________________ 00 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० निवर्तमानम् , यत्र हि प्रत्यक्षस्य निवृत्तिः तस्य अभावोऽवसीयते यथा शशशृङ्गस्य,यत्र तु प्रवृत्ति; तस्य सद्भावः यथा रूपादेः, न चातीन्द्रियार्थदर्शिविषयं स्वप्नेऽपि प्रत्यक्षं प्रवृत्तम् , अतस्तन्निवृत्तेस्तस्याप्यभावोऽवसीयते; तदप्यनुपपन्नम् ; यतो यदि वस्तुनः प्रत्यक्षं कारणं व्यापकं वा स्यात् तदा तन्निवृत्तौ वस्तुनोऽपि निवृत्तिः स्यात् , नान्यथा अतिप्रसङ्गात् / कारणस्य हि वह्नयादेनिवृत्तौ 5 कार्यस्य धूमादेनिवृत्तिदृष्टा, व्यापकस्य च वृक्षत्वादेर्निवृत्तौ व्याप्यस्य शिंशपात्वादेर्निवृत्तिः / न चार्थस्य प्रत्यक्षं कारणम् तदभावेऽपि तद्भावात् / यद् यदभावेऽपि भवति न तत्तस्य कारणम् यथा गोरभावेऽपि भवन्नश्वो न गोकारणकः, देशादिव्यवधाने असत्यपि अर्वाग्दर्शिप्रत्यक्ष भवति चार्थ इति / नापि व्यापकम् ; तन्निवृत्तावप्यनिवर्तमानत्वात् / यन्निवृत्तावपि यन्न निवर्तते न तत्तस्य व्यापकम् यथा निवर्तमानेऽपि कुम्भेऽनिवर्तमानस्य स्तम्भस्य न कुम्भो व्यापकः, निवर्तमानेऽपि प्रत्यक्षे न निवर्तते च देशादिविप्रकृष्टोऽर्थ इति / न चाँऽकारणाऽव्यापकभूतस्यास्य निवृत्तौ अकार्याऽव्यापकभूतस्यार्थस्य निवृत्तिर्युक्ता अतिप्रसङ्गात् / योऽपि कार्याभावात् कचित् कारणस्याऽभावनिश्चयः सोऽप्यप्रतिबद्धसामर्थ्यस्यैव, न पुनः कारणमात्रस्य / न च अर्वाक्प्रत्यक्षं प्रति अशेषार्थानां सामर्थ्यमस्ति येन तन्निवर्तमानं तेषामभावं साधयेत् / किञ्च,अध्यक्निवृत्ति-अर्थाभावयोः यदिव्याप्य-व्यापकभावः सिद्धयेत् तदा तन्निवृत्तेरा१५ भावो निश्चीयेत, नचासो सिद्धः त्रिविप्रकृष्टेऽर्थे सत्यपि प्रत्यक्षनिवृत्तेः प्रतीयमानत्वात् / किञ्च, भवत्प्रत्यक्षनिवृत्तिः सर्वविदोऽसत्त्वं प्रसाधयेत् , सर्वप्रत्यक्षनिवृत्तिर्वा ? तत्राद्यपक्षोऽनुपपन्नः; भवत्प्रत्यक्षनिवृत्तेः देशादिव्यवधाने सत्यप्यर्थे प्रतीयमानत्वात् / द्वितीयपक्षोऽप्ययुक्तः; सर्वज्ञविषये सर्वप्रत्यक्षनिवृत्तेः सर्वज्ञमन्तरेणानुपपत्तेः, नहि अर्वान्दशा सर्वप्रमातणामसाक्षात्करणे 'तत्र तत्प्रत्यक्षं न प्रवर्तते' इति प्रतिपत्तु शक्यम्। नन्वेवं सर्वत्राऽभावव्यवहारोच्छेदः स्यात् 20 कचित् घटाद्यभावसाधनेऽपि उक्तदोषानुषङ्गात् ; इत्यप्यचर्चिताभिधानम् / तत्र एकज्ञानसंसर्गिप दार्थान्तरोपलम्भतोऽभावव्यवहारोपपत्तेः, एकस्य हि कैवल्यम् इतरस्य वैकल्यम् / नचोशेषज्ञस्य 1 तदभावो-भां० / 2 “कारणव्यापकाभावे निवृत्तिश्चेह युज्यते। हेतुमद्वयाप्तयोः तस्मादुत्त्पत्तेरेकभावतः // 3271 // कृशानुपादपाभावे धूमाम्रादिनिवृत्तिवत् / अन्यथाऽहेतुतैव स्यात् नानात्वञ्च प्रसज्यते // 3272 // " तत्त्वसं० / प्रमेयक पृ० 72 उ० / 3 “नापि यन्निवृत्तौ यम्न निवर्त्तते स तस्य स्वभावो युक्तः गोरिव गवयस्य / " तत्त्वसं०५० पृ० 851 / 4 " न चाकारणाऽव्यापकभूतस्यान्यस्य निवृत्तावन्यस्य निवृत्तियुक्ता अतिप्रसङ्गात् / " तत्त्वसं०५०१०८५१। 5 "या च कार्यानुपलब्धिरुक्ता न सा कारणमात्रस्य अभावं गमयति,किं तर्हि ? अप्रतिबद्धसामर्थ्यस्यैव / " तत्त्वसं० पं० पृ. 851 / ६“नच प्रत्यक्षनिवृत्तिर्वस्त्वभावेन व्याप्ता येनासौ वस्त्वभावः ततो निश्चीयते / सत्यपि वस्तुनि व्यवहितादौ प्रत्यक्षस्य निवृत्तिदर्शनात् / " तत्त्वसं० पं० पृ. 848 / ७त्रिधावि-आ० / 8 “यद्येवं कथमनुपलम्भाख्यात् प्रत्यक्षात् घटाद्यभावसिद्धिः प्रदेशान्तरे भवद्भिर्वर्ण्यते ? नैतदस्ति; एकज्ञानसंसर्ग योग्ययोरर्थयोः अन्यतरस्यैव या सिद्धिः सा अपरस्य अभावसिद्धिः इति कृत्त्वा / " तत्त्वसं० पं० पृ. 849 / 9 "न चैवं सर्वज्ञत्वस्य