________________ 94 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि तत्, तेन 'वेदार्थज्ञोऽपि न भवति तत एव तद्वत्' इत्यपि द्रष्टव्यम् , तथा च लाभमिच्छतो मूलोच्छेदः स्यात् / सत्त्व-पुरुषत्वाद्यविशेषेऽपि जैमिन्यादे रथ्यापुरुषाद्विलक्षणत्वात् तत्परिज्ञानातिशयो न विरुद्धथत इत्यत्राह-'पुरुष' इत्यादि / पुरुषस्य जैमिन्यादेः अतिशयःवेदार्थ-सर्व ज्ञाभावतत्त्वज्ञतालक्षणः तस्य संभवे अतीन्द्रियार्थदर्शी किन्न स्यात् ? ननु 'तदभावतत्त्व५ ज्ञो न कश्चिद् अनुपलब्धेः' इत्ययुक्तमुक्तम् ; दृश्यानुपलम्भस्यैव प्रमाणत्वोपपत्तेः, न चायं दृश्या नुपलम्भः; अर्वाग्दृशः परचेतसोऽदृश्यत्वात्, इत्याह-'अत्र' इत्यादि। अत्र तदभावतत्त्वज्ञाऽभावसाधने अनुपलम्भमप्रमाणयन् मीमांसकः सर्वज्ञ आदिः यस्य वेदक देः स एव विशेषः तस्य अभावे साध्ये कुतः प्रमाणयेत् ? न कुतश्चिदित्यर्थः / कुत एतत् ? इत्यत्राह-अभेदात् अविशेषात् / तन्नानुमानमपि अशेषविदो बाधकम् / 10 नाप्यर्थापत्तिः; तदभावमन्तरेणाऽनुपपद्यमानस्य प्रमाणषट्कविज्ञातस्य कस्यचिदप्यर्थस्याऽ संभवात् / वेदप्रामाण्यस्य च सर्वज्ञे सत्येव उपपत्तेः / नहि ‘गुणवतो वक्तुरभावे वचसः प्रामाण्यम्' इति तदपौरुषेयत्वप्रतिषेधावसरे प्रतिपादयिष्यते / नाप्युपमानं तद्बाधकम् / तत्खलु उपमानोपमेययोरध्यक्षत्वे सति गोगवयवत् सादृश्यालम्बनमुदयमासादयति, नान्यथा अतिप्रसङ्गात् / नचाशेषपुरुषाः सर्वज्ञश्व केनचिद् दृष्टा येन 15 'भशेषपुरुषवत् सर्वज्ञः' 'सर्वज्ञवद्वाऽशेषपुरुषः' इत्युपमानं स्यात् / तदृष्टौ वा तस्यैवाशेषज्ञत्वप्रसङ्गात् कथमुपमानात् सर्वज्ञाभावः स्यात् ? यत इदं शोभेत "नरान् दृष्ट्वा त्वसर्वज्ञान् सर्वानेवाधुनातनान् / / तत्सादृश्योपमानेन शेषाऽसर्वज्ञसाधनम् // 1 // ' [ . ] इति / किश्च, अशेषज्ञस्य अशेषप्रमातृशरीरसंस्थानवत् अविलक्षणशरीरसंस्थानतयोपमेयता 20 स्यात् , इन्द्रियप्रभवप्रत्य॑क्षेणार्थपरिच्छेदकतया, खरविषाणवन्नीरूपतया वा ? तत्राद्यविकल्पोऽ नुपपन्नः ; सर्वज्ञबाधाकरत्वाभावतः सर्वज्ञवादिनामनिष्टाऽसम्पादकत्वात्। नहि शरीरसंस्थानस्य अशेषज्ञता तद्वादिभिरिष्यते, येन अशेषज्ञशरीरसंस्थानस्य इतरजनशरीरसंस्थानाऽवैलक्षण्ये तद्वत्तस्य असर्वज्ञतापि स्यात् किन्त्वात्मनः, स चीतोऽत्यन्तविलक्षणः तत्कथं तदवैलक्षण्ये तस्य असर्वज्ञतोपमानं स्यात् ? नह्यन्यस्य अन्येन सादृश्ये तद्विलक्षणेऽन्यत्र अदृष्टपूर्वे तद् 25 युक्तम् अतिप्रसङ्गात्। 1 इत्याह आ०,ब.,ज.। २-ज्ञतादिल-ब०,ज० / ३“नाप्याऽत्तिरसर्वज्ञं साधयति / " तत्त्वसं०५०पृ०८४९ / आप्तप० पृ. 56, कारि० 102 / प्रमेयक० पृ. 73 उ० / स्या. रत्ना० पृ. 388 // 4 'सादृश्यस्योपमानेन शेषासर्वशनिश्चयः' इतिपाठभेदेन तन्वसंग्रहे (पृ. 838) / वृ. सर्वज्ञसि. पृ. 136 / 5 अविशेषेण श-भां० / 6 प्रत्यक्षे अर्थ- आ० / ७-ज्ञत्वमपि ब० , ज.। 8 शरीरसंस्थानात् /