________________ लघी०१।४ ] ईश्वरवादः न्तश्च साध्यविकलः; घटादौ तथाभूतस्य बुद्धिमतोऽभावादिति / तदसमीचीनम् ; यतो न साध्यसाधनयोर्विशेषेण व्याप्तिः सकलानुमानोच्छेदप्रसङ्गात् , किन्तु सामान्येन / अन्वयव्यतिरेकाभ्यां हि व्याप्तिरवधार्यते, तौ च आनन्त्याद् व्यभिचाराच्च विशेषेषु ग्रहीतुं न शक्यौ, अतो बुद्धिमतकर्तृपूर्वकत्वमात्रेणैव कार्यत्वस्य व्याप्तिः प्रत्येतव्या, न शरीरित्वादिना / न खलु कर्तृत्वसामग्यां शरीरं प्रविशति, तद्वयतिरेकेणाऽपि ज्ञान-चिकीर्षा-प्रयत्नाश्रयत्वेनं स्वशरीरप्रेरणे कर्तृ- 5 त्वोपलम्भात्। अकिञ्चित्करस्यापि शरीरस्य सहचरमात्रेण कारणत्वे वह्निपैङ्गिल्यस्यापि धूमं प्रति कारणत्वप्रसङ्गःस्यात् / विद्यमानेऽपि हि शरीरे ज्ञानादीनां समस्तानां व्यस्तानां वाऽभावे कुम्भकारादावपि कर्तृत्वं नोपलभ्यते / 'प्रथमं हि कार्योत्पादककारककलापज्ञानं प्रादुर्भवति, ततः तत्करणेच्छा, ततः प्रयत्नः,ततः फलनिष्पत्तिः'इत्यमोषां त्रयाणामेव कार्यकर्तृत्वे सर्वत्राऽव्यभिचारः / सर्वज्ञता चास्याऽखिलकार्यव्रातस्य कर्तृत्वात् सिद्धा, यो यस्य कर्ता स तदुपादानाद्य- 10 भिज्ञः यथा घटोत्पादकः कुम्भकारो मृद्दण्डाद्यभिज्ञः, जगतः कर्त्ता चायं भगवान ईश्वर इति / उपादानं हि जगतश्चतुर्विधाः परमाणवः, निमित्तकारणम् अदृष्टादि, भोक्ता आत्मा, भोग्यं तनुकरणादि / न चैतदनभिज्ञस्य क्षित्यादौ कर्तृत्वं संभवतीति / ते च तदीयज्ञानादयो .. 1 “अथ बुद्धिमत्तया ईश्वरस्य शरीरयोगमपि प्रतिपद्यते तेनापि प्रतिपद्यमानेन शरीरादयो नित्या अनित्या वा अवश्यमेषितव्याः / अथ नित्यान् शरीरादीन् कल्पयसि एवमपि दृष्टविपरीतं कल्पितं भवति दृष्टविपर्पयं प्रतिपद्यमानेन बुद्धनित्यत्वं प्रतिपत्तव्यम्''इच्छा तु विद्यते अक्लिष्टाऽव्याहता सर्वार्थेषु यथा बुद्धिरिति / " न्यायवा० पृ० 465 / “अशरीरपूर्वकत्वञ्च शक्यसाधनम् ; सर्वोपि का कारकस्वरूपमवधारयति, तत इच्छति-इदमहमनेन निर्वर्त्तयामि इति, ततः प्रयतते, तदनु कायं व्यापारयति, ततः करणान्यधितिष्ठति, ततः करोति,अनवधारयन् अनिच्छन् अप्रयतमानः कायमव्यापारयन् न करोति इति अन्वयव्यतिरेकाभ्यां बुद्धिवत् शरीरमपि कार्योत्पत्तावुपायभूतम्"तदिदमशरीरपूर्वकत्वानुमानं व्याप्तिग्राहकप्रमाणबाधितत्वात् कालात्ययापदिष्टं व्याप्तिबलेन चाभिप्रेतमशरीरित्वविशेष विरुन्धद् विशेषविरुद्धं ततश्च विरुद्धा वान्तरप्रभेद एवेति पूर्वपक्षसङ्क्षपः / अत्र प्रतिसमाधिः-न तावच्छरीरित्वमेव कर्तृत्वम् ; सुषुप्तस्योदासीनस्य च कर्तृत्वप्रसङ्गात् , किन्तु परिदृष्टसामर्थ्य कारकप्रयोजकत्वं तस्मिन् सति कार्योत्पत्तेः / तचाशरीरस्यापि निर्वहति यथा स्वशरीरप्रेरणायाम् आत्मनः / अस्ति तत्राप्यस्य स्वकर्मोपार्जितं तदेव शरीरमिति चेत् ; सत्यमस्ति ; परं प्रेरणोपायो न भवति स्वात्मनि क्रियाविरोधात् / इच्छाप्रयत्नोत्पत्तावपि शरीरमपेक्षणीयमिति चेत् ; अपेक्षतां यत्र तयोरागन्तुकत्वम् , यत्र पुनरेतौ स्वाभाविकावासाते तत्रास्यापेक्षणं व्यर्थम् / न च बुद्धीच्छाप्रयत्नानां नित्यत्वे कश्चिद्विरोधः / दृष्टा हि रूपादीनां गुणानाम् आश्रयभेदेन द्वयी गतिः तथा बुद्ध्यादीनामपि भविष्यति / " प्रशस्त० कन्द० पृ० 55 / व्योम० पृ. 305 / २-न शरीर-भां० / 3 चा-भां० / 4 मृत्पिण्डाद्य-आ० / 5 ये च आ० / 6 तदीया ज्ञाना-ज० / “यत् तदीश्वरस्य ऐश्वयं किं तन्नित्यमनित्यमिति ? 'नित्यम् इति ब्रूमः''अथास्य बुद्धिनित्यत्वे किं प्रमाणमिति ? नन्विदमेव बुद्धिमत्कारणाधिष्ठिताः परमाणवः प्रवर्त्तन्त इति / " न्यायवा० पृ. 464 / "तस्य हि ज्ञानक्रियाशक्ती नित्ये इति ऐश्वर्यं नित्यम् / " न्यायवा० ता० टी० पृ० 597 //