________________ लघी० 1 / 4] सर्वज्ञत्ववादः केनचित् सार्धम् एकज्ञानसंसर्गित्वमस्ति यस्योपलम्भात्तदभावः सिद्ध्येत् ,तस्यात्यन्तपरोक्षत्वात् / तन्न प्रत्यक्षं सर्वविदो बाधकम् / ___ नाप्यनुमानम् ; धर्मि-साध्य-साधनानां स्वरूपाऽप्रसिद्धः, तद्बाधके ह्यनुमाने धर्मित्वेन सर्वशोऽभिप्रेतः, सुगतः, सर्वपुरुषा वा ? यदि सर्वज्ञः; तदा किं तत्र साध्यम्-असत्त्वम् , असर्वज्ञत्वं वा ? यद्यसत्त्वम् ; किं तत्रे साधनम्-अनुपलम्भः, विरुद्धविधिः, वक्तृत्वादिकं वा ? यद्यनुपलम्भः; 5 स किं सर्वज्ञस्य, तत्कारणस्य, तत्कार्यस्यै, तद्व्यापकस्य वा ? यदि सर्वज्ञस्य; सोऽपि किं स्वसम्बन्धी, सर्वसम्बन्धी वा ? स्वसम्बन्धी चेत्; सोऽपि किं निर्विशेषणः, उपलब्धिलक्षणप्राप्तत्वविशेषणो वा ? न तावन्निर्विशेषणोऽसौ तदभावसाधनाय प्रभवति; परचित्तविशेषादिभिरनैकान्तिकत्वात् / नाप्युपलब्धिलक्षणप्राप्तत्वविशेषणः; सर्वत्र सर्वदा सर्वज्ञाऽभावसाधनाऽभावानुषङ्गात्, न हि सर्वथाप्यसतः उपलब्धिलक्षणप्राप्तत्वं घटते, कचित्कदाचित्सत्त्वोपलम्भाविना- 10 भावित्वात्तस्य / तथाहि-यदुपलब्धिलक्षणप्राप्तं न तत् सर्वथाप्यसत् यथा घटादि, उपलब्धिलक्षणप्राप्तश्च सर्वज्ञ इति / एतेन सर्वसम्बन्धिपक्षोऽपि प्रत्याख्यातः / असिद्धश्च सर्वसम्बन्ध्यनुपलम्भः असर्वविदा प्रतिपत्तुमशक्यत्वात् , न खलु सर्वात्मनां तज्ज्ञानानाञ्चाप्रतिपत्तौ तत्सम्बन्धी सर्वज्ञानुपलम्भः प्रतिपत्तु शक्यः / नापि क्वचित् प्रदेशविशेषे छत्राद्यनुपलम्भात् छायाद्यभाववत् सर्वज्ञस्य कारणानुपलम्भादभावो युक्तः ; तत्कारणस्य ज्ञानावरणादिकर्मप्रक्षयस्य अनुमानादि- 15 : नोपलम्भसंभवात् / समर्थयिष्यते च मोक्षप्ररूपणावसरे अशेषविदो रत्नत्रयप्रभवज्ञानावरणादिकर्मप्रक्षयादाविर्भाव इति।। कार्यानुपलम्भोऽपि असिद्ध एव; धर्माद्यशेषार्थप्रतिपादकस्यागमस्यैव तत्कार्यस्योपलभ्यमानत्वात् / तत्प्रतिपादकागमस्याऽपौरुषेयत्वात् कथं तत्कार्यता ? इत्यप्यसाम्प्रतम् ; अपौरुषेयत्वस्य आगमे प्रतिषेत्स्यमानत्वात् , गुणवद्वक्तृकत्वेनैव अशेषवचसा प्रामाण्यस्य समर्थयिष्यमाणत्वात्। 20 व्यापकानुपलम्भोपि असिद्धः; तद्वयापकस्यानुमानेन उपलम्भप्रतीतेः / सर्वज्ञत्वस्य हि व्यापकं सर्वार्थसाक्षात्कारित्वम् न पुनः सर्वार्थपरिज्ञानमात्रम्, तस्य असर्वज्ञेऽप्यागमद्वारेण उपलभ्यमानत्वात् / तच्चानुमानतः प्रसिद्धम् ; तथाहि-कश्चिदात्मा सकलार्थसाक्षात्कारी, तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात्, यद् यद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययम् तत् तत्साक्षात्कारि यथा अपगततिमिरादिप्रतिबन्धं लोचनविज्ञानं रूपसाक्षात्कारि, 25 केनचित् सार्द्धमेकज्ञानसंसर्गिता निश्चिता यस्य केवलस्योपलम्भात् तदभावं व्यवस्यामः, तस्य सर्वदेव अत्यन्तपरोक्षत्वात् / " तत्त्वसं०५० पृ० 849 / 1 "आद्यविधायां साधनम् अनुपलम्भो, बिरुद्धविधिर्वा भवेत् ?" स्या. रत्ना० पृ. 382 / २-स्य व्याप-ब०।३ "अनुपलम्भोऽपि किं निर्विशेषणोऽभीष्टः 'उपलब्धिलक्षणप्राप्तस्य ' इत्येतस्य विशेषणस्याऽनाश्रयणात् , अहोस्वित् सविशेषण इति / " तत्त्वसं०५० पृ०८५०।४ इत्यसाम्प्र-व०,ज०,आ० / 5 अनुमानमिदं प्रमेयक० पृ. 70 पू०, स्या० रत्ना० पृ. 370, प्रमेयरत्न. पृ० 54, इत्यादिषु वर्तते /