________________ लघो०११४] ईश्वरवादः 103 नानुमानेनास्याः समूलत्वसिद्धौ सिद्धविशेषणाद्धेतोरस्यानुमानस्योत्थानसिद्धिः, तत्सिद्धौ चास्याः समूलत्वसिद्धिरिति / नाप्यागमः ; तत्रापि इतरेतराश्रयत्वानुषङ्गात्-प्रमाणभूतागममूलत्वसिद्धौ हि अस्याः सातिशयपुरुषसिद्धिः, तसिद्धौ च तत्कृतत्वेन प्रमाणभूतागममूलत्वसिद्धिरिति / ततः क्षित्यादेः कृत्रिमत्वप्रतीतिः लोकप्रवादपरम्परायाता न प्रमाणबलप्रभवा। - ननु कृतकेन 'कृतबुद्धयुत्पादकेनैव भाव्यम्' इति नास्त्ययं नियमः, खात-प्रेतिपूरितायां 5 भूमौ कृत्रिममणिमुक्ताफलादौ च अक्रियादर्शिनः कृतबुद्धरुत्पादाऽभावात ; इत्यप्यसमीक्षिताभिधानम् ; तत्र अकृत्रिमभूभागादिसंस्थानसारूप्यस्य कृतबुद्धेरनुत्पादकस्य सद्भावतः तदनुत्पादस्योपपत्तेः / न च क्षित्यादावपि अकृत्रिमसंस्थानसारूप्यं संभवति, अकृत्रिमसंस्थानस्यैव भवताऽनभ्युपगमात् , अभ्युपगमे वा अपसिद्धान्तप्रसङ्गः स्यात् / ततोऽक्रियादर्शिनोऽपि कृतबुद्धथुत्पादकः क्षित्याद्यसंभवी जीर्णकूपादौ दृष्टकर्तृककूपादिसजातीयत्वलक्षणो विशेषो भव- 10 ताऽभ्युपगन्तव्यः, इति कथन्न असिद्धो हेतुः ? सिद्धयतु वा; तथाप्यसौ विरुद्धः, घटादिवत् शरीरादिविशिष्टस्यैव बुद्धिमतोऽत्र प्रसाधनात्। न चैवं सकलानुमानोच्छेदः सर्वत्रैवं विरुद्धत्वोपपत्तेरित्यभिधातव्यम् ; धूमाद्यनुमाने महानसेतरसाधारणस्य अग्न्यादेः प्रतिपत्तिसंभवात् / अत्राप्येवं बुद्धिमत्सामान्यप्रसिद्धर्न विरुद्धत्वमित्यप्ययुक्तम् ; दृश्यविशेषाधारस्यैव तत्सामान्यस्य अतः प्रसिद्धः नादृश्यविशेषाधारस्य, तस्य 15 स्वप्नेऽप्यप्रतीतेः खरविषाणाधारतत्सामान्यवत् / हेतुव्यापकत्वेनाप्रतिपन्नस्य गम्यत्वे च अभासुररूपोष्णस्पर्शवतोऽप्यनेः धूमात् प्रतीतिः स्यात्। ततः कार्यकारणभावविवेकं कुर्वता यादृशाकारणात यादृशं कार्यमुपलब्धं तादृशादेव तादृशमनुमातव्यम् , यथा यावद्धर्मात्मकाद्वह्नः यावद्धर्मात्मकस्य धूमस्योत्पत्तिः सुदृढ़प्रमाणात्प्रतिपन्ना तादृशादेव धूमात् तादृशस्यैवाग्नेरनुमानम् / न च प्रासादादिकार्यवत् क्षित्यादिकार्येऽपि अतिशयतारतम्यप्रतीतेः तस्कर्तुरतिशय- 20 वत्त्वसिद्धिः; तद्वदस्मादृशस्यैव कर्तुरतिशयवतः सिद्धिप्रसङ्गात्। क्षित्यादिनिर्माणे तस्यासाम •दन्यादृशोऽसौ सिद्धथति; इत्यप्ययुक्तम् ; तत्र कर्बभावस्यैव एवं प्रसङ्गात् , अन्यादृशस्य कर्तुः हेतुव्यापकत्वेन कदाचिदप्यप्रतीतेः। अव्यापकस्य च गम्यत्वे 'व्यापकमगम्यम् , अव्यापकं तु गम्यम्' इति महन्न्यायकौशलम् ! ___ अथ परिशेषात् हेतुव्यापकत्वेन अखिलकारकपरिज्ञानाद्यतिशयवान् कर्तृविशेषः प्रसाध्यते, 25 न ह्यनवगतकारकसामर्थ्यः कार्यस्य कर्ता सर्वस्य सर्वकर्तृत्वप्रसङ्गात्। न चास्मदादेः क्षित्याद्यशेषकारकसामर्थ्यावगमोऽस्ति परमाण्वादेरतीन्द्रियत्वात् , ततोऽशेषकारकप्रयोक्तृत्वलक्षणं कर्तृत्वं तस्य सिद्धयत् तच्छक्तिपरिज्ञानाद्यतिशयपूर्वकमेव सिद्धचति; इत्यप्यविचारितरमणीयम् ; प्रयोक्तृत्वस्य शक्तिपरिज्ञानाऽविनाभावाऽसिद्धेः सुप्तमत्तप्रमत्ताद्यवस्थायां वागादिहेतूनां ताल्वा १-परिपू-भां०। 2 कृत्रिमत्वाभूभागादिसंस्थानरूपस्य भा०। 3 तत्र आ० / 4 प्रतिपत्तिःभा०। ५महन्माया- आ०।६-त्वमस्य सिद्धम् ब०,ज०। कतमप्यसि-भां० / 7 सुप्तप्रमत्तावस्थायां आ०।