________________ लघो० 114] ईश्वरवादः 113 एकमेव स्थित्यादीनां मध्ये कार्य सदा स्यात् यजनने तयोः सामर्थ्यमस्ति, नापरं तज्जनने तयोः सामर्थ्याऽसंभवात् / अविकारिणोश्चाऽनयोः पुनः सामोत्पत्तिविरोधात्, अन्यथा नित्यैकस्वभावताव्याघातः / नेनु चानयोः तत्सामर्थ्यसंभवेऽपि यदोद्भूतवृत्तिरजः सहकारि भवति तदोत्पत्तिविधायकत्वम् , यदा सत्त्वम् तदा स्थितिकारित्वम् , यदा तु तमः तदा प्रलयोत्पादकत्वम् ; इत्यप्यसाम्प्र- 5 तम् ; यतस्तेषामुद्भूतवृत्तित्वं नित्यम् , अनित्यं वा स्यात् ? न तावन्नित्यम् ; कादाचित्कत्वात् , स्थित्यादीनां योगपद्यप्रसङ्गाच्च / अथ अनित्यम् ; कुतो जायते प्रकृतीश्वरादेव, अन्यतो वा कुतश्चित् , स्वातन्त्र्येण वा ? प्रथमपक्षे सदाऽस्य सद्भावप्रसङ्गः, प्रकृतीश्वराख्यस्य हेतोर्नित्यरूपतया सदा सन्निहितत्वात् / अथ अन्यतः; तन्न ; प्रकृतीश्वरव्यतिरेकेण अपरकारणस्य भवताऽनभ्युपगमात् / तृतीयपक्षे तु देश-कालनियमेनाऽस्य आविर्भावविरोधः स्वातन्त्र्येण भवतः तन्नि- 10 यमानुपपत्तेः / स्वभावान्तरायत्तवृत्तयो हि भावाः कादाचित्काः स्युः तद्भावाभावप्रतिबद्धत्वात् तत्सत्त्वाऽसत्त्वयोः, नान्ये तेषामपेक्षणीयस्य कस्यचिदप्यभावात् , अपेक्षणीयसद्भावे वा स्वातन्त्र्येणोलादविरोधात् / अतः कर्तृत्वस्य ईश्वरे विचार्यमाणस्य कथञ्चिदप्यनुपपत्ते तः तस्याशेषज्ञत्वसिद्धिः / ... नाप्यैश्वर्याश्रयत्वात् , तत्रैश्वर्यस्यापि विचार्यमाणस्यानुपपत्तेः , तद्धि तंत्र स्वाभाविकम् , 15 प्रकृतिकृतं वा स्यात् ? न तावत् स्वाभाविकम् ; बुद्धिधर्मतया साङ्क्षयैस्तस्याभ्युपगेमात्, चैतन्यमेव हि तैः आत्मनि स्वाभाविक स्वरूपमभ्युगतम् / अथ प्रकृतिकृतम् ; तथाहि-यदा प्रकृतिर्बुद्धि• लक्षणेन विकारेण परिणमते तदा तदवस्थाविशेषाः धर्म-ज्ञान-वैराग्य-ऐश्वर्यादयः प्रादुर्भवन्तीति; 1 तथाहि-यदोद्भूतवृत्तिना रजसा युक्तो भवति महेश्वरः तदा सर्गहेतुः प्रजानां भवति प्रसवकार्यत्वाद्रजसः। यदा तु सत्त्वं समुद्भूतवृत्ति संश्रयते तदा लोकानां स्थितिकारणं भवति सत्त्वस्य स्थितिहेतुत्वात् / यदा तु तमसोद्भुतशक्तिना समायुक्तो भवति तदा प्रलयं नाशं सर्वजगतः करोति तमसः प्रलयहेतुत्वात् / यथोक्तम्-रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमस्पृशे / अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः। ( कादम्बरी पृ. 1) तत्त्वसं पं० पृ. 59 / प्रमेयक० पृ० 84 पू० / स्या. रत्ना० प्र० 454 / 2 "उत्कटं शक्तिरूपञ्च यदि तन्मात्रकारणम् / सर्वदा तद्भवेद्धतोनित्यरूपस्य सन्निधेः // 105 // न चापरं परैरिष्टमतो नैवान्यतोपि तत् / नापि स्वतन्त्रमेवेदं कादाचित्कत्वसंभवात् // 106 // स्वतो भावे ह्यहेतुत्वं स्वक्रियायाः विरोधतः / अपेक्षया हि भावानां कादाचित्कत्वसंभवः // 107 // " तत्त्वसं० / प्रमेयक पृ० 84 उ० / स्या० रत्ना० पृ. 455 / 3 "ततश्चास्य भावः कदाचित् प्रकृतीश्वरादेव कारणात् , अन्यतो वा हेतोः स्वतन्त्रो वा स्यात् ?' तत्त्वसं० 50 पृ०६१।४ “ऐश्वयं हि तत्र स्वाभाविकम् , प्रकृतिकृतं वा स्यात् ?" स्या. रत्ना० पृ. 455 / 5 “अध्यवसायो बुद्धिधर्मो ज्ञानं विरागमैश्वर्यम् / सात्त्विकमेतद्रूपं तामसमस्माद् विपर्यस्तम् // 23 // तत्र बुद्धः सात्विक रूपं चतुर्विधं भवति धर्मो ज्ञानं विरागमैश्वर्यमिनि / " सां० माठरवृ० /