________________ लघो० // 4] ईश्वरवादः 105 कालात्ययापदिष्टश्चायम् ; अकृष्टप्रभवाङ्कुरादौ कर्बभावस्य अध्यक्षेणैवाध्यवसायात् अग्नेरनुष्णत्वे साध्ये द्रव्यत्ववत् / ननु यद् दृश्यं सत प्रत्यक्षेण नोपलभ्यते तस्य अतोऽभावः नान्यस्य; अन्यथा आकाशादेरप्यभावः स्यात्, न चायं दृश्यः तत्कथमतोऽस्य अभावः स्यात् ; इत्यप्यसुन्दरम्; यतोऽस्य सिद्धे कुतश्चित्प्रमाणात्सद्भावे अदृश्यत्वेनाऽनुपलम्भः स्यात, तत्सद्भावश्च अस्मादेव, अन्यतो वा प्रमाणात् सिद्धयेत् ? प्रथमपक्षे चक्रकम्-अतो हि तत्सद्भावे सिद्धे अस्याऽ- 5 दृश्यत्वेनानुपलम्भः सिद्धयेत् , तत्सिद्धौ च कालात्ययापदिष्टत्वाभावः, ततश्चास्मात् तत्सद्भावसिद्धिरिति / द्वितीयोऽपि पक्षोऽनुपपन्नः; तत्सद्भावावेदकस्य प्रमाणान्तरस्यैवाऽभावात् / अस्तु वा तत्सद्भावः, तथापि अस्याऽदृश्यत्वे शरीरीभावः कारणम् , विद्यादिप्रभावः, जातिविशेषो वा ? न तावत् शरीराभावः; अशरीरस्य कार्यकर्तृत्वानुपपत्तेः / तथाहि-नेश्वरः क्षित्यादेः कर्ता अशरीरत्वात् , मुक्तात्मवत् / ननु शरीरं कर्तृत्वसामग्र्यां न प्रविशति तदभावेऽपि ज्ञाने- 10 च्छाप्रयत्नाश्रयत्वमात्रेण स्वशरीरप्रेरणे कर्तृत्वोपलम्भात् ; तदसत्, शरीरसम्बन्धेनैव तत्प्रेरणोपलम्भात्, तत्सम्बन्धो हि आत्मनः सशरीरत्वम् , तस्मिन्सत्येव स्वशरीरेऽन्यत्र वा कार्यकर्तृत्वमुपपद्यते / शरीराभावे मुक्तात्मवज्ञानाद्याश्रयत्वमप्यसंभाव्यम् ; तदुत्पत्तावस्य निमित्तकारणत्वात् , तत्कारणाभावेऽपि तदुत्पत्तौ मुक्तात्मनोऽपि तदुत्पत्तिप्रसङ्गः, बुद्धिमन्निमित्ताऽभावेऽपि वा क्षित्याद्युत्पत्तिप्रसङ्गः स्यात् / नित्यत्वात्तेषामदोषोऽयम; इत्यप्यसुन्दरम् ; ज्ञानादीनां 15 नित्यत्वेन क्वचिदप्यप्रतीतेः, 'ईश्वरज्ञानादयो न नित्याः ज्ञानादित्वात् अस्मदादिज्ञानादिवत्' इत्यनुमानविरोधाच्च / तेषां दृष्टस्वभावातिक्रमे वा भूरुहादीनामपि स स्यादविशेषात् / ततो ज्ञानादीनां शरीरसम्पाद्यत्वमेवाऽभ्युपगन्तव्यम्, तत्कथमकिञ्चित्करं शरीरम् , यतः सहचरमात्रेण कारणत्वे वह्निपैङ्गिल्यस्यापि धूमं प्रति कारणता प्रसज्येत ? न हि पैङ्गिल्यमात्रं धूमकारणम् हरितालादौ तत्सद्भावेपि धूमानुत्पत्तेः / वह्निविशेषितस्य तद्धेतुत्वे तु न किञ्चिद्विरुद्धम्, 20 यथैव हि इन्धनसम्बद्धो वह्निर्धूमोत्पादकः नान्यः, तथा वह्निविशेषितं पैङ्गिल्यं तन्निबन्धनं नान्यत् / विद्यादिप्रभावस्य च अदृश्यत्वहेतुत्वे कदाचिदसौ दृश्येत् / न खलु विद्याभृतां तन्त्रादिमताञ्च शाश्वतिकमदृश्यत्वं दृष्टम् / इतरविद्याभृद्भ्योऽस्य वैलक्षण्याद् दृष्टस्वभावातिक्रमेष्टौ जगतोऽपि इतरकार्यवैलक्षण्यात् तदतिक्रमेष्टिः किन्न स्यात् ? पिशाचादिवत् जातिविशेषोऽस्याऽदृश्यत्वे हेतुः; इत्यप्यसुन्दरम् ; एकस्य जातिविशेषाऽसंभवात् अनेकव्यक्तिनिष्ठत्वात्तस्य। 25 १-दृष्टत्वे आ० / “ननु कुतोऽयं शरीरधानपि अदृश्यः विद्यादिप्रभावात, जातिविशेषाद्वा ?" स्या० रत्ना० पृ० 433 / 2 शरीरावयवः-ब०, ज० / ३-त्वानुपलब्धः आ० / 4 " तस्यापि वितनुकरणस्य तत्कृतेरसंभवात् / " अष्टश०, अष्टसह० पृ. 271 / " तत्सम्बन्धरहितस्य मुक्तात्मन इव जगत्कर्तृत्वानुपपत्तेः।" सन्मति० टी० पृ० 119 / “अशरीरो ह्यधिष्ठाता नात्मा मुक्तात्मवद्भवेत् // 78 // " मीमांसाश्लो. पृ० 660 / 5 "बोधो न वेधसो नित्यो बोधत्वादन्यबोधवत् / इति हेतोरसिद्धत्वान्न वेधाः कारणं भुवः॥ 12 // " तत्त्वार्थश्लो० पृ. 360 / 14