________________ लघी० 1 / 4] ईश्वरवादः 111 महत्तमो भवति / प्राप्तिः-यद् यद् मनसा चिन्तयति तत्तत्प्राप्नोति / प्राकाम्यम्-यत्प्रचुरकामो भवति, 'विषयान् भोक्तुं शक्नोति' इत्यर्थः / ईशित्वम्-यत् त्रैलोक्यस्य प्रभुर्भवति / वशित्वम्यद् भूतानि स्थावरजङ्गमानि वशं नयति, वश्येन्द्रियश्च भवति / यत्रकामावसोयिता-यद् ब्राह्मप्राजापत्य-दैव-गान्धर्व-यक्ष-राक्षसँ-पित्र्य-पैशाचेहूं मानुष्येषु तैर्यग्योनिषु च स्थानान्तरेषु च यत्र यत्र कामयते तत्र तत्र आवसतीति / एतेषाञ्च ज्ञानेश्वर्यादीनां प्रकृष्ट-प्रकृष्टतमद्वारेण तारतम्यदर्शनात् यत्र विश्रान्तः प्रकर्षः स ईश्वर इति संभावनाऽनुमानेन असो व्यवस्थाप्यते / तथाहि-यस्तारतम्यप्रकर्षः स क्वचिद् विश्राम्यति यथा परिमाणप्रकर्षो व्योम्नि, तारतम्यप्रकर्षश्च ज्ञानेश्वर्यादिधर्माणामिति / तस्य चेत्थं प्रसिद्धस्वरूपस्येश्वरस्य निःशेषसंसार्यनुग्रहार्थमेव प्रवृत्तिः, स हि कल्पप्रलयमहाप्रलयेषु 'समग्र जगदुद्धरिष्यामि' इति प्रतिज्ञावान् अवतिष्ठते / स च ध्यायिभिश्चिन्त्यमानो वाच- 10 केन प्रर्णवादिना जप्यमानः तेभ्योऽभिमतं फलं प्रयच्छति / कालेनोऽनवच्छेदाच्चासौ पूर्वेषामपि कपिलमहर्षिप्रभृतीनो गुरुः, ते हि कल्पमहाकल्पादिना कालेन अवच्छिद्यन्ते, नतु ईश्वर इति / ____ अत्र प्रतिविधीयते / यत्तावदुक्तम्-क्लेशेत्यादि; तदविचारितरमणीयम् यतः क्लेशादिभिर परामृष्ठत्वमात्रं तस्य स्वरूपम् , तस्मिन् सति अशेषज्ञत्वं वा ? प्रथमतत्प्रतिविधानम्- पक्षे मुक्त एवासौ स्यात् तैरपरामृष्टत्वात् तदन्यमुक्तवत् न पुनरीश्वरः, 15 - तदन्यमुक्तात्मनामपि 'तत्त्वप्रसङ्गात् / सर्वदा बन्धेनाऽस्पृष्टत्वाऽभावान्न तेषां तत्प्रसङ्गः; इत्यपि श्रद्धामात्रम् ; ईश्वरस्यापि सर्वदा बन्धेनाऽस्पृष्टत्वाऽसंभवात् , तदसंभ• . 1 “यत्रकामावसायित्वं सत्यसङ्कल्पता इति / विजितगुणार्थवत्त्वो हि योगी यद् यदर्थतया सङ्कल्पयति तत् तस्मै प्रयोजनाय कल्प्यते। विषमपि अमृतकार्य सङ्कल्प्य भोजयन् जीवयति / " योगसू० तत्त्ववै. 3 / 45 / 2 " अष्टविकल्पो देवः तैर्यग्योनश्च पञ्चधा भवति / मानुष्यश्चैकविधः समासतो भौतिकः सर्गः // 53 // " तद्यथा-ब्राह्मं प्राजापत्यम् ऐन्द्र पैत्रं गान्धर्व या राक्षसं पैशाचमित्यष्टविधो दैवसर्गः / तैर्यग्योनश्च पञ्चधा भवति अत्र तुल्यलिङ्गत्वाद्भवति-पशु-पक्षि-मृग-सरीसृपस्थावरान्तश्च इति / मानुष्य एकविधस्तुल्यलिङ्गत्वात् ब्राह्मणादिचाण्डालान्तः / " सां० मा. वृ० पृ. 70 / ३-स पै-ब०, ज०, भा० / ४-चेषु तै-ब०, ज०, भां० / 5 " तत्र निरतिशयं सर्वज्ञबीजम् / " योगसू० 1 / 25 / “अस्तिकाष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात् परिमाणवदिति / यत्र काष्ठाप्राप्तिः ज्ञानस्य स सर्वज्ञः।" व्यासभा० / 6 “तस्य आत्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम् / ज्ञानधर्मोपदेशेन, कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्धरिष्यामि इति / तथा चोक्तम्-आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद् भगवान् परमर्षिः आसुरये जिज्ञासमानाय धर्म प्रोवाच इति / " योगसू० व्यासभा० 1 / 25 / 7 समस्तम् ब०, ज० / 8 " तस्य वाचकः प्रणवः / " "तज्जपस्तदर्थभावनम् / " योगसू० 1 / 27,28 / 9 " पूर्वेषामपि गुरुः कालेनानवच्छेदात् / " योगसू० 1 / 26 / “पूर्वे हि गुरुवः कालेनावच्छेद्यन्ते, यत्र अवच्छेदार्थेन कालो नोपावर्त्तते स एष पूर्वेषामपि गुरुः / " व्यासभा० / 10 पृ० 10950 8 / 11 “यतः क्लेशादिभिरपरामृष्टत्वमात्रं तस्य स्वरूपं तस्मिन् सति अशेषज्ञत्वं वा ?" स्या०२त्ना० पृ. 454 / 12 ईश्वरत्व /