________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० प्रत्यक्षादिप्रमाणपञ्चकविनिवृत्तिरूपं तद्भवद्भिरिष्टम् ; तन्निवृत्तिश्च प्रसज्यप्रतिषेधरूपा, पर्युदासरूपा वा ? प्रसज्यप्रतिषेधपक्षे तस्य अर्थपरिच्छित्तिहेतुत्वानुपपत्तिः नीरूपत्वात् / यन्नीरूपम् तन्नार्थपरिच्छित्तिहेतुः यथा गगनेन्दीवरम् , नीरूपञ्च प्रसज्यप्रतिषेधरूपमभावप्रमाणमिति / परिच्छित्तिहेतुत्वं हि भावधर्मः स कथं सर्वथा तुच्छस्वभावाऽभावस्य स्याद् विरोधात् ? तद५ भावाच्च कथं प्रमाणता परिच्छित्तौ साधकतमस्य प्रमाणव्यपदेशात् ? प्रमाणाऽभावरूपत्वाच्चाऽ भावस्य तद्व्यपदेशानुपपत्तिः / यो यदभावः स तद्वयपदेशं नार्हति यथा ब्राह्मणाऽभावी न ब्राह्मणव्यपदेशम् , प्रत्यक्षादिप्रमाणाभावश्वाभावप्रमाणमिति / पर्युदासपक्षेऽपि प्रमाणपञ्चकाऽभावशब्दाभिधेयं भावान्तरं वाच्यम् , तच्च प्रमाणपञ्चकविनिर्मुक्तात्मा, तदन्यज्ञानं वा स्यात् ? प्रथमपक्षे किं सर्वथा प्रमाणपञ्चकेन विनिर्मुक्त आत्मा, 10 निषेध्यविषयप्रमाणपञ्चकेन वा ? यदि सर्वथा; कवं सर्वज्ञाभावपरिच्छेदकत्वम् प्रमाणमन्त रेण प्रमेयपरिच्छेदकत्वानुपपत्तेः 1 अन्यथा प्रमाणपरिकल्पनानर्थक्यप्रसङ्गः / द्वितीयपक्षेऽपि किं भवदीय आत्मा सर्वज्ञविषये प्रमाणपञ्चकविनिर्मुक्तत्वात् तदभावं प्रसाधयेत् , सर्वस्य वा.? सत्राद्यपक्षोऽनुपपन्नः; परचेतोवृत्तिविशेषैरनेकान्तात्। द्वितीयपक्षोऽप्ययुक्तः ; सर्वस्य॑ प्रतिपत्तुः तद्विषये तद्विनिर्मुक्तत्वस्य असर्वविदा प्रतिपत्तुमशक्यत्वात्। तन्न प्रमाणपञ्चकविनिर्मुक्तात्मपक्षः 15 क्षेमङ्करः / नापि तदन्यज्ञानपक्षः, यतो निषेध्यात् सर्वज्ञत्वात् अन्वत् किञ्चिज्ज्ञवं तद्विषयं ज्ञानं तदन्यज्ञानम् ; तच्च किं क्वचित् कदाचित्कस्यचित् सर्वज्ञत्वाभावं प्रसाधयेत् , सर्वत्र सर्वदा सर्वस्य वा ? प्रक्षमपक्षे सिद्धसाध्यता; यत्र यदा यस्य किञ्चिज्ज्ञत्वसिद्धिः तत्र तदा तस्यासर्वज्ञत्वसिद्धेरभ्युपगमात् / द्वितीयपक्षस्तु श्रद्धामात्रगम्यः; कालत्रयत्रिलोकस्थप्राणिनामसाक्षात्करणे तत्र किञ्चिज्ज्ञत्वप्रतिपत्तेरनुपपत्तितः सर्वत्र सर्वदा सर्वस्याऽसर्वज्ञत्वसिद्धरप्यनुपपत्रोः / तन्नाभावप्रमाणमपि अशेषविदो बाधकम् , इति सिद्धं सुनिश्चितासंभवद्बाधकप्रमाणत्वं निखिलातीतानागतवर्तमानार्थसाक्षात्कारिणोऽतीन्द्रियप्रत्यक्षस्य / . यदप्युक्तम् -'अतीतकालादिपरिगतं वस्तु स्वेन स्वेन रूपेण प्रतिभासते' इत्यादि ; तदप्यसारम् ; यतः स्वेनैव तत्प्रतिभासते / कथं तर्हि अवर्तमानतया प्रतिभासमानस्यास्य प्रत्यक्षता युक्ता इति चेत् ? परिस्फुटतयाऽर्थस्य ग्राहकत्वात्, नहि सन्निहितदेश-कालतयार्थप्रतिभासः प्रत्यक्षलक्ष२५ णम् ; स्वोत्सङ्गस्थबालकशरीरे व्याहारादिलिङ्गतो जीवसद्भावावभासस्यापि प्रत्यक्षताप्रसङ्गात् / किं तर्हि ? परिस्फुटतयार्थप्रतिभासः,स चेत् अतीतादेरप्यर्थस्यास्ति कथन्न तस्य प्रत्यक्षता ? यथा 1 “यदि प्रमाणनिवृत्तिमात्र प्रसज्यलक्षणमभावप्रमाणं वर्ण्यते तदा नासौ कस्यचित् प्रतिपत्तिः, नापि प्रतिपत्तिहेतुः / " तत्त्वसं० पं० पृ० 850 / २-र्मक-भां० / 3" प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते। सात्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तु ने // 11 // " मीमां० श्लो० अभावपरि० / 4 सर्वज्ञस्य भां / 5 कदाचित् सर्वज्ञ-ब० , ज० / 6 पृ. 88 पं० 10 / 7 स्वेन रूपेण आ० / ८-मानस्य प्रत्य-भां० / 20