________________ लघो० 1 / 5] अवग्रहादीनां लक्षणानि 115 __ ननु बाधकामाववत् साधकस्यापि प्रमाणस्य तत्राऽभावात् सन्देहोऽस्तु, इत्यारेकां निनन्नाह _ 'साधक' इत्यादि / साधकबाधकप्रमाणाभावात् कारणात् तत्र अतीविवृतिव्याख्यानम् - न्द्रियप्रत्यक्षे संशीतिः अनेन 'यावज्ज्ञेय' इत्यादिना प्रन्थेन प्रत्युक्ता निरस्ता / कुत एतत् ? इत्याह-बाधकस्यैवाऽसंभवात् न साधकस्य / यदि नाम बाधकस्यैवाऽसंभवः किमेतावता अतीन्द्रियप्रत्यक्षस्य सद्भावो भविष्यति ? इत्यत्राह- 5 'सर्वत्र' इत्यादि / सर्वत्र दृश्येऽन्यत्र वा विषये बाधकामावेतराभ्यां भावाभावव्यवहारसिद्धिः बाधकस्याभावेन हि वस्तुनि भावव्यवहारसिद्धिः, भावेन च अभावव्यवहारसिद्धिरिति / कुतस्तर्हि सन्देहः ? इत्याह-'तद्' इत्यादि / तयोः बाधंकेतरयोः सन्देहादेव सन्देहः सर्वत्रेति / ननु न बाधकाभावाद् भावव्यवहारसिद्धिः अपि तु प्रतीतेः इत्याशङ्कथाह-'तत एवं' इत्यादि / तत एव बाधकामावादेव अनुभवस्य सुखादिसंवेदनस्य प्रामाण्यव्यवस्थापनात् 10 इति एवम् अलमतिप्रसङ्गेन / ननु च इन्द्रियाऽनिन्द्रियप्रत्यक्षस्य वर्तमानमात्रपर्यवसितत्वेन हेयोपादेयाऽविषयत्वात् कथं संव्यवहारनियुक्तत्वम् ? इत्यारेकायामाह अक्षार्थयोगे सत्तालोकोऽर्थाकारविकल्पधीः / अवग्रहो विशेषाकाङ्क्षहावायो विनिश्चयः // 5 // 15 विकृतिः-विषयविषयिसन्निपातानन्तरमायं ग्रहणम् अवग्रहः / विषयस्तावत् द्रव्य-पर्यायात्मार्थः, विषयिणो द्रव्यभावेन्द्रिय॑स्य / * द्रव्येन्द्रियं पुद्गलात्मकम् / लब्ध्युपयोगी भावेन्द्रियम् / अर्थग्रहणशक्तिः लब्धिः, उपयोगः पुनरर्थग्रहणव्यापारः / * 1 “साधकबाधकप्रमाणाभावात् सर्वज्ञे संशयोऽस्तु इत्ययुक्तम् ; यस्मात् साधकबाधकप्रमाणयोः निर्णयाद् भावाभावयोरविप्रतिपत्तिः बाधकनिर्णयात्त्वसत्तायाम् / " अष्टश, अष्टसह. पृ. 49 / २-भावातत्र भां० / ३-त्राह-सर्वत्र दृश्ये-आ० / ४-त्र बाध-भां० / 5 बाधकाभावेतरयोः सन्देहाभावादेव भां० / 6 इन्द्रियप्रत्यक्षस्य भा० / 7 “विषय-विषयिसन्निपातसमयानन्तरमाद्यग्रहणमवग्रहः / " सर्वार्थसि० पृ० 62 / त० राजवा० पृ० 42 / “अक्षार्थयोगजाद्वस्तुमात्रग्रहणलक्षणात् जातं यद्वस्तुभेदस्य ग्रहणं तदवग्रहः // 2 // " तत्त्वार्थश्ली• पृ. 219 / “अत्थाणमुग्गहणमवग्गहं तह वियालणमीहम् / ववसायं च अवायं धरणं पुण धारणं वेति // 9 // " आ. नि / “सामण्णत्थावग्गहणमुग्गहो भेयमग्गणमहेहा / तस्सावगोवाओ अविच्चुई धारणा तस्स // 180 // " विशेषा० भा० / "तत्र अव्यक्तं यथास्वमिन्द्रियविषयाणामालोचनावधारणमवग्रहः / अवग्रही ग्रहो ग्रहणमालोचनमवधारणमित्यनान्तरम् / " तत्त्वार्थाधिग० भा० पृ० 18 / प्रमाणनयतत्त्वा० 2 / 7 / “अक्षार्थयोगे दर्शनानन्तरमर्थग्रहणमवग्रहः / " प्रमाणमी० 1 / 1 / 27 / ८-यम ०वि० / एतत्तारकान्तर्गतः पाठः आ० विवृतौ नास्ति /