________________ 112 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० वश्व मोक्षप्ररूपणावसरे प्रतिपादयिष्यते / अथ तदस्पृष्टत्वे सति अशेषज्ञत्वं तस्य स्वरूपम्, तत्कुतः सिद्धम् अशेषकर्तृत्वात् , ऐश्वर्याश्रयत्वाद्वा ? तत्राद्यपक्षोऽनुपपन्नः; योगाभिमतेश्वरपक्षनिक्षिप्तदूषणगणप्रसङ्गात् / कर्तृत्वाभ्युपगमे चास्य " अकर्ता निर्गुणः शुद्धः” [ ] इत्यादेरात्मलक्षणस्याऽनुपपत्तिः। अथ अन्यात्मनामेवैतल्लक्षणं नेश्वरस्य, अस्याऽतो विशिष्ट५ त्वात् तेनाऽयमदोषः; नन्वेवं शुद्धत्वादेरपि ईश्वरस्वरूपत्वाऽभावप्रसङ्गात् अतीव तस्य तेभ्यो विशिष्टत्वं स्यात् ! ___ अस्तु वाऽस्य कर्तृत्वम् , तथाप्यसौं स्वतन्त्रः कार्य कुर्यात् , प्रकृतितन्त्रो वा ? यदि स्वतन्त्रः; तदा यौगोपकल्पितेश्वरान विशिष्यते इति तद्दोषेणैव दुष्टताऽस्य प्रतिपत्तव्या / अथ प्रकृतितन्त्रः; तन्न; प्रकृतेः स्वरूपत एवाऽसिद्धः, तदसिद्धिश्च अग्रे निराकरिष्यमाणत्वात् सिद्धा। 10 तत्तन्त्रता चास्य अनयोऽतिशयाधानात्, मिलित्वैककार्यकारित्वाद्वा स्यात् ? तत्राद्यकल्पनाs युक्ता; सर्वथा नित्यत्वेन अविकारिणोऽस्य अतिशयाधानाऽसंभवात् / द्वितीयकल्पनाप्यनुपपन्ना; कार्याणां योगपद्यप्रसङ्गात् अप्रतिहतसामर्थ्यस्य ईश्वरप्रधानाख्यकारणद्वयस्य सर्वत्र सर्वदा सन्निहितत्वेनाऽविकलकारणत्वात्तेषाम् / यद् यदाऽविकलकारणं तत्तदा भवत्येव यथा अन्त्य क्षणप्राप्तसामग्रीतोऽङ्करः, अविकलकारणच नित्यव्यापीश्वर-प्रधानाख्यकारणद्वयाधीनमशेषं 15 कार्यमिति / ननु कारणद्वयस्याऽस्य सर्वत्र सर्वदा सन्निहितत्वेऽपि न सर्वत्र सर्वदा कार्योत्पत्तिः, तत्स्थित्युत्पत्तिविनाशविधाने सत्त्वरजस्तमसामुद्भूतवृत्तीनां यथाक्रमं सहकारित्वात् , तेषाञ्च तथाविधानां क्रमभावित्वादिति; तदप्यपेशलम् ; यतः प्रकृतीश्वरयोः स्थित्युत्पत्तिप्रलयानां मध्ये अन्यतमोत्पादनसमये तदारोत्पादने सामर्थ्यमस्ति, न वा ? यद्यस्ति; तर्हि सृष्टिसमयेऽपि 20 स्थितिप्रलयप्रसङ्गः अविकलकारणत्वादुत्पादवत, एवं स्थितिकालेऽपि उत्पाद-विनाशयोः विना शकाले च स्थित्युत्पादयोः प्रसङ्गः। न चैतद् युक्तम् / नहि परस्परपरिहारेणावस्थितानामुत्पादादिधर्माणाम् एकत्र धर्मिण्येकदा सद्भावो युक्तः प्रतीतिविरोधात् / अथ नास्ति सामर्थ्यम् ; तदा १“अशेषकर्तृत्वात् ऐश्वर्याश्रयत्वाद्वा ? " स्या० रत्ना० पृ. 454 / 2 “स किं स्वतन्त्रः सर्व कार्यं कुर्यात् प्रकृतिपरतन्त्रो वा ?" स्या. रत्ना० पृ. 454 / 3 “साहित्यं सहकारित्वात् एतयोः कल्प्यते च यत् / तत् स्यादतिशयाधानादेकार्थक्रिययापि वा // 95 // न युक्ता कल्पनाद्यस्य निर्विकारतया तयोः / न द्वितीयस्य कार्याणां योगपद्यप्रसङ्गतः // 96 // " तत्त्वसं० पृ० 59 / प्रमेयक. पृ. 84 पू० / स्या. रत्ना० पृ० 554 / 4 “इहोच्यते तयोरेकक्रियाकाले समस्ति किम् / तदन्यकार्यनिष्पत्तिसामर्थ्य यदि वा न तत् // 101 // यद्यस्ति सर्गकालेऽपि द्वयमप्यपरं भवेत् / एवमन्यस्य सद्भावे द्वयमन्यत् प्रसज्यते // 102 // " तत्त्वसंपृ. 60 / प्रमेयक. पृ० 84 उ० / स्या. रत्ना० पृ. 455 / ५-योः पुनः प्रसङ्गः भां० /