________________ ___ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० प्रमितस्य कस्यचिदप्यर्थस्याऽसंभवात् / न च धर्माद्युपदेशकरणान्यथानुपपत्तेर्बुद्धादीनां सर्वज्ञतासिद्धिर्भविष्यतीत्यभिधातव्यम् ; तेषां तदुपदेशकरणस्य व्यामोहादेव उपपत्तेः। द्विविधो धुपदेशः-व्यामोहपूर्वकः, सम्यग्ज्ञानपूर्वकश्च। तत्र व्यामोहपूर्वको यथा स्वप्नोपलब्धार्थोपदेशः / सम्यग्ज्ञानपूर्वको यथा मन्वादीनां सकलार्थज्ञानोदयवेदमूलो धर्माद्यशेषार्थोपदेशः / ते हि निखि५ लपदार्थज्ञानोत्पत्तिहेतोर्वेदाद् आविर्भूतविशुद्धबोधाः धर्माद्यशेषपदार्थसार्थमुपदिशन्ति न पुन बुद्धादयः, अन्यथा मन्वाद्युपदेशवत् तदुपदेशोऽपि त्रयोविद्भिराश्रीयेत, न चासौ तैराश्रितः, अतो व्यामोहादेवासौ तद्विषयस्तैः कृतः इत्यवसीयते / ततः सिद्धं सर्वज्ञस्य॑ सदुपलम्भकप्रमाणपञ्चकगोचरातिक्रान्तत्वम् / तच्च सिद्धथदभावप्रमाणकवलीकृतविग्रहत्वं साधयति, तदपि अस त्वम् / अतः सर्वज्ञस्य आकाशकुशेशयप्रख्यतां प्राप्तत्वात् कस्याशेषज्ञता प्रायेंत ? 10 अस्तु वा सर्वज्ञः; तथाप्यसौ समस्तमतीतकालादिपरिगतं वस्तु स्वेन स्वेन रूपेण प्रति पद्यते, किं वा वर्तमानतयैवं ? प्रथमपक्षे तज्ज्ञानस्य प्रत्यक्षतानुपपत्तिः अवर्तमानवस्तुविषयत्वात् , यवर्तमानवस्तुविषयं न तत् प्रत्यक्षम् यथा स्मरणादि, अवर्तमानवस्तुविषयञ्च अतीताऽनागतार्थविषयतया सर्वज्ञज्ञानमिति / द्वितीयपक्षे तु तज्ज्ञानस्य भ्रान्तत्वप्रसङ्गः; अन्यथास्थितस्या र्थस्य अन्यथात्वेन प्राहकत्वात् / यदन्यथास्थितस्यार्थस्यान्यथात्वेन प्राहकं तद् भ्रान्तम् यथा 15 द्विचन्द्रादिज्ञानम् , अन्यथास्थितस्य अतीतानागतकालस्यार्थस्य वर्तमानतया ग्राहकञ्च सर्वज्ञज्ञानमिति / किञ्च, 'इदमिदानीमिह सत्' इत्यस्यां संविदि वस्तुसत्तावत् तत्प्राक्-प्रध्वंसाभावी प्रतिभासेते, न वा ? यदि प्रतिभासते; तदा युगपत् , क्रमेण वा ? युगपञ्चेत् ; तर्हि तदैवास्यानुत्पन्न प्रध्वस्तव्यपदेशप्रसङ्गाद् युगपज्जन्म-मरणादिव्यपदेशप्रसङ्गः, यद् येन स्वरूपेण प्रतिभासते 20 तत्तेनैवं व्यपदिश्यते यथा नीलं नोलतया, सत्त्व-प्राक् प्रध्वंसाभावरूपतया प्रतिभासते च अशेष ज्ञस्याऽशेष वस्त्विति / तथा च प्रतिनियतार्थस्वरूपप्रतीतेरभावात् सुव्यवस्थिताऽस्य सर्वज्ञता! 1 "उपदेशो हि बुद्धादेरन्यथाप्युपपद्यते / स्वप्नादिदृष्टव्यामोहात् वेदाचावितथं श्रुतात् // 3223 // ये हि तावदवेदज्ञास्तेषां वेदादसंभवः / उपदेश: कृतोऽतस्तैव्यामोहादेव केवलात् // 3224 // ये तु मन्वादयः सिद्धाः प्राधान्येन त्रयी विदाम् / यीविदाश्रितग्रन्थास्ते वेदप्रभवीक्तयः // 3228 // " तत्त्वसं० / "ग्यजुसामाख्याः त्रयो वेदाः त्रयी भण्यन्ते, तां विदन्तीति त्रयोविदो ब्राह्मणाः उच्यन्ते / " तत्त्वसं० पं० पु. 840 / “स्त्र्या ऋक् सामयजुषी इति वेदास्त्रयस्यी” इत्यमरः / 2 सर्वज्ञान-भां० / ३-तः व्यामोभां०।४-ज्ञस्य प्रमा-आ०,ब०,ज० ।५-तयैव वा आ० / 6 “युगपत्परिपाट्या वा सर्वश्चै कस्वभावतः। जानन् यथा प्रधानं वा शक्त्या वेष्येत सर्ववित् // 3248 // युगपच्छुच्यशुच्यादिस्वभावानां विरोधिनाम् / ज्ञानं नैकधिया दृष्टं भिन्ना वा गतयः क्वचित् // 3249 // भूतं भवद् भविष्यंश्च वस्त्वनन्तं क्रमेण कः / प्रत्येकं शक्नुयाद् बोद्धं वत्सराणां शतैरपि // 3250 // " इत्यादिकारिकाभिः तत्त्वसङ्ग्रहकारः (पृ० 844 ) सामट-यज्ञटयोः सर्वज्ञदूषकं मतम् उपस्थापयति / 7 तत्तथैव भां०।८-भास्यते भां।