________________ co लघी० 1 / 4] सर्वज्ञत्ववादः तन्न युगपत्प्रतीतिः / नापि क्रमेण ; अतीतानागतार्थानां परिसमाप्त्यभावतः तज्ज्ञानस्याप्यपरिसमाप्तेः सर्वज्ञत्वाऽयोगात् / अथ वस्तुसत्तावत् तौ न प्रतिभासते; तदा कथमसौ सर्वज्ञः स्यादिति ? अत्र प्रतिविधीयते / यत्तावदुक्तम् -सदुपलम्भकप्रमाणपञ्चकगोचरातिक्रान्ततयाऽसत्त्वम तीन्द्रियज्ञानस्य तद्वतो वा; तत्र तदतिक्रान्तता तावत्तस्य 5 तन्निरसन पुरस्सरा असिद्धा; तत्सद्भावावेदकस्यानुमानप्रमाणस्य सद्भावात् इति / सर्वज्ञसिद्धिः - एतत् 'तत्' इत्यादिना दर्शयति-तद् अतीन्द्रियज्ञानम् , अस्ति, मुनिश्चिताऽसंभवबाधकप्रमाणत्वात् सुखादिवद् इति / न तावदाश्रयासिद्धोऽयं हेतुः,धर्मिणो हेतुप्रयोगात् पूर्व कुतश्चित्प्रमाणादप्रसिद्धरित्यभिधातव्यम् ; विकल्पप्रसादात्तस्य प्रसिद्धः / ने हि कश्चित्तस्याऽगोचरोऽस्ति यन्न क्रमेत सर्वत्राप्रतिहतप्रवृत्तित्वात्तस्य / न खलु वन्ह्याद्यनु- 10 मानेऽपि पर्वतादेर्धर्मिणो विकल्पादन्यतः सिद्धिः इत्यो वक्ष्यते / नापि स्वरूपासिद्धः ; तद्बाधकस्य कस्यचिदपि प्रमाणस्याऽसंभवात् / अतीन्द्रियार्थदर्शिनो हि बाधकं प्रमाणं प्रत्यक्षम् , अनुमानादि, अभावो वा स्यात् ? यदि प्रत्यक्षम् / तत् किं कचित् कदाचित्तदभावं प्रसाधयेत् , सर्वत्र सर्वदा वा ? प्रथमपक्षे सिद्धसाधनम् , नहि सर्वत्र सर्वदा तत्सद्भावोऽस्माभिः प्रतिज्ञातः। द्वितीयपक्षे तु अतीन्द्रियप्रत्यक्षमन्तरेण सर्वत्र सर्वदाऽतीन्द्रियज्ञानाऽभावाऽसिद्धिः इत्यावेदयति- 15 'यावत्' इत्यादिना / यावज्ज्ञेयं सर्कलं ज्ञेयं व्याप्नोति विषयीकरोत्येवं शीलं यज् ज्ञानं तेन रहिता शून्या या सकली पुरुषपरिषत् तस्याः परिज्ञानस्य तदन्तरेण अतीन्द्रियज्ञानमन्त• रेण अनुपपत्तेः , 'तदस्ति' इत्यभिसम्बन्धः / न खलु प्रादेशिकेन्द्रियजज्ञानेन सर्वत्र सर्वदा सर्वदर्शिनोऽभावः कर्तुं शक्यः तस्यातद्विषयत्वात् ,यद् यद्विषयं न भवति न 'तत्तत्र विपरीतधर्मस्य बाधकम् यथा शब्दाऽविषयं "चाक्षुषं ज्ञानं तदश्रावणत्वस्य, सकलदेशकालवर्तिपुरुषपरि- 20 षदविषयञ्च प्रादेशिकमिन्द्रियप्रभवं ज्ञानमिति / ननु ने प्रवर्तमानं प्रत्यक्षं सर्वदर्शिनो बाधकम् शब्दे श्रावणत्वप्रत्यक्षमिवाऽश्रावणत्वस्य,किन्तु १-पत्तत्प्र-भां० / 2 अनयैव भाथा निम्नग्रन्थेषु कृतः सर्वज्ञविषयः पूर्वपक्षः-तत्त्वसं० पृ० 830 / आप्तप० पृ०५३ / अष्टसह पृ०४५ / शास्त्रवाता० पृ०७९ उ. / प्रमेयक. पृ० 68 पू० / सन्मति० टी० पृ०४३ / न्यायवि० वि० पृ० 553 / स्या. रत्ना० पृ३६३ / प्रमेयरत्न. पृ. 52 / बृहत्सर्वज्ञसि० पृ० 130 / 3 पृ० 86 पं० 15 / 4 प्रमाणाप्रमाणसाधारणी शाब्दी प्रतीतिः विकल्पः तस्य / 5 “न खलु ज्ञस्वभावस्य कश्चिदगोचरोस्ति यन्न क्रमेत" अष्टश. अष्टसह. पृ०४९। ६-लझे-भां०।७-लं ज्ञा-आ०। 8 सकलपु-आ०, ब०, ज०। 9 तस्य तदविषयत्वात भां०। 10 तद्विपरीतभां० / ११-चाक्षुषं विज्ञा-ब०, ज० / चाक्षुषविज्ञा-भां० / 12 “न वयं प्रत्यक्षं प्रवर्त्तमानमभावं साधयति इति ब्रूमः / किं तर्हि ? निवर्तमानम् / ' तत्त्वसं० पं० पृ. 848 / प्रमेयक० पृ० 72 उ०। सन्मति० टी० पृ० 45 / स्या. रत्ना० पृ० 381 / 12