाच्छेषानुगमनं निश्चयविशेषजिज्ञासा चेष्टा ईहा / ईहा ऊहा तर्कः परीक्षा विचारणा जिज्ञासा इत्यनान्तरम् / " तत्त्वार्थाधि० भा० पृ० 18 / “अवगृहीतार्थविशेषाकाङ्क्षणम् ईहा' प्रमाणनयतत्त्वा० 2 / 8 / प्रमाणमी० 1 / 1 / 28 / जनतर्कप० पृ० 116 / 2 “विशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः” सर्वार्थसि० पृ० 63 / राजवा० पृ. 42 / तत्वार्थश्लो० वा० पृ. 220 / " अवगृहीते विषये सम्यगसम्यगिति गुणदोषविचारणाध्यवसायापनोदोऽपायः / अपायोऽपगमः अपनोदः अपव्याधः अपेतमपगतमपविद्धमपनुत्तमित्यनान्तरम् / " तत्त्वार्था० भा० पृ० 18 / "ईहितविशेषनिर्णयोऽवायः / " प्रमाणनयतत्त्वा० 2 / 9 / प्रमाणमी० 1 / 1 / 29 / जैनतर्क० पृ० 116 /