________________ लघी० 1 / 4] ईश्वरवादः च इन्द्रियप्रभवप्रत्यक्षस्य देशविप्रकृष्टार्थग्रहणेऽपि परिस्फुटप्रतिभासत्वन्न विरुद्धयते तथा अतीन्द्रियप्रत्यक्षस्य कालविप्रकृष्टार्थग्रहणेऽपि / न चैवम् अतीतादेवर्तमानतापत्तिः वर्तमानार्थग्रहणग्राह्यत्वात् वर्तमानार्थवत् इत्यभिधातव्यम् ; दूरदेशार्थस्य अदूरदेशार्थग्रहणग्राह्यत्वात् अदूरदेशार्थवत् अदूरदेशताप्राप्तः। - एतेन 'इदमिदानीमिह सत्' इत्यस्यां संविदि वस्तुसत्तावत् तत्प्राक्-प्रध्वंसाभावी प्रतिभा- 5 सेते न वा' इत्याद्यपि प्रत्याख्यातम् ; यथैव हि इन्द्रियप्रभवप्रत्यक्षे यद्देशविशिष्टं वस्तु नीलरूपमनोलरूपं वा भावरूपमभावरूपं वा तद्देशविशिष्टतयैव प्रतिभासते, तद्वत् सर्वज्ञज्ञानेऽपि यद्देशकालाकारविशिष्टं वस्तु भावरूपमभावरूपं वा तद्देशकालाकारतयैव प्रतिभासते , अतः कथं युगपज्जन्ममरणादिव्यपदेशप्रसङ्गः प्रतिनियतार्थस्वरूपाऽप्रतीतिर्वा यतः सर्वज्ञताऽस्य सुव्यवस्थिता न स्यात् ? भविष्यत्कालस्य हि वस्तुस्वभावस्य वर्तमानवस्तुस्वभावतया प्रतीतौ 10 युगपज्जन्ममरणादिव्यपदेशप्रसङ्गः प्रतिनियतार्थस्वरूपाप्रतीतिश्च स्यात् न पुनर्यथाकालं तत्प्रतीतौ / तन्नेदमपि अशेषविदो बाधकम् / अतः सिद्धं सुनिश्चिताऽसंभवद्बाधकप्रमाणत्वमशेषज्ञसद्भावप्रसाधकम् / .. ननु न सुनिश्चिताऽसंभवबाधकप्रमाणत्वात् सर्वज्ञसद्भावः सिद्धयति, किन्तु क्षित्यादिकार्य ___कर्तृत्वात् / न चास्य तत्कर्तृत्वमसिद्धम् ; तत्प्रसाधकस्यानु- 15 ईश्वरवादे नैयायिकस्य पूर्वपक्षः ___ मानस्य सद्भावात् / तथाहि-क्षित्यादिकं बुद्धिमत्कर्तृपूर्वकं कार्यत्वात् घटादिवत् / न चायमसिद्धो हेतुः ; सावयवत्वेन क्षित्यादेः कार्यत्वप्रसिद्धः / तथाहि-कार्यम् उर्वीपर्वततर्वादि, सावयवत्वात् , तद्वत् / नापि १-मानग्रहण-भा० / २-देशार्थता-भा० / ३-नियतात्मार्थ-भा० / 4 प्रायः अनयैव दिशा सर्वज्ञसमर्थनम् अधोनिर्दिष्टग्रन्थेषु द्रष्टव्यम्-तत्त्वसं० पृ. 846 / सिद्धिवि० टी० सर्वज्ञसि० / आप्तप० पृ० 54 / अष्टसह. पृ० 47 / तत्त्वार्थश्लो० पृ० 13 / शास्त्रवातीस० पृ. 80 / प्रमेयक० प्र. 70 प० / सन्मति० टी० पृ० 53 / न्यायवि. वि. पृ. 553 / स्या. रत्ना० पृ० 370 / प्रमेयरत्नमा० पृ० 54 / सर्वज्ञसि० पृ० 142 / ५-पूर्व आ०, ब०, ज० / “संज्ञा कर्म त्वस्मद्विशिष्टानां लिङ्गम् / प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मण: / " वैशे० सूत्र 2 / 1 / 18,19 / “महाभूतचतुष्टयमुपलब्धिमत्पूर्वकं कार्यत्वात्.."सावयवत्वात् " प्रशस्त० कन्द० पृ० 54 / प्रश० व्यो० पृ. 301 / वैशे० उप० पृ० 62 / “शरीरानपेक्षात्पनिक बुद्धिमत्पूर्वकम् कारणवत्त्वात् ... "द्रव्येषु सावयवत्वेन तद्गुणेषु कार्यगुणत्वेन कर्मसु कर्मत्वेनैव तदनुमानात् / " प्रशस्त किरणा० पृ९७ / न्यायली पृ० 20 / न्यायमुक्ता० दिन० पृ. 23 / “ईश्वरः कारणम् पुरुषकर्माफल्यदर्शनात् / " न्यायसू० 4 / 1 / 20 / "गुणविशिष्टमात्मान्तरमीश्वरः''तस्य च धर्मसमाधिफलम् अणिमाद्यष्टविधमैश्वर्यं सङ्कल्पानुविधायी चास्य धर्मः प्रत्यात्मवृत्तीन् धर्माधर्मसञ्चयान् पृथिव्यादीनि च भूतानि प्रवर्त्तयति / " न्यायभा० 4 / 1 / 21 / "प्रधानपरमाणुकर्माणि प्राक प्रवृत्तेः बुद्धिमत्कारणाधिष्ठितानि प्रवर्तन्ते अचेतनत्वात् वास्यादिवत् / ....... 13