________________ 108 ____ लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० पकारः ? कर्मणामुपभोगेनैव प्रक्षयोपपत्तेः / अदृष्टापेक्षस्य च कर्तृत्वे किं तत्कल्पनया ? कल्पितोऽपि असावदृष्टाधीनश्चेत् , जगदेव तदधीनमस्तु किमनेनान्तर्गडुना ? अथ धर्मादिप्रयोजनमुद्दिश्यायं प्रवर्तते; तर्हि कथमसौ कृतकृत्यः स्यात् तस्य तत्प्रयोजनविरोधात् ? क्रीडा सद्भावे च कथं वीतरागता रथ्यापुरुषवत् ? परमपुरुषश्चेश्वरः ‘बाल-पहिलवत् क्रीडति' इति 5 महच्चित्रम् ! निग्रहानुग्रहप्रदत्वेऽपि कथं वीतरागद्वेषता ? तथाहि-रागवान् ईश्वरः, अनुग्रह प्रदत्वात् , राजवत् / तथा, द्वेषवानसौ निग्रहप्रदत्वात् तद्वत् / अथ स्वभावतोऽसौ प्रवर्तते यथा आदित्यः प्रकाशस्वभावत्वात् प्रकाशयति, तर्हि चैतन्यस्य सतोऽपि अकिञ्चित्करत्वात् जगतोऽचेतनस्यापि स्वभावतः प्रवृत्तिरस्तु, किमधिष्ठातृपरिकल्पनया ? तस्य अनादौ काले स्व भावेनैव स्थितत्वात् / कथमचेतनस्य देशादिनियमः निष्पन्नेऽपि वा कार्ये प्रवृत्तिर्नस्यात् ? 10 इत्यन्यत्रापि समानम् , नित्यादिस्वभावस्येश्वरस्यापि तदोषप्रतिपादनात् / बुद्धिमत्त्वञ्चास्य अनित्यया बुद्धया, नित्यया वा स्यात् ? न तावन्नित्यया, तन्नित्यत्वस्य प्रतीत्या अनुमानेन च बाधितत्वप्रतिपादनात् / अथ अनित्यया; कुतोऽसौ जायेत-इन्द्रियार्थसन्निकर्षात् , समाधिविशेषात् , तदुत्थधर्ममाहात्म्यात्, अनुध्यानमात्राद्वा ? तत्राद्यपक्षोऽयुक्तः, अशरीरस्यास्य अन्तःकरणस्य अन्यस्य चेन्द्रियस्यानुपपत्तेर्मुक्तात्मवत् , उपपत्तौ वा न सर्वज्ञता 15 तजनितज्ञानस्य नियतविषयत्वात् / किञ्च, अचेतनाश्चक्षुरादयः केनचिदधिष्ठितास्तज्ज्ञानं जन यन्ति, अनधिष्ठिता वा ? यद्यनधिष्ठिताः; तदा जगदपि अचेतनाः केनचिदनधिष्ठिताः जनयन्तु अलमधिष्ठातृकल्पनया / अथाधिष्ठिताः; किमधिष्ठात्रन्तरेण, तेनैव वा ? अधिष्ठात्रन्तरेण चेत् ; अनवस्था / तेनैव चेत्, चक्रकम्; तथाहि-ज्ञाताः सन्तस्ते प्रेर्यन्ते, प्रेरिताः ज्ञानं जनयन्ति, जनितज्ञानाः ज्ञाता भवन्तीति / समाधिविशेषः अनुध्यानञ्च ज्ञानविशेष एव, तस्य च अद्या२० प्यसिद्धेः कथं स्वस्मादेव स्वस्योत्पत्तिः ? समाधिविशेषाऽसंभवे च कथं तदुत्थो धर्मस्तत्र संभाव्येत, यतस्तन्माहात्म्याग्ज्ञानोत्पत्तिः स्यात् ? अशरीरस्य च समाधिविशेषादिकं मुक्तात्मवद् दुर्घटमेव / अतः कारणाऽसंभवाद् ईश्वरे ज्ञानसद्भावाऽनुपपत्तेः कथं तत्र बुद्धिमत्ता सिद्धयेत् ? अथ नित्याऽनित्यबुद्धिविशेषानपेक्षया बुद्धिसामान्येन तत्र तद्वत्ता प्रसाध्यते; तदप्यसारम् ; द्वितीयविशेषस्याऽसंभवात् , न खलु नित्यो बुद्धिविशेषः कदाचिदप्यनुभूयते , अनित्यस्यैवाऽस्य 25 सर्वदाऽनुभवात्। अतः सिद्धयत् तत्सामान्यमनित्यबुद्धिविशेषाधारमेव सिद्धयेत् , तद्विशेषस्य चेश्वरे कारणाऽसंभवतोऽसंभवात् कथं तदाधारमपि तत्सामान्यं सिद्धयेत् ? अस्तु वा यथाकथञ्चिद् बुद्धिमत्त्वमस्य, तथापि शास्त्राणां प्रमाणेतरव्यवस्थाविलोपः, सर्व शास्त्रं प्रमाणमेव स्यात् ईश्वरप्रणीतत्वात् तत्प्रणीतप्रसिद्धशास्त्रवत् / प्रतिवाद्यादिव्यवस्थाविलोपश्व ; सर्वेषामीश्वरादेशविधायित्वात् , आदेशविधायिनाञ्च प्रतिलोमाचरणविरोधात् / संसार 1 “क्रीडार्थायां प्रवृत्तौ च विहन्येत कृतार्थता // 56 // " मीमांसाश्लो० पृ० 653 / तत्त्वसं. पृ० 77 / 2 तत्राद्यः प-ब०, ज०, भां० /