________________ 4 लघी०१।४]. सर्वज्ञत्ववादः नापि वक्तृत्वादिकम् ; तदसत्त्वाभ्युपगमे वक्तृत्वादिधर्मोपेतत्वानुपपत्तेः; अन्यथा स्ववचनविरोधानुषङ्गात् / न खलु 'नास्ति सर्वज्ञः, वक्तृत्वादिधर्मोपेतश्च' इत्यभिदधता स्ववचनविरोधः परिहर्तुं शक्यः / तन्नाशेषज्ञस्याऽसत्ता कुतश्चिदपि साधनात् साधयितुं शक्या। नापि असर्वज्ञता; स्ववचनविरोधस्य अत्राप्यविशिष्टत्वात् , नहि 'सर्वज्ञोऽसर्वज्ञः' इति ब्रुवतः स्ववचनविरोधासंभवः / किञ्च, सर्वविदः प्रमाणविरुद्धार्थवक्तृत्वं हेतुत्वेन विवक्षितम् , तद्विपरीतम् , वक्तृत्वमात्रं वा ? प्रथमपक्षे असिद्धो हेतुः ; भगवतस्तथाभूतार्थवक्तृत्वाऽसंभवात् / द्वितीयपक्षे तु विरुद्धो हेतुः ; दृष्टेष्टाविरुद्धार्थवक्तृत्वस्य तत्परिज्ञाने सत्येव संभवात् / तृतीयपक्षेऽपि अनैकान्तिकत्वम् ; वक्तृत्वमात्रस्य सर्वज्ञत्वेन विरोधाऽसंभवात् / एतेन सुगतधर्मिपक्षोऽपि प्रत्याख्यातः, असत्त्वादिसाध्यापेक्षया अनुपलम्भादिसाधनापेक्षया च उक्तदोषानुषङ्गाविशेषात् / किञ्च, सुग- 10 तस्य सर्वज्ञताप्रतिषेधे अन्येषां तद्विधिरवश्यंभावी विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानान्तरीयकत्वात् 'अयं ब्राह्मणः' इत्यादिवत् / अथ सर्वपुरुषान् पक्षीकृत्य तेषां वक्तृत्वादेरसर्वज्ञता प्रसाध्यते; तन्न ; विपक्षात् तस्य व्यतिरेकाऽसिद्धौ सन्दिग्धविपक्षव्यावृत्तितया असर्वज्ञताप्रसाधकत्वानुपपत्तेः / रथ्यापुरुषादौ असर्वज्ञत्वे सत्येव वक्तृत्वादेरुपलम्भात् , सर्वज्ञे च कदाचिदप्यनुपलम्भात् ततो ब्यतिरेकॅसिद्धिः; इत्यपि मनोरथमात्रम् ; सर्वाऽऽत्मसम्बन्धिनोऽनुपलम्भस्य 15 असिद्धाऽनैकान्तिकत्वप्रतिपादनात् / ननु सर्वज्ञस्य कस्यचिदप्यभावात् सिद्धा ततो वक्तृत्वादेर्व्यतिरेकसिद्धिरिति चेत् ; कुतः 'पुनस्तदभावसिद्धिः-अत एव, अन्यतो वा ? अत एव चेत् ; चक्रकप्रसङ्गः, तथाहि-वक्तृत्वादेः सर्वज्ञाभावसिद्धौ ततोऽस्य व्यतिरेकसिद्धिः, तत्सिद्धौ चास्य असर्वज्ञत्वेनैव व्याप्तिः, तत्सिद्धौ चातः सर्वज्ञाभावसिद्धिरिति / अथ अन्यतः, तदास्य वैयर्थ्यम्, न चान्यत् तदभावप्राहकं फिञ्चि- 20 प्रमाणमस्ति / अनुपलम्भोऽस्तीति चेत् ; न ; अस्य सर्वाऽऽत्मसम्बन्धिनोऽसिद्धाऽनैकान्तिकत्वेन तदभावसाधकत्वानुपपत्तेः। यदि च अनुपलम्भमात्रेण अतीन्द्रियार्थदर्शिनोऽभावः साध्यते तदा तदभावज्ञस्याप्यतोऽभावः किन्नसाध्येत विशेषाभावात् ? इति प्रदर्शयन्नाह-'तदभाव' इत्यादि / .. तस्य अतीन्द्रियज्ञानस्य अभावः स एष तत्वं तज ज्ञो न कश्चिद् अनुपलब्धेः ख पुष्पवत् इति / अथ यद्यपि अस्मदादिस्तथाभूतो नोपलभ्यते तथाप्यन्य- 25 विवृतिव्याख्यानम्- स्तथाभूतो भविष्यतीत्याशङ्कयाह-'न वै जैमिनिरन्यो वा तदभाव तत्त्वज्ञः सत्त्व-पुरुषत्वचक्तृत्वादे रथ्यापुरुषवत्' इति / उपलक्षणञ्चै१. सर्वप्रमाण-भा० / इमे विकल्पाः प्रमेयक० पृ. 73 पू०, सन्मति० टी० पृ० 45, स्या० रत्ना० पृ. ३८४,प्रमेयरत्न. पृ०५७, इत्यादिष्वपि वर्तन्ते / 2 "सर्वज्ञप्रतिषेधे तु सन्दिग्धा वचनादयः / " न्यायवि. पृ. 519 पू० / ३-न उररीकृत्य आ० / ४-कः सिद्धथति इति आ० / ५“सकलज्ञस्य नास्तित्वे स्वसर्वानुपलम्भयोः। आरेकासिद्धता तस्याऽप्याग्दर्शनतोऽगतेः // " न्यायवि. पृ० 553 पू० / ६-पुरुषत्वादेः व०, ज०, भां /