________________ ईश्वरवादः लघी० 1 / 4] 101 कार्ये प्रवृत्त्युपपत्तेः / तथाहि-धर्माधौं चेतनाधिष्ठितौ स्वकार्ये प्रवर्तेते, अचेतनत्वात्, वास्यादिवत् / न चास्मदाद्यात्मैव अधिष्ठापको युक्तः ; तस्य अदृष्टपरमाण्वादिविषयविज्ञानाऽभावात् / नाप्यचेतनस्य अकस्मात्प्रवृत्तिः, अन्यथा निष्पन्नेऽपि कार्ये तत्प्रवर्तेत विवेकशून्यत्वादिति / अत्र प्रतिविधीयते / यत्तावत्-क्षित्यादेर्बुद्धिमद्धेतुकत्वसिद्धये कार्यत्वं साधनमुक्तम् ; 'तत्कि . सावयवत्वम् , प्रागसतः स्वकारणसत्तासमवायः, 'कृतम्' इति प्रत्यय- 5 ईश्वरस्य जगत्कर्तृत्व - विषयत्वम् , विकारित्वं वा स्यात् ? यदि सावयवत्वम् ; तदिदमपि किनिराकरणम् - मवयवेषु वर्तमानत्वम् , अवयवैरारभ्यमाणत्वम् , प्रदेशवत्त्वम् , 'सावयवम्' इति बुद्धिविषयत्वं वा ? तत्राद्यपक्षे अवयवसामान्येनाऽनेकान्तः, तद्धि अकार्यमपि अवयवेषु वर्तत इति / द्वितीयपक्षे तु साध्याऽविशिष्टत्वम् ; यथैव हि क्षित्यादेः कार्यत्वं साध्यम् एवं परमाण्वाद्यवयवारभ्यत्वमपि / तृतीयपक्षेऽपि आकाशादिनाऽनेकान्तः, तस्य प्रदेशवत्त्वेऽपि 10 अकार्यत्वात् , प्रसाधयिष्यते चास्य प्रदेशवत्त्वं षट्पदार्थपरीक्षाप्रघट्टके / 'सावयवम् ' इति बुद्धिविषयत्वमपि अनेनैवानैकान्तिकम् / न च निरवयवत्वेऽप्यस्य सावयवघटाद्यर्थसंयोगाद् 'घटाकाशं पटाकाशम्' इति सावयवप्रतीतिगोचरत्वसंभवात् औपचारिकं तत्तत्र इत्यभिधातव्यम् ; निरवयवत्वेऽस्य व्यापित्वविरोधात् परमाणुवत्। तथा च व्यापित्वमप्यस्य औपचारिकमेव स्यात् / नापि प्रागसतः स्वकारणसत्तासम्बन्धः कार्यत्वम्। तत्सम्बन्धस्य समवायाख्यस्य नित्यत्वेन 15 कार्यलक्षणत्वाऽयोगात्, तल्लक्षणत्वे वा कार्यस्यापि क्षित्यादेस्तद्वन्नित्यत्वानुषङ्गात् कस्य बुद्धिमद्धेतुकत्वं साध्येत ? निराकरिष्यते चैतल्लक्षणं कार्यत्वं विस्तरतः षट्पदार्थपरीक्षायामिति / 'कृतम्' इति प्रत्ययविषयत्वमपि न तल्लक्षणम् ; खननोत्सेचनादिना ‘कृतमाकाशम्' इत्यकायेऽप्याकाशे तस्य गतत्वात् / विकारित्वस्य च कार्यत्वे महेश्वरस्यापि कार्यत्वप्रसङ्गः / सतो वस्तुनोऽन्यथाभांवित्वं हि विकारित्वम, तच्च ईश्वरेऽप्यस्तीति अस्याप्यपरबुद्धिमद्धेतुकत्वप्रसङ्गाद् अन- 20 वस्था स्यात् / अविकारित्वे चास्य कार्यकारित्वमतिदुर्घटम् / अतः कार्यस्वरूपस्य विचार्यमाणस्यानुपपत्तेः असिद्धो हेतुः / किञ्च, कादाचित्कं वस्तु लोके कार्यत्वेन प्रसिद्धम् , जगतस्तु महेश्वरवत् सदा सत्त्वात् कथं कार्यत्वम् ? तदन्तर्गतानां तरु-तृणादीनां कार्यत्वात् तस्यापि कार्यत्वे महेश्वरान्तर्गतानां बुद्धथादीनां परमाण्वाद्यन्तर्गतानां पाकजरूपादीनाञ्च कार्यत्वात् महेश्वरादेरपि कार्यत्वानुषङ्गः, तथा 25 च अस्याप्यपरबुद्धिमद्धेतुकत्वप्रसङ्गात् अनवस्था अपसिद्धान्तश्चानुषज्यते / अस्तु वा यथाकथञ्चिज्जगतः कार्यत्वम् ; तथापि किं कार्यमात्रमत्र हेतुत्वेन विवक्षितम् , १पृ० 97 पं० 16 / “कार्यत्वं स्वकारणसत्तासमवायः स्यात् , अभूत्वाभावित्वम् , अक्रियादर्शिनोऽपि कृतबुद्ध्युत्पादकत्वं कारणव्यापारानुविधायित्वं वा।" प्रमेयरत्नमा० पृ०६४ / 2 " सहावयवैवर्तमानत्वम् , तैर्जन्यमानत्वं वा, सावयवमिति बुद्धिविषयत्वं वा ? " प्रमेयक० पृ० 75 पू० / ३-वत्वेनास्य भां० ।-वत्वेव्या-ब०, ज० / 4 प्रागसतः स्वकारणसत्तासम्बन्धलक्षणम् / 5 कृत्यम् ब०, ज० / ६-भावे हि ज० /