________________ 109 लघी 114] ईश्वरवादः विलोपश्च ; ईश्वरव्यापारात् पूर्व तनुकरणाद्यभावतः सकलात्मगुणानां बुद्धथादीनामप्यभावात्, नहि तनुकरणाद्यभावे बुद्धयादिविशेषगुणाऽभावे च आत्यन्तिकी शुद्धिमास्कन्दतामात्मनाम् अमुक्तत्वं युक्तमिति / संसारविधाने प्रवृत्तोऽसौ तदभावं विदधाति इति महती प्रेक्षापूर्वकारिता ? ततो' यौगोपकल्पितस्येश्वरस्य अखिलजगजनकत्वाऽसंभवात् नातः सर्वज्ञतासिद्धिः / एतेन साङ्क्षयपरिकल्पितस्यापीश्वरस्याऽशेषज्ञता प्रत्युक्ता, जगन्निमित्तकारणत्वेन अस्यां 5 प्रतिज्ञायमानायां प्रोक्ताशेषदोषानुषङ्गाऽविशेषात् / ननु साङ्ख्यैरीश्वरस्वरूपस्यान्यथा व्यावर्णनात् कथं यौगोपकल्पितेश्वरपक्षोक्तदोषानुषङ्गः ? तथाहि-"क्लेश-कर्म-विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः।" ईश्वरस्वरूपवादे . [ योगसू० 1 / 24 ] तत्र " अविद्याऽस्मितारागद्वेषाऽभिनिवेशाः सांख्यस्य पूर्वपक्षः क्लेशाः।” [ योगसू० 2 / 3 ] कर्माणि शुभाशुभानि, तद्विपाकाः 10 कर्मफलोपभोगरूपाः, आशयाः नानाविधतदनुगुणसंस्काराः, तैरपरामृष्टो यः पुरुषविशेषः स ईश्वर इति / न चैवं सर्वमुक्तात्मनामीश्वरत्वप्रसङ्गः तदपरामृष्टत्वाऽविशेषात् इत्यभिधातव्यम् ; तेषां सर्वदा बन्धेनाऽपरामृष्टत्वाऽसंभवात् / यो हि सर्वदा बन्धविनिर्मुक्तः क्लेशादिभिरपरामृष्टः स ईश्वरः। न च तदन्ये मुक्तात्मानस्तथाविधाः ; तेषां प्राकृत-वैकारिक 1 ईश्वरस्य जगत्कर्तृत्वसमर्थनपराः ग्रन्थाः -वैशेषिक सू० 2 / 1 / 18-19 / प्रशस्तपादभा० पृ. 48-49 / कन्दली पृ० 54 / व्योमवती पृ० 301 / प्रशस्त० किरणा० पृ० 97 / वैशे० उप० पृ० 62 / न्यायली० पृ०२० / मुक्ताव दिन० पृ. 23 / न्यायसू०, भाष्य, वा०, वा० ता० टी० 4 / 1 / 20 / न्यायमं० पृ० 194 / न्यायकुसु० पञ्चमस्तवक / तत्खण्डनपराश्चेत्थं द्रष्टव्याः-प्रमाणवा० 2110-28 / तत्त्वसं० ईश्वरप० पृ. 40 / मीमांसाश्लो० सम्बन्धाक्षेप० श्लो० 43 / प्रकरणपं० पृ० 134 / विधिवि. पृ० 210 / अष्टश०, अष्टसह. पृ. 268 / श्लोकवा० पृ० 360 / शास्त्रवा० श्लो० 194 / शास्त्रवा० टी० पृ० 194 / आप्तप० कारि० 8 / प्रमेयक० पृ० 73 उ० / सन्मति० टी० पृ. 93 / स्या. रत्ना० पृ. 406 / प्रमेयरत्नमा० पृ. 61 / 2 “अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या।" योगसू० 2 / 5 / "दृग्दर्शनशक्तयोरेकात्मतेवाऽस्मिता।" पुरुषो दृकशक्तिः बुद्धिः दर्शनशक्तिः इत्येतयोः एकस्वरूपापत्तिरेवाऽस्मिता क्लेश उच्यते / भोक्तुंभोग्यशक्तयोरत्यन्तविभक्तयोः अत्यन्तासङ्कीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्प्यते / " योगसू० व्यासभा० 2 / 6 / “सुखानुशयी रागः"। "दुःखानुशयी द्वेषः / " "स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः / " योगसू० 217, 8,9 / “पञ्चपर्वा भवत्यविद्या-अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशा इति, एत एव स्वसंज्ञाभिः तमो मोहः महामोहः तामिश्रः अन्धतामिश्र इति चित्तमलप्रसङ्गेन अभिधास्यन्ते / " योगद० व्यासभा. 1 / 8 / 3 "क्लेशमूलः काशयो दृष्टादृष्टजन्मवेदनीयः / " योगसू० 2 / 12 / 4 “सति मूले तद्विपाको जात्यायुर्भोगः / " योगसू० 2 / 13 / 5 “तदनुगुणा वासना आशयः / " योगसू० व्यासभा० 1 / 24 /