________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० विरुद्धः; निश्चितकर्तृके घटादौ प्रसिद्धत्वात् / नाप्यनैकान्तिकः; निश्चिताकर्तृकेभ्यो व्योमादिभ्यो व्यावर्तमानत्वात् / नापि कालात्ययापदिष्टः; प्रत्यक्षागमाभ्यामबाधितविषयत्वात् / नापि प्रकरणसमः; प्रकरणचिन्ताप्रवर्तकस्य हेत्वन्तरस्याऽसंभवात् / तदयं निरवद्यो हेतुर्बुद्धिमन्तं कर्तारं साधयन् पक्षधर्मताबलात् जगनिर्माणसमर्थ सर्वज्ञत्वादिविशेषणविशिष्टं साधयति / स्यान्मतम्-इष्टविघातकृदयं हेतुः; तथाहि-सर्वज्ञः सर्वकर्ता नित्यज्ञानेच्छाप्रयत्नवान् अशरीरो बुद्धिमानभ्युपगम्यते, दृष्टान्ते च घटादौ तद्विलक्षणः कर्लोपलभ्यते, दृष्टान्तदृष्टधर्मानुसारेण च अदृष्टेऽर्थे प्रतिपत्तिर्भवतीति सिसाधयिषितधर्मविपर्ययसाधनाद्विरुद्धो हेतुः / दृष्टाअयमपरो हेतुः-बुद्धिमत्कारणाधिष्ठितं महाभूतादिव्यक्तं सुखदुःखादिनिमित्तं भवति रूपादिमत्त्वात् तुर्यादिवत् / धर्माधर्मों बुद्धिमत्कारणाधिष्ठितौ पुरुषस्योपभोगं कुरुतः करणत्वात् वास्यादिवत् / 'बुद्धिमत्कारणाधिष्ठितानि स्वासु स्वासु धारणादिक्रियासु महाभूतानि वाय्वन्तानि प्रवर्त्तन्ते अचेतनत्वात् / " न्यायवा० पृ० 457-67 / “विवादाध्यासिताः तनु-तरु-महीधरादयः उपादानाभिज्ञकर्तृका उत्पत्तिमत्त्वात् अचेतनोपादानत्वाद्वा....."यथा प्रासादादि / न चैषामुत्पत्तिमत्त्वमसिद्धम् ; सावयवत्वेन वा महत्त्वे सति क्रियावत्त्वेन वा वस्त्रादिवत्तत्सिद्धः / " न्यायवा० ता० टी० पृ. 598 / न्यायमं० पृ० 194 | "कार्याऽऽयोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः / वाक्यात् संख्याविशेषाच्च साध्यो विश्वविदव्ययः // 1 // " न्याय कुसु० पञ्चमस्त 0 / “तत्राविद्धकर्णोपन्यस्तम् ईश्वरसाधने प्रमाणद्वयमाह-यत्स्वारम्भकेत्यादि / यत्स्वारम्भकावयवसन्निवेशविशेषवत् / बुद्धिमद्धेतुगम्यं तत्तद्यथा कलशादिकम् // 47 // द्वीन्द्रियग्राह्यमग्राह्य विवादास्पदमीदृशम् / बुद्धिमत्पूर्वकं तेन वैधयेणाणवो मताः // 48 // तन्वादीनामुपादानं चेतनावदधिष्ठितम् / रूपादिमत्त्वात्तन्त्वादि यथा दृष्टं स्वकार्यकृत् // 49 // " तत्त्वसं० / प्रमेयक० पृ० 75 पू०। . सन्मति० टी० पृ० 100 / “प्रशस्तमतिस्त्वाह-सादौ पुरुषाणां व्यवहारोऽन्योपदेशपूर्वकः उत्तरकालं प्रबुद्धानां प्रत्यर्थनियतत्वात् अप्रसिद्धवाग्व्यवहाराणां कुमाराणां गवादिषु प्रत्यर्थनियतो वाग्व्यवहारो यथामात्राद्युपदेशपूर्वक इति / " तत्त्वसं० पं० पृ० 43 / प्रमेयक० पृ. 75 पू० / सन्मति० टी० पृ० 101 / 1 विरुद्धो हेतुः नि-भां० / 2 साधयति भा० / ३-विशेषवि-भां०, ब०, ज० / 4 “नन्वेवमशेष यज्ञानाधारविधातृपूर्वकत्वे साध्ये साध्यविकलो दृष्टान्तः''विरुद्धश्च हेतुः''नैतदेवम् : बोधाधारे अधिष्ठातरि साध्ये न साध्यविकलत्वं नापि विरुद्धत्वम् / न चात्र''बोधाधारकारणत्वकार्यत्वयोः सामान्यव्याप्तेयाघातः शक्यसाधनः, विशेषेण तु व्याप्तिविरहादसाधनत्वे धूमस्याप्यसाधनत्वप्रसङ्गः।" प्रश० व्योमः पृ. 302 / “किञ्च व्याप्त्यनुसारेण कल्प्यमानः प्रसिद्धयति। कुलालतुल्यः कर्तेति स्याद्विशेष वेरुद्धता // व्यापारवानसर्वज्ञः शरीरी क्लेशस कुलः / घटस्य यादृशः कती तादृगेव भवेद् भुवः // विशेषसाध्यतायां च साध्यशून्यं निदर्शनम् / कर्तृसामान्यसिद्धौ तु विशेषावगतिः कुतः // " (पृ० 191 ) " यदपि विशेषविरुद्धत्वमस्य प्रतिपादितं तदप्यसमीक्षिताभिधानम् ; विशेषविरुद्धस्य हेत्वाभासस्याऽभावात् , अभ्युपगमे वा सर्वानुमानोच्छेदप्रसङ्गात् / " न्यायमं० पृ० 198 / प्रशस्त. कन्द० पृ. 55 / " तथाहि सौधसोपानगोपुराट्टालिकादयः। अनेकानित्यविज्ञानपूर्वकत्वेन निश्चिताः // 73 // अत एवायमिष्टस्य विघातकृदपीष्यते / अनेकानित्यविज्ञानपूर्वकत्वप्रसाधनात् // 74 // " तत्त्वसं० पृ० 50 / 5 सिसाधिषितआ० / सिसाधियिषित-भां०।