________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० सकलार्थग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययश्च कश्चिदात्मेति / न तावदयं विशेषणासिद्धो हेतुः; आगमद्वारेणऽशेषार्थग्रहणस्वभावत्वस्य आत्मनि प्रसिद्धत्वात् / नापि विशेष्याऽसिद्धः; प्रक्षीणप्रतिबन्धप्रत्ययत्वस्य अग्रे प्रसाधयिष्यमाणत्वात् , तन्नानुपलम्भः तदभावे हेतुः / नापि विरुद्धविधिः; यतः साक्षात्, परम्परया वा विरुद्धस्य विधिः सर्वज्ञाभावं प्रसाधयेत् ? प्रथमपते सर्वज्ञत्वेन साक्षाद्विरुद्धस्य असर्वज्ञत्वस्य क्वचित् कदाचिद् विधानात्तस्याभावः साध्येत, सर्वत्र सर्वदा वा ? आद्यविकल्पे न साकल्येनाशेषज्ञाभावः सिद्ध्येत् / यत्रैव हि तद्विधानं तत्रैव तदभावः सिद्ध्येत् , नान्यत्र, नहि क्वचित् कदाचिद्वह्नविधाने सर्वत्र सर्वदा शीताभावो दृष्टः। द्वितीयविकल्पोऽप्यसंभाव्यः; अर्वाग्दृशः सर्वत्र सर्वदाऽसर्वज्ञत्वैविधेरसंभवात् , तत्संभवे वा अस्यैवाशेषज्ञत्वप्रसङ्गः स्यात् / 10 परम्परयापि तद्व्यापकविरुद्धस्य, तत्कारणविरुद्धस्य, तद्विरुद्धकार्यस्य वा विधिस्तदभावं साधयेत् ? न तावत्तस्य सर्वज्ञत्वस्य व्यापकेनाऽखिलार्थसाक्षात्कारित्वेन विरुद्धस्य तदसाक्षाकारित्वस्य, नियतार्थसाक्षात्कारित्वस्य वा विधिः तदभावसाधनाय प्रभवति; स हि कचित् कदाचित्तदभावं प्रसाधयेत् तुषारस्पर्शव्यापकशीतविरुद्धवह्निविधानात् क्वचित् कदाचित् तुषारस्पर्श निषेधवत् , न पुनः सर्वत्र सर्वदा, तत्र तदा तद्व्यापकविरुद्धविधेरसंभवात् , क्वचिदात्म१५ विशेषे तद्व्यापकविधेः प्रसाधितत्वात् / तत्कारणविरुद्धविधिरपि कथित् कदाचिदेवाश्शेषज्ञाभावं प्रसाधयेत् , यथा रोमहर्षादिकारणशीतविरुद्धवह्निविशेषविधानात् कचित्कदाचित् शीतकार्यरोमहर्षादिनिषेधः न पुनः साकल्येन; तत्कारणविरुद्धविधेः साकल्येन संभवाभावात् / सर्वज्ञत्वस्य हि कारणं ज्ञानावरणादिकर्मप्रक्षयः तद्विरुद्धश्च तदप्रक्षयः तस्य विधिः क्वचिदेवात्मनि न सर्वत्र, तदत्यन्तप्रक्षयस्य क्वचिदात्मविशेष प्रसाधयिष्यमाणत्वात् / एतेन तद्विरुद्धकार्यविधिरपि 20 प्रत्रिव्यूढः; तेन हि सर्वज्ञत्वेन विरुद्धं किञ्चिज्ज्ञत्वं तत्कार्थ नियतार्थविषयं वचः तस्य विधिः, सोऽपि न सामस्त्येन अशेषज्ञाऽभावं साधयितु समर्थः; यत्रैव तद्विधिस्तत्रैवास्य तदभावप्रसाधनसामोपपत्तेः, यथा यत्रैव प्रदेशविशेषे शीतादिविरुद्धदहनादिकार्यस्य धूमादेविधिः तत्रैव शीतस्पर्शनिषेधः न सर्वत्र / तन्न विरुद्धविधिरपि अशेषविदोऽभावप्रसाधिका / 1 "यद्वा अर्थान्तरस्य साक्षात् पारम्पर्येण वा विरुद्धस्यैवं विधानात् तन्निषेधः नाविरुद्धस्य तस्म तत्सहभावसंभवात् / यथा-नास्त्यत्र शीतस्पर्टी वहेरिति साक्षाद्विरुद्धस्य वढेः विधानात् शीतस्पर्शनिषेधः तद्वत् सर्वज्ञनिषेधेऽपि स्यात् / पारम्पर्येण तु विरुद्धस्य क्वचित् तद्व्यापकबिरुद्धस्यैव वा विधानात् सर्वविदो निषेधः यथा तुषारस्पर्शव्यापकशीतविरुद्धवविविधानात् तुषारस्पर्शनिषेधः / तत्कारणविरुद्धविधानाद्वा यथा रोमहर्षादिकारणशीतविरुद्धदहनविशेषविधानात् शीतकार्यरोमहर्षादिनिषेधः। तत्त्वसं० पं० पृ० 853 / "नापि विरुद्धविधिः, यतः सोपि प्रतिनियतदेशादौ तस्य अभावं साधयेद् , अशेषदेशादौ वा ?" स्या० .. रत्ना० पृ० 382 / २-ज्ञताभावः आ० / ३-त्वसिद्धर-भां० / 4 तत्कार्यविरुद्धस्य आ० / 5 सर्वज्ञस्य भा० / ६-स्पर्शानि-ज० / 7 अशेषज्ञत्वाभावं ब०,ज०,आ० / ८-प्रसाधकः ज० !