________________ लघी० 114] ईश्वरवादः 107 ___ किञ्च, अस्य सिसृक्षासञ्जिहीर्षे किं युगपद् भवतः, क्रमेण वा ? युगपद्भावे सृष्टि-संहारयोः यौगपद्यप्रसङ्गः / क्रमेण उत्पत्तौ कारणं वाच्यम्, कारणापेक्षायाञ्च नित्यत्वक्षतिः / अथ नित्यमपि इच्छाप्रयत्नादिकं विचित्रेसहकारिसन्निधानात् कार्यवैचित्र्यं विदधाति, ननु ते सहकारिणोऽतदायत्ताः, तदायत्ता वा ? अतदायत्तत्वे तैरेव कार्यत्वादेव्यभिचारः / तदायत्तत्वे तदैव ते कुतो न भवन्ति ? तद्धेतूनामभावादिति चेत्; तेऽपि 'तदायत्ता न वा' इत्यादि- 5 दूषणं तदवस्थम् इत्यनवस्था / किञ्च, एते सहकारिणः तस्योपकारकाः, न वा ? यद्यनुपकारकाः; कथं सहकारिणः अतिप्रसङ्गात् ? उपकारकत्वे अस्य परिणामित्वम् तत्कृतोपकारस्य अतोऽनन्तरत्वात् , अर्थान्तरत्वे 'तस्य' इति व्यपदेशो न स्यात्, तेनाप्युपकारान्तरकरणे अनवस्था। . किञ्च, ईश्वरस्य जगन्निर्माणे यथारुचि प्रवृत्तिः, कर्मपारतन्त्र्येण, करुणया, धर्मादिप्रयो- 10 जनोद्देशेन, क्रीडया, निग्रहानुग्रहविधानार्थम् , स्वभावतो वा ? यथारुचि प्रवृत्तौ कदाचिदन्यादृश्यपि सृष्टिः स्यात् / कर्मपारतन्त्र्ये च अस्य स्वातन्त्र्यहानिः, एतदेव हि स्वातन्त्र्यम् ईश्वरत्वं वा यदनन्यमुखप्रेक्षित्वम् / अथ करुणया; तर्हि कारुणिकत्वाद् युगपत् सर्वानपि अभ्युदयेन युद्ध्यात्, ततो न कश्चिद् दुःखितः स्यात् / अथ 'एषामभ्युदयः स्यात्' इत्यनयैवेच्छया तानि तानि कर्माणि अनुभावयति, सोऽयं प्रक्षालिताऽशुचिमोदकत्यागन्यायः / कारुणिकस्य 15 हि एतदेव कारुणिकत्वम्-यत् 'अन्येषां दुःखलेशोऽपि माभूत्' इत्यनुसन्धानम् / अथ ईश्वरः किं करोति, पूर्वार्जितैः कर्मभिरेव ते तथा वशीकृता येन दुःखमनुभवन्ति; तर्हि तस्य कः पुरु 1 “स्यादेतत् नेश्वर एव केवलं कारणमपि तु धर्माधर्मादिसहकारिकारणान्तरमपेक्ष्य करोति तदेतदसम्यक् ; यदि हि सहकारिभिः कश्चिदुपकारिभिः (1) कश्चिदुपकारः कर्त्तव्यो भवेत् , तदा तस्य सहकारिणि व्यपेक्षा / यावता नित्यत्वात् परैरनाधेयातिशयस्य न किञ्चित्तस्य सहकारिभिः प्राप्तव्यमस्तीति किमिति तांस्तथाभूताननुपकारिणः सहकारिणोऽपेक्षेत ? किञ्च, येऽपि ते सहकारिणः तेऽपि सर्व एवेश्वरस्यायत्तजन्मतया नित्यं समवहता एव"....''तत्त्वसं० पं० पृ० 54 / 2 “ननु तेऽपि तज्ज्ञानाद्यायत्तजन्मानः किन्न सर्वदा सन्निधीयन्ते ? अथ नैव ते तदायत्तोत्पत्तयः तर्हि तैरेव कार्यत्वादिहेतुरनैकान्तिकः / " सन्मति० टी० पृ. 122 / प्रमेयक० पृ. 79 उ० / 3 “अथायमीश्वरः कुर्वाणः किमर्थ करोति ? लोके हि ये कतारो भवन्ति ते किञ्चिदुद्दिश्य प्रवर्त्तन्ते इदमाप्स्यामि इदं हास्यामि चेति, न पुनरीश्वरस्य हेयमस्ति दुःखाभावात् , नोपादेयं वशित्वात् / क्रीडार्थमित्येके / एके तावद् ब्रुवते क्रीडार्थमीश्वरः सृजति इति नन्वेतदयुक्तम् ; क्रीडा हि नाम रत्यर्थ' भवति न च रत्यर्थी भगवान् विभूतेख्यापनार्थम् इत्यपरेएतदपि तादृगेव"किमर्थ तर्हि करोति ? तत्स्वाभाव्यात् प्रवर्तते इत्यदुष्टम् ।"न्यायवा० पृ. 463 / न्यायवा० ता० टी० 4 / 1 / 21 / न्यायमं० पृ० 202 / 4 " तथा चापेक्षमागस्य स्वातन्त्र्यं प्रतिहन्यते // 54 // " मीमांसाश्लो० पृ. 653 / तत्त्वसं. पृ० 76 / 5 “अभावाच्चानुकम्प्यानां नानुकम्पाऽस्य जायते / सृजेच्च शुभमेवैकमनुकम्पाप्रयोजितः // 52 // " मीमांसाश्लो० पृ. 652 / तत्त्वसं० पृ० 76 / प्रमेयत्र.. पृ० 19 उ० / सन्मति० टी० पृ० 130 / स्या० रत्ना० पृ० 447 / 6 एतेषाम् भां० /