________________ 102 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० तद्विशेषो वा ? यदि कार्यमात्रम्; कथं बुद्धिमतः कारणविशेषस्य अतोऽनुमानम् ? कारणमात्रेणैवास्याऽविनाभावप्रसिद्धः तन्मात्रस्यैवातोऽनुमानं स्यात् , तत्र चाऽविप्रतिपत्तिः / हेतोरकिञ्चित्करत्वं विरुद्धत्वं वा; बुद्धिमत्कर्तृपूर्वकत्वे साध्ये कारणमात्रस्यैव प्रसाधनात् / ननु यथा ताण-पार्णादिविशेषान् परिहृत्य अग्निमात्रस्य धूममात्रादनुमानम् , एवं कार्य५ मात्राद् बुद्धिमत्कारणमात्रस्यानुमानात् कथं विरुद्धत्वमत्र ? इत्यप्यसमीचीनम् ; अनुमानस्य प्रतिबन्धावष्टम्भादेव प्रवृत्तेः , प्रतिबन्धश्च कार्यमात्रस्य कारणमात्रेणैव प्रतिपन्नः धूममात्रस्याग्निमात्रेणेव, न तु बुद्धिमता / न च धूममात्रमपि अग्निमात्रस्य गमकम् ; अपनीतपावकापवरकधूमेनाऽनेकान्तात् , अपि तु उच्छलद्बहलपताकाकारविशिष्टम् , तद्वत् कार्यत्वमपि कृतबुद्ध-युत्पादकं बुद्धिमतो गमकम् , न सर्वम् / सारूप्यमात्रेण गमकत्वे च वाष्पादेरपि अग्निं प्रति गमकत्व१० प्रसङ्गः, महेश्वरं प्रति आत्मत्वादेः संसारित्वकिञ्चिज्ज्ञत्वाऽखिलजगदकर्तृत्वानुमापकत्वानुषङ्गः, वस्तुत्वादेः परमाणुवत् जगदबुद्धिमत्पूर्वकत्वप्रयोजकत्वप्रसङ्गश्च स्यात् तुल्याक्षेपसमाधानत्वात् / ततो वाष्प-धूमसंस्थानयोः केनचिदंशेन साम्येऽपि यथा कश्चिद्विशेषोऽभ्युपगम्यते, यत्सद्भावान् धूमोऽग्निं गमयति न वाष्पादिः, तथा क्षित्यादीतरकार्यत्वसंस्थानयोरपि / अथ कार्यत्वविशेषो हेतुः, यो बुद्धिमत्कन्वयव्यतिरेकानुविधायित्वेन निश्चित: ; सोऽ१५ सिद्धः; तादृग्भूतस्यास्य क्षित्यादावभावात् / भावे वा जीर्णकूपप्रासादादिवद् अक्रियादर्शिनोऽपि कृतबुद्धयुत्पादप्रसङ्गः। समारोपान्नेति चेत् ; सोप्युभयत्र अविशेषतः किन्न स्यात् कर्तुरुभयत्रातीन्द्रियत्वाऽविशेषात् ? अथ प्रामाणिकस्य अस्त्येवात्र कृतबुद्धिः, ननु केन प्रमाणेन प्रमातुः प्रामाणिकत्वम्-अनेनानुमानेन, अनुमानान्तरेण, आगमेन, लोकप्रतीत्या वा ? तत्राद्यपक्षे अन्योन्याश्रयः ; तथाहि-सिद्धविशेषणाद्धतोरस्योत्थानम् , तदुत्थाने च हेतोर्विशेषणसिद्धिरिति / 20 अनुमानान्तरञ्च नास्त्येव, सत्त्वे वा तस्यापि सविशेषणादेव हेतोरुत्थानम् , तत्राप्यनुमानान्त राद्विशेषणसिद्धौ अनवस्था। प्रथमानुमानात्तत्सिद्धौ इतरेतराश्रयः / आगमोऽपि युक्त्यनुगृहोतः, अननुगृहीतो वा प्रमातुः प्रामाणिकत्वं प्रसाधयेत् ? न तावदननुगृहीतः ; अतिप्रसङ्गात् / नाप्यनुगृहीतः ; तदनुमाहिकाया युक्तेरेवाऽसंभवात् / उक्तयुक्तेश्च आवर्तने चक्रक प्रसङ्गः-अक्रियादर्शिनोऽपि कृतबुद्ध युत्पादकत्वलक्षणकार्यत्वानुमानस्य हि सिद्धौ तेनागमस्य 25 अनुग्रहसिद्धिः, तदनुगृहोताच्चागमात् प्रमातुः प्रामाणिकत्वसिद्धिः, तसिद्धौ च अक्रियाद शिनोऽपि कृतबुद्धयुत्पादकत्वलक्षणकार्यत्वानुमानसिद्धिरिति / नापि 'केनचित् स्रष्ट्रा जगत् सृष्टम्' इति लोकप्रतीत्या प्रामाणिकत्वसिद्धिः ; अस्या निर्मूलत्वात् 'न कदाचिदनीदृशं जगत्' इति प्रतीतिवत् , वेदे मीमांसकस्य अकृत्रिमत्वप्रतीतिवच्च / न ह्यस्या मूलमिदमनुमानम् ; लिङ्ग-लिङ्गिसम्बन्धप्रतिपत्तेः प्रागौवतः तदुत्थानस्यैवाऽसंभवात् / अन्योन्याश्रयश्च; अने१-त्करत्वं बुद्धि-३०,ज०।२“उपलम्भे वा तत्र ततो जीर्णदेवकुलादिष्विव अक्रियादर्शिने ऽपि कृतबुद्धिः स्यात्।" सन्मति० टी०पृ० 115 / 3 अनेन अनुमानान्तरेण ब०,ज०।४-शेष सि-भां०।५-भावात् तदु-भां० /