________________ 106 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० अस्तु वाऽदृश्योऽसौ, तथापि सत्तामात्रेण, ज्ञानवत्त्वेन, ज्ञानेच्छाप्रयत्नवत्त्वेन, तत्पूर्वकव्यापारेण, ऐश्वर्येण वा क्षित्यादेः कारणं स्यात् ? प्रथमपक्षे कुम्भकारादेरपि तत्कारणत्वप्रसङ्गः सत्तामात्रस्य तत्राप्यविशेषात् / द्वितीयपक्षे तु योगिनामपि तत्कर्तृत्वानुषङ्गः / अथ योगिनां तथा भूतमशेषार्थविषयं विज्ञानं नास्ति तेनाऽयमदोषः; अस्य कुतः तत् सिद्धम् ? सर्वकर्तृत्वाच्चेत , 5 अन्योन्याश्रयः-सर्वज्ञत्वसिद्धौ हि सर्वकर्तृत्वसिद्धिः, तत्सिद्धौ च सर्वज्ञत्वसिद्धिरिति / तृतीयपक्षोप्यसाम्प्रतः; अशरीरस्य ज्ञानेच्छाप्रयत्नवत्त्वप्रतिषेधात् / व्यापारवत्त्वमपि अशरीरस्यासम्भाव्यम् ; व्यापारो हि कायकृतः, वाक्कृतो वा स्यात् ? उभयमपि अशरीरे न सम्भवत्येव / न च कस्यचिदपि एवंविधा प्रतीतिरस्ति यद् 'वचनतः कायेन वाऽहमीशेनात्र प्रेरितः' इति / व्यापारश्च क्रिया, सा चाऽस्य दुर्घटा। तथाहि-निर्व्यापारः ईश्वरः सर्वगतत्वात् आकाशवत, 10 सक्रियत्वे चास्य अतादवस्थ्यानुषङ्गादनित्यत्वं स्यात् , स्वावस्थातोऽविचलद्रूपस्यैवार्थस्य नित्यै करूपतोपपत्तेः / न च परमाणुभिर्व्यभिचारः; तेषामपि परिणामाऽनित्यत्वस्येष्टेः, ईश्वरस्यापि तद्वत्तदिष्टौ अपरबुद्धिमद्धेतुकत्वानुषङ्गाद् अनवस्था, अन्यथा तेनैव कार्यत्वादेव्यभिचारः। ___ प्रतिकार्यश्चास्य एकदेशेन, सर्वात्मना वा व्यापारः स्यात् ? एकदेशेन चेत् ; तर्हि यावन्ति कार्याणि तावद्भिरेव ईश्वराऽवयवैर्भाव्यम् इति निरंशेश्वरप्रतिज्ञा हीयते / सर्वात्मना व्यापारे 15 यावन्ति कार्याणि तावद्धा ईश्वरस्य भेदप्रसङ्गात् एकेश्वरप्रतिज्ञाक्षतिः / किञ्च, असौ येनैकेन स्वभावेन एकं कार्य करोति तेनैव तत्स्थित्यादिकं कार्यान्तरञ्च, स्वभावान्तरेण वा ? यदि तेनैव; स्थित्युत्पत्तिविपत्तीनां कार्यान्तराणाञ्च क्रमः वैचित्र्यञ्च न स्यात्। स्वभावभेदे वोऽनित्यत्वम् / - ऐश्वर्यमपि ज्ञातृत्वम् , कर्तृत्वम्, अन्यद्वा स्यात् ? ज्ञातृत्वञ्चेत् / तत्किं ज्ञातृत्वमात्रम् , सर्वज्ञातृत्वं वा ? तत्राद्यपक्षे ज्ञातैव असौ स्यान्नेश्वरः, न हि यो यज्जानाति स तत्र 'ईश्वरः' 20 इत्युच्यते अन्यज्ञातृवत् / द्वितीयपक्षेऽपि अस्य सर्वज्ञत्वमेव स्यात् नैश्वर्यम् सुगतादिवत् / अथ कर्तृत्वम् ; तर्हि कुम्भकारादीनां बहुप्रकारकार्यकर्तृणामैश्वर्यप्रसङ्गः / नाप्यन्यत् ; इच्छाप्रयत्नव्यतिरेकेण अन्यस्य ऐश्वर्यनिबन्धनस्य ईश्वरेऽभावात् / अथ तयोरेव तत्र तन्निबन्धनत्वमिष्यते, नन्वत्रापि ताभ्यां क्रोडीकृतं सर्वम्, किञ्चिद्वा ? सर्वस्य क्रोडीकारे युगपत्सर्वमुत्पद्येत् / किञ्चिच्चेत् ; तर्हि इच्छाप्रयत्नविषयस्य क्रमिकत्वे कथमेकरूपत्वं तयोः स्यात् ? किञ्च, इष्यमाणार्था२५ वच्छेदेन इच्छोत्पद्यते, न चोत्तरकालभाव्यात्ममनःसंयोगजज्ञानविषयाकारं विना तत्र नियतविषयमात्मानम यसौ स्वीकत्तुं समर्थः / १-तः सिद्धम् आ० / 2 " यदि प्राधान्येन समस्तकारकप्रयोक्तृत्वादीश्वरस्य सर्वज्ञत्वं साध्यते, सर्वज्ञत्वाच्च प्रयोक्त्रन्तरनिरपेक्षं समस्तकारकप्रयोक्तृत्वं प्रधानभावेन, तदा परस्पराश्रयो दोषः कुतो निवार्येत ?' तत्त्वार्थश्लो० पृ० 368 / प्रमेयक पृ० 78 पू० / सन्मति० टी० पृ० 128 / 3 हीयेत ब०, ज०, भां० / 4 "सकलकार्याणामुत्पत्तिविनाशयोः स्थितौ च महेश्वराभिसन्धेरेकत्वे सकृदुत्पत्त्यादिप्रसङ्गात् विचित्रत्वानुपपत्तेरिति / " अष्टश०, अष्टसह० पृ० 279 / 5 चाऽ-ब०, ज० / ६-विषयीकारम् आ० /