________________ 114 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि तदसमीक्षिताभिधानम् ; एवम् ईश्वरस्य भवतैव ऐश्वर्याऽभावप्रतिपादनात् , न हि बुद्धिपरिणामस्यैश्वर्यस्य संभवे ततोऽर्थान्तरस्यास्य तद् युक्तम्, अन्यात्मनोऽपि तत्प्रसङ्गात् / अथ बुद्धथा सह सम्बन्धसद्भावात् 'तस्यैव तत् नान्यस्य' इत्युच्यते; न कोऽयं तेनास्याः सम्बन्धः-समवायः, संयोगादिः, तदुद्देशेन प्रवृत्तिमात्रं वा ? न तावत् समवायः ; अन्यधर्मस्यान्यत्र समवायानु५ पपत्तेः, यो यद्धर्मः स ततोऽन्यत्र न समवैति यथा चिद्रूपता, प्रकृतिधर्मश्च बुद्धिः, तस्मात्ततोऽ र्थान्तरेऽस्मिन् न समवैतीति / न च स्फटिकादिसमवेतेन रक्तादिधर्मेणाऽनेकान्तः; जपापुष्पसन्निधाने स्फटिकादेरेव तथा परिणमनात् / एतच्च प्रतिबिम्बोदयसिद्धौ सप्रपञ्चं प्रपञ्चयिष्यते / आत्मनोऽपि बुद्धिरूपतया परिणतप्रकृतिसन्निधाने तथा परिणामाभ्युपगमे “चिच्छेक्तिरपरिणामि न्यप्रतिसङ्कमा" [व्यासभा० पृ० 15 ] इत्यादिग्रन्थविरोधः / तन्नेश्वरेण सह बुद्धेः समवायः 10 सम्बन्धो घटते / नापिसंयोगः; बुद्धेरद्रव्यत्वात् अतिप्रसङ्गाच्च; सर्वैरपि हि आत्मभिनित्यव्यापिभिः तस्याः संयोगो विद्यत एव / एतेन संयुक्तसमवायादिरपि प्रत्याख्यातः ; असंभवस्य अतिप्रसङ्गस्य चात्राप्यविशेषात् / अथ तदुद्देशेन प्रवृत्तिमात्रमेवास्यास्तेन सम्बन्धः; तदप्यसाम्प्रतम् ;' ईश्वरोद्देशेन अस्याः प्रवृत्तेरेवासंभवात्, पुरुषार्थकर्त्तव्यतावशेन हि प्रकृतेः प्रवर्तमानायाः बुद्ध थादयो विकाराः व्यक्तिमासादयन्ति, न चेश्वरस्य कश्चित्पुरुषार्थः कर्त्तव्योऽस्ति, नित्यनिर्मुक्त१५ वेन कृतकृत्यत्वात् तत्कथं तमुद्दिश्य प्रकृतिः प्रवर्तेत ? अप्रवृत्तायां वास्यां कथमैश्वर्यसंभवः ? किञ्च, ऐश्वर्य स्वाभिमतकार्यसम्पादने द्रव्यसहायादिसम्मन्नत्वमुच्यते, कार्यचेत् स्वाभिमतं न किञ्चिदसौ सम्पादयति केवलं वस्तु यथावज्जानाति, कथं तर्हि तावतास्य ऐश्वर्यम् ? नहि यो यत् जानाति स तत्र 'ईश्वरः' इत्युच्यते, अतिप्रसङ्गात् / अथ कालेनानवच्छिन्नं तज्ज्ञानम् तेनासौ ईश्वरः नान्यः ; ननु कालेनाऽनवच्छिन्नत्वं नित्यत्वे गमकम् नैश्वर्ये / एतेन 20 संभावनानुमानं प्रत्युक्तम् ; ततो हि बुद्ध्यादिगुणानां परमप्रकर्षः सिद्धयेत् नैश्वर्यम् / __किञ्च, पुरुषार्थकर्त्तव्यतानुरोधेन प्रकृतितः प्रवर्तमानाया निरवशेषभोगपूर्वकं विवेकख्यातिपर्यन्तं पुरुषार्थ सम्पाद्य विनिवृत्तकर्तृत्वभोक्तृत्वाद्यभिमानायाः बुद्धेः स्वकारणे लयः सम्पद्यते, ततश्च ईश्वरंप्रत्यस्याः कृतार्थता स्यात्, न वा ? कृतार्थत्वे बुद्धेः स्वकारणे लीनत्वात् गतम स्यैश्वर्यम् / अकृतार्थत्वे अद्यापि बन्धलेशस्य सद्भावाद् योगितुल्यत्वमस्य स्यात् , नेश्वरत्वमिति / 25 ततो जगत्कर्तृत्वादिप्रकारेण अशेषज्ञसद्भावाऽसिद्धेः सुनिश्चितासंभवद्बाधकप्रमाणत्वादेव तत्स द्भावसिद्धिरभ्युपगन्तव्या / 1 " ननु कोऽयमीश्वरेण साकं बुद्धेः सम्बन्धः-समवायः, संयोगादिः, ईश्वरोद्देशेन प्रवृत्तिमात्रं वा?" स्या. रत्ना० पृ० 456 / 2 “चितिशक्तिरपरिणामिन्यप्रतिसक्रमाऽदर्शितविषया शुद्धा चानन्ता च सत्त्वगुणात्मिका चेयम् / " योगसू० व्यासभा० 1 / 2 / “तथा चोक्तं पञ्चशिखेन-अपरिणामिनी हि भोक्तृशक्तिः अप्रतिसक्रमा च / " योगसू० तत्त्ववैशा० 2 / 20 / ३-मानाय नि-ब० .