________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० नित्याः, कुम्भकारादिज्ञानादिभ्यो विलक्षणत्वात् / न च साध्य-दृष्टान्तधर्मिणोः सर्वथा साम्यं संभवति ; सकलानुमानोच्छेदप्रसङ्गात् , नहि यादृशोऽग्निर्महानसे दृष्टः तादृश एव पर्वतेऽस्ति / एकत्वञ्च क्षित्यादिकर्तुः अनेककत णामप्येकाधिष्ठातृनियमितानां प्रवृत्त्युपपत्तेः सिद्धम् / प्रसिद्धा हि स्थपत्यादीनामेकसूत्रधारनियमितानां महाप्रासादादिकार्यकरणे प्रवृत्तिः / न चेश्व५ रस्य इच्छादीनाञ्च एकरूपत्वे नित्यत्वे च सति कार्याणां कादाचित्कत्वं वैचित्र्यञ्च विरोधमध्यास्ते; कादाचित्कविचित्रसहकारिलाभेन सामग्रीवैचित्र्यसिद्धौ तेषां तद्विरोधाऽसंभवात् / ननु क्षित्यादेर्बुद्धिमद्धेतुकत्वे अक्रियादर्शिनोऽपि जीर्णकूपप्रासादादिवत् कृतबुद्धिरुत्पद्येत, न चोत्पद्यते, अतो दृष्टान्तदृष्टस्य हेतोधर्मिण्यभावादसिद्धत्वम् ; तदप्ययुक्तम् ; यतः प्रामाणि कम् , इतरं वाऽपेक्ष्येदमुच्यते ? यदीतरम् ; कथन्न सकलानुमानोच्छेदः धूमादावप्यसिद्धत्वा१० नुषङ्गात् ? प्रामाणिकस्य तु नासिद्धत्वम् ; कार्यत्वस्य बुद्धिमत्कारणपूर्वकत्वेन प्रतिपन्नाऽविना भावस्य क्षित्यादौ प्रसिद्धः, पर्वतादौ धूमादिवत् / न च यावन्तः पदार्थाः कृतकाः तावन्तः कृतबुद्धिमात्मन्याविर्भावयन्ति इति नियमोऽस्ति, खात-प्रतिपूरितायां भुवि अक्रियादर्शिनः कृतबुद्धेरुत्पादाभावात् / न च अकृष्टप्रभवैः स्थावरादिभिर्व्यभिचारो बुद्धिमत्कारणाभावेऽपि . स्वसामग्रीतस्तेषामुत्पत्तिप्रतीतेरित्यभिधातव्यम् ; तेषां पक्षोकृतत्वात , पक्षे एव साधनव्य१५ भिचारे च न कश्चिद्धेतुर्गमकः स्यात् इत्यनुमानवार्वोच्छेदः / बुद्धिमत्कारणाभावश्चात्र अनुप लब्धितो भवता प्रसाध्यते; एतच्चायुक्तम् ; दृश्यानुपलब्धेरेव अभावसाधकत्वोपपत्तेः, न चेयमत्र संभवति क्षित्यादिकर्तुरदृश्यत्वात् / अनुपलब्धिमात्रस्य तु अभावसाधको अतिप्रसङ्गः / __ननु भगवतः परमकारुणिकस्य परार्थप्रवृत्तेजगन्निमित्तत्वे दुःखोत्पादकशरीराद्यारम्भकत्व विरोधः, तदविरोधे वा परमकारुणिकत्वानुपपत्तिः; इत्यपि मनोरथमात्रम् ; धर्माऽधर्मसहकारिणः 20 कर्तृत्वात् , यच्छरीराद्यारम्भे धर्मोऽधर्मो वा सहकारी तस्य सुखाऽसुखरूपफलोपभोगाय तथा विधशरीरादिकमारभते / भगवतो हि 'संसारात् प्राणिनो मोचयिष्यामि' इति परोपकारार्थैव प्रवृत्तिः / मुक्तिश्च एषां धर्माधर्मप्रक्षयात् , तत्प्रक्षयश्च फलोपभोगं विना नै घटते इति करुणावतोऽपि तद्विधाने प्रवृत्तिरविरुद्धा / यदि धर्माधर्मवशात्तस्य प्रवृत्तिः, तर्हि ताभ्यामेवाऽखिलकार्योत्पत्तिरस्तु किमीश्वरकल्पनया ? इत्यप्यसाधीयः ; तयोरचेतनयोः चेतनाधिष्ठितयोरेव स्व १-त परिपूरितायां भूमावक्रिया-भा० / २-स्य च अ-ज० / ३-धे च प-आ० / ४त्वाद्यनुप-भां०, ज०। 5 न इति आ०, ब०, ज०। 6 बुद्धिमत्यधिष्ठातरि साध्ये कथमचेतनेन कर्मणा सिद्धसाधनम् , तस्याप्यचेतनतया अधिष्ठात्रपेक्षत्वात् / तथाहि-सर्वमचेतनं चेतनाधिष्ठितं प्रवर्त्तमानं दृष्टम् यथा तन्त्वादि, तथा च कर्मादि / न चास्मदाद्यात्मैव अधिष्ठायकः; तस्य तद्विषयज्ञानाभावात् / तथा च अस्मदाद्यात्मनो न कर्मविषयं ज्ञानमिन्द्रियजम् , नापि परमाण्वादिविषयम् / न च तदभावे तस्य प्रेरक दृष्टम् / न चाचेतनस्य अकस्मात्प्रवृत्तिरुपलब्धा / प्रवृत्तौ वा परिनिष्पन्नेपि कार्ये प्रवत्तेत विवेकशून्यत्वात् ।"प्रश० व्योम० पृ. 304 /