________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० दक्षिणालक्षणबन्धत्रयसद्भावात्। प्राकृतो हि बन्धः आत्माऽनात्मविवेकाऽभावस्वभावः, विषयाऽऽसङ्गस्वरूपस्तु वैकारिकः, भोगाधिरूढ़धर्माधर्मलक्षणश्च दक्षिणाबन्धः। अनेन च बन्धन. येण आमूलादीश्वर एवाऽस्पृष्टः, मुक्तात्मानस्तु एतानि त्रीण्यपि बन्धनानि विवेकज्ञानेन मा. ध्यस्थ्येन कर्मफलोपभोगेन च निर्मूल्यैव कैवल्यं प्राप्ताः / अयं तु भगवान् ईश्वरः सदैव मुक्तः 5 सदैवेश्वरः न तस्य पूर्वा कोटिरस्ति यथा संसारिमुक्तात्मनाम् , नाप्यारा यथा प्रकृतिलीनतत्त्व ज्ञानानां योगिनाम् , ते हि मुक्ति प्राण्यापि पुनर्बन्धमाजो भवन्ति / ऐश्वर्यञ्चास्य निरतिशयोत्कृष्टसत्त्वाया बुद्धर्योगात् सिद्धम् , निरतिशयसत्त्वोत्कर्षश्चास्याः शासनत्राणलक्षणशास्त्रोपादानात् / नन्वेवमितरेतराश्रयः-सिद्धे हि निरतिशयसत्त्वोत्कर्षे तल्लक्षणशास्त्रोपादानसिद्धिः, तत्सिद्धौ च निरतिशयसत्त्वोत्कर्षसिद्धिरिति; तदसमीक्षिताभिधानम् ; ईश्वरे शास्त्र-निरतिशयसत्वोत्कर्षयोः 10 अनादिसम्बन्धसंभवात् / तैच्चैश्वर्यम् अष्टविधम्-अणिमा, लघिमा, महिमा, प्राप्तिः, प्राकाम्यम् , ईशित्वम् , वशित्वम् , यत्रकामावसायिता चेति / तत्र अणिमा-यदणुशरीरो भूत्वा सर्वभूतैर दृश्यः सर्वलोके सञ्चरति / लघिमा-यल्लघुत्वाद्वायुवद् विचरति / महिमा-यत्सर्वलोकपूजितो महद्भ-योऽपि 1 “स च बन्धस्त्रिविधः प्रकृतिबन्धो वैकारिकबन्धो दक्षिणाबन्धश्च / तत्र प्रकृतिबन्धो नाम अष्टासु (प्रकृतिबुद्ध्यहङ्कारतन्मात्रेषु ) प्रकृतिषु परत्वेनाभिमानः / वैकारिकबन्धो नाम ब्रह्मादिस्थानेषु श्रेयोबुद्धिः / दक्षिणाबन्धो नाम गवादिदानेज्यानिमित्तः / " सां० माठर वृ० पृ० 62 / तत्त्वयाथा० पृ०८१ / “प्रकृतिलयः प्रकृतिबन्धः इत्युच्यते, यज्ञादिभिः दक्षिणाबन्ध इत्युच्यते, ऐश्वर्यादिनिमित्तो भोगो वैकारिक इत्युच्यते / " सां० माठर वृ० पृ०६३ / योगसू० तत्त्ववैशा० 1 / 24 / सांख्यसं० पृ. 24 / 2 "अविद्यादयः क्लेशाः, कुशलाकुशलानि कर्माणि, तत्फलं विपाकः, तदनुगुणा वासना आशयः / ते च मनसि वर्तमाना पुरुषे व्यपदिश्यन्ते स हि तत्फलस्य भोक्तेति, यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते / यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः / कैवल्यं प्राप्तास्तहि सन्ति च बहवः केवलिनः, ते हि त्रीणि बन्धनानि छित्त्वा कैवल्यं प्राप्ताः / ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी / यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नैवमीश्वरस्य / यथा वा प्रकृतिलीनस्य उत्तरा बन्धकोटिः संभाव्यते नैवमीश्वरस्य / स तु सदैव मुक्तः सदैव ईश्वर इति / योऽसौ प्रकृष्टसत्त्वोपादानात् ईश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त अहोस्विन्निनिमित्त इति ? तस्य शास्त्रं निमित्तम् / शास्त्रं पुनः किन्निमित्तम् ? प्रकृष्ट सत्त्वनिमित्तम् / एतयोः शास्त्रोत्कर्षयोः ईश्वरसत्त्वे वर्तमानयोः अनादिः सम्बन्धः / " योगसू० व्यासभा० 1 / 24 / 3 "ऐश्वर्यम् ईश्वरभावेन इत्यष्टविधम्-अणिमा, लघिमा, गरिमा, महिमा, प्राप्तिः, प्राकाम्यम्, ईशित्वम्, वशित्वम् , यत्रकामावसायित्वमिति / " सां० माठरवृ० पृ. 41 / "तत्राणिमा भवत्यणुः, लघिमा लघुर्भवति, महिमा महान् भवति, प्राप्तिः अङ्गुल्यग्रेण स्पृशति चन्द्रम् , प्राकाम्यम् इच्छानभिघातो भूमावुन्मजति निमजति यथोदके, वशित्वं भूतभौतिकेषु वी भवति अवश्यञ्चान्येषाम् , ईशितृत्वम्-तेषाम्प्रभवाप्ययव्यूहानामीष्टे, यत्रकामावसायित्वम् सत्यसङ्कल्पता, यथा सङ्कल्पः तथा भूतप्रकृतीनामवस्थानम् / " योगसू० व्यासभा० 3 / 45 / "विक्रेयगोचरा ऋद्धिः अनेकविधा-अणिमा, महिमा, लघिमा, गरिमा, प्राप्तिः, प्राकाम्यम्, ईशित्वम् , वशित्वम् , अप्रतिघातः, अन्तर्धानम् , कामरूपित्वम् , इत्येवमादि / त० राजवा० पृ० 144 / ४-पूजिते म-ब०, ज० /