________________ 104 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० दोनां शक्तिपरिज्ञानाऽभावेऽपि प्रयोक्तृत्वोपलम्भात् / अस्तु वा तदविनाभावः; तथापि न समस्तकारकशक्तिपरिज्ञानं सिद्धयति, सूत्रधारादीनां धर्माद्यपरिज्ञानेऽपि प्रासादादौ कारकप्रयोक्तृत्वोपलम्भात / यथा च प्रारब्धकार्याऽनिष्पत्तेः सूत्रधारादीनां धर्माद्यशेषकारकाऽपरिज्ञानं तथा ईश्वरस्यापि तदस्तु प्रारब्धाङ्करादिकार्याऽनिष्पत्तेस्तत्राप्यविशेषात् / तत्सरिज्ञानेऽपि 5 उपभोक्तुरदृष्टवशात्तथा तद्विधानं सूत्रधारादावप्यस्तु, प्रतीतिविरोधोऽप्युभयत्राऽविशिष्टः / भवतु चास्यैव तत्परिज्ञानम् ; तथापि एकस्याखिलकारकाधिष्टातृत्वानुपपत्तिः, अनेकस्याऽपि अनेव.कारकाधिष्ठातृत्वोपपत्तेः / न हि 'निखिलं कार्यमेकेनैव कर्त्तव्यम्' 'एकनियमितैरनेवैर्वा' इति नियमोऽस्ति, अनेकधा कार्यकर्तृत्वोपलम्भात-एकेन हि कचिदेकं कार्य क्रियते यथा पटः कुविन्देन, क्वचित्त्वनेकं यथा घटघटीशरावादि कुम्भकारेण, अनेकञ्चानेकेन यथा घट-पट-मकुट१० शकटादि कुलालादिना, क्वचिदनेकेनाप्येकं यथा उद्देहिकाभिवल्मीकम् , न खलु तासां कश्चिदे कोऽधिष्ठाताऽस्ति / न च प्रासादादिकार्ये अनेकस्थपत्यादीनामेकसूत्रधाराधिष्ठितानामेव प्रवृत्तिः; प्रतिनियताभिप्रायाणामेकसूत्रधाराऽनधिष्ठितानामपि प्रवृत्त्यविरोधात् / एकसूत्रधाराधिष्ठितानेकस्थपत्यादीनां प्रवृत्त्युपलम्भाच्च जगतो महेश्वरैकाऽधिष्ठातृकल्पने अनेकोदेहिकानामेकेनाऽनधि ष्ठितानां प्रवृत्त्युपलम्भात् तस्य तेनाऽनधिष्ठितस्यापि प्रवृत्तिः किन्न स्यात् उभयप्रतीत्योः 15 प्रामाण्याऽविशेषात् ? ___ अकृष्टप्रभवैस्तरुतृणादिभिर्व्यभिचारी चायं हेतुः; द्विविधानि हि कार्याण्युपलभ्यन्ते, कानिचिद् बुद्धिमत्पूर्वकाणि यथा घटादीनि, कानिचित्तु तद्विपरीतानि यथा अकृष्टप्रभववृक्षादोनि, इत्युभयप्रतीत्योः प्रामाण्येन उभयोः सिद्धिसंभवात् / तेषां पक्षीकरणादव्यभिचारे 'स श्यामः तत्पुत्रत्वादितरपुत्रवत्' इत्यादेरपि गमकत्वप्रसङ्गान्न कश्चिद्धेतुर्यभिचारी स्यात् , 20 व्यभिचारविषयस्य सर्वत्रापि पक्षीकर्तुं शक्यत्वात्। ईश्वरबुद्धयादिभिश्च व्यभिचारः; तेषां कार्यत्वे सत्यपि समवायिकारणादीश्वराद् विभिन्नबुद्धिमत्कर्तृपूर्वकत्वाऽभावात् / दृष्टान्ते हि घटादौ बुद्धिमत्कर्तृपूर्वकत्ववत् समवायिकारणाद्वयतिरिक्तबुद्धिमत्कर्तृपूर्वकत्वेनापि व्याप्तिः कार्यत्वस्य प्रतिपन्ना। व्यतिरिक्तबुद्धिमत्कर्तृसद्भावाभ्युपगमे चाऽनवस्था। न चैकस्यैव समवायि निमित्तकारणत्वं युक्तं घटादौ तथानुपलम्भात् , तत्रानुपलब्धस्यापि कल्पने क्षित्यादेरबुद्धिमद्धेतु२५ कत्वं किन्न कल्प्येत अविशेषादिति ? 1 "तथापि कर्त्तनैकत्वं व्यभिचारोपदर्शनात् // 92 // एककर्तुरसिद्धौ च सर्वज्ञत्वं किमाश्रयम् ?" तत्त्वसं० पं० पृ० 57 / “नैवं प्रयोक्तुरेकस्य कारकाणामसिद्धितः / नानाप्रयोक्तृकत्वस्य क्वचिदृष्टेरसंशयम् // 63 // ' तत्त्वार्थश्लो०पृ० 367 / " न ह्ययं नियमः निखिलं कार्यमेकेनैव कर्त्तव्यं नापि एकनियतैर्बहुभिः इति, अनेकधा कार्यकर्तृत्वोपलम्भात् // " प्रमेयक० पृ० 79 पू० / सन्मति० टी० पृ० 131 / 2" स्थावरादिभिरप्यस्य व्यभिचारोऽनुवर्ण्यते / कैश्चित् पक्षीकृतस्तेषामधीमद्धतुतास्थितैः // 38 // " तत्त्वार्थश्लो० पृ. 362 / 3 पश्यामः ब०, ज०।४ वा-भां० /