________________ लघी० 1 / 4] ___ सर्वज्ञत्ववादः ___ अथ इन्द्रियप्रभवप्रत्यक्षेणार्थपरिच्छेदकतया सर्वज्ञस्य सर्वपुरुषैः साम्यादुपमेयता / ननु स्मर्यमाणमेव वस्तु पुरोवर्तिपदार्थसादृश्योपाधि, सादृश्यं वा तेन विशेषितमुपमानस्य प्रमेयम् / स्मरणञ्च अनुभूत एव विषये प्रवर्तते नान्यत्र अतिप्रसङ्गात् / नचाशेषपुरुषाः तद्वर्तीनि चेतांसि च केनचिदसर्वविदाऽनुभूतानि यतः स्मर्येरन् / नाप्यननुभूतानां तेषामसर्वज्ञत्वसाधारणः कश्चिद्धर्मो निश्चेतुं शक्यः यद्वशात् 'अहमिव सर्वदा सर्वे पुरुषाः प्रतिनियतमर्थमिन्द्रियैः 5 पश्यन्ति', 'सर्वपुरुषवद्वा अहम्' इति असर्वज्ञतयोपमीयेरन् / यदपि सत्त्वादिकं कचिदसर्वज्ञ दृष्टं तदपि नासर्वज्ञत्व एव साधारणम् सर्वज्ञऽपि सत्त्वाद्यविरोधात् ; अन्यथा सर्वपुरुषाणामवेदार्थज्ञत्वं मूर्खत्वादि वा तद्वद् उपमीयत अविशेषात् / यथा च न कश्चिदवालिशो गवये सत्त्वादिधर्मदर्शनात् घटांदीनामपि गवयसादृश्यमुपमिमीते तथा सर्वपुरुषाणां सत्त्वादिधर्मदर्शनात् नाऽसर्वज्ञत्वमिति / एतेन 'खरविषाणवत् सर्वज्ञः' 'सर्वज्ञवद्वा खरविषाणम्' इति नीरूपतया 10 सर्वज्ञस्य उपमेयता प्रत्युक्ता / तन्नोपमानमपि तद्बाधकम् / नाप्यागमः; स हि पौरुषेयः, अपौरुषेयो वा तद्बाधकः स्यात् ? न तावदपौरुषेयः; तस्यागमविचारावसरे प्रपञ्चतः प्रतिषेत्स्यमानत्वात् , कार्य एवार्थे भवद्भिः प्रामाण्याभ्युपगमाच्च, स्वरूपेऽपि प्रामाण्येऽतिप्रसङ्गात् / नचाशेषज्ञाभावप्रतिपादकं किञ्चिद्वेदवाक्यमस्ति, "हिरण्यगर्भः सर्वज्ञः" [ ] इत्यादिवेदवाक्यानां तत्सद्भावावेदकानामेवानेकशः 15 श्रवणात् / अथ कर्माऽर्थवादपरत्वारोषां न तत्सद्भावाऽऽवेदकत्वम् ; कुतः पुनः तत्परत्वं तेषाम् न पुनः तत्सद्भावावेदकत्वम् ? तस्य असत्त्वाच्चेत् ; तदपि कुतः ? प्रमाणान्तरात् , तस्य कर्माऽर्थवादपरतया तत्सद्भावानावेदकत्वाद्वा ? तत्राद्यपक्षोऽयुक्तः; सर्वज्ञाऽसत्त्वग्राहिणः प्रमाणान्तरस्य प्रागेव प्रतिक्षिप्तत्वात् / द्वितीयपक्षे तु अन्योन्याश्रयः; तथाहि-सर्वज्ञाऽसत्त्वसिद्धौ भागमस्य कर्मार्थवादपरतया तत्सद्भावानावेदकत्वसिद्धिः, तत्सिद्धौ च सर्वज्ञाऽसत्त्वसिद्धिरिति / 20 पौरुषेयोऽप्यागमः किं सर्वज्ञप्रणीतः, तदभावविधातृपुरुषप्रणीतः, अन्यप्रणीतो वा तद्बाधकः स्यात् ? यदि सर्वज्ञप्रणीतः; कथं तद्बाधकः विरोधात् ? द्वितीयपक्षेऽपि अशेषज्ञाभावप्रतिपादकागमप्रणेता सकलं सकलज्ञविकलं जगत् प्रतिपद्यते, न वा ? यदि प्रतिपद्यते; तदा युक्तः तत्प्रणीतागमः प्रमाणम् , न पुनरशेषज्ञस्य बाधकः, तथाप्रतिपद्यमानस्य तत्प्रणेतुरेव अशेषज्ञत्वप्रसिद्धः / अथ न प्रतिपद्यते; कथं तर्हि प्रमाणम् अज्ञानमहामहीधरभराक्रान्तपुरुषप्रणीतत्वात् 25 तथाविधरथ्यापुरुषप्रणीतागमवत् ? अन्यप्रणीतपक्षेऽपि एतदेव दूषणद्वयं द्रष्टव्यम् / तन्नागमोऽपि सर्वज्ञबाधकः / नाप्यभावप्रमाणम् ; तस्याप्रे विस्तरतो निराकरिष्यमाणत्वात् / अस्तु वा तत्; तथापि 1 "तस्माद् यत्स्मर्यते तत् स्यात् सादृश्येन विशेषितम् / प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् // 37 // " मी० श्लो० उपमानपरि० / 2 सर्वज्ञत्वेऽपि भां० / 3 वेदवाक्यस्य / 4, 5 तत्सवावेदक-मां०।