________________ लघी० 114] सर्वज्ञत्ववादः पलम्भसाधनत्वात्तस्य / नापि'स्वभावः; अशेषवेदिनोऽप्रत्यक्षत्वे तव्यतिरेकिणः स्वभावस्य प्रतिपत्तुमशक्तेः / आर्गमोऽपि नित्यः, अनित्यो वा सर्वज्ञसद्भावावेदकः स्यात् ? न तावन्नित्यः; तत्प्रतिपादकस्य नित्यस्यागमस्यैवाऽसंभवात् / “हिरण्यगर्भ प्रकृत्य स सर्ववित् स लोकवित्"[ ] इत्यादेरप्यागमस्य कर्मार्थवादविधायकत्वेन अशेषज्ञविधायकत्वानुपपत्तेः, अनादेश्चागमस्यादिमत्सर्वज्ञप्रतिपादनविरोधात् / अनित्योऽप्यागमः-सर्वज्ञप्रणीतः, असर्वज्ञप्रणीतो वा तत्प्रतिपा- 5 दकः स्यात् ? प्रथमपक्षे अन्योन्याश्रयः-सर्वज्ञ सिद्धौ हि तत्प्रणीतत्वेनागमस्य प्रामाण्यसिद्धिः, तसिद्धौ चातः सर्वज्ञसिद्धिरिति / असर्वज्ञप्रणीतस्य चागमस्य अप्रमाणभूतत्वात् कथं ततस्तप्रतिपत्तिः ? तथाभूतादप्यतस्तत्प्रतिपत्तौ स्वर्वचनादेव तत्प्रतिपत्तिः किन्न स्यादविशेषात् ? नानासादितप्रमाणभावस्याऽन्यवाक्यस्य स्ववचनात् कश्चिद्विशेषोऽस्ति / तन्नागमतोऽपि तत्प्रतिपत्तिः / नाप्युपमानात् ; तस्य सदृशपदार्थग्रहणनान्तरीयकत्वात्, गोसदृशगवयग्रहणनान्तरीयक- 10 गवाद्युपमानवत् / न चाशेषज्ञसदृशः कचिजगति प्रतीतः, तदप्रतीतौ तत्सादृश्यप्रतीतेरनुपपत्तेः / प्रयोगः-यस्य सदृशग्रहणं नास्ति स नोपमानविषयः यथा वन्ध्यास्तनन्धयः, नास्ति च सदृशग्रहणं सर्वज्ञस्येति / नाप्यर्थाप॑त्तितस्तत्सिद्धिः; सर्वज्ञसद्भावमन्तरेणानुपपद्यमानस्य षट्प्रमाण- 1 "स्वभावोऽपि हेतुर्न सर्वदर्शिनः सत्ता साधयति तदप्रत्यक्षत्वे स्वभावस्य तदव्यतिरेकिणो गृहीतुमशक्यत्वात् / " तत्त्वसं० पं० पृ० 831 / 2 "न चागमेन सर्वज्ञः तदीयेऽन्योन्यसंश्रयात् / नरान्तरप्रणीतस्य प्रामाण्यं गम्यते कथम् // 118 // न चाप्येवं परो नित्यः शक्यो लब्धुमिहागमः / नित्यश्चेदर्थवादत्वं तत्परे स्यादनित्यता // 119 // " "नन्वस्त्येव 'सर्वज्ञः सर्वविद्' इत्यादिरत आह-नित्यश्चेद्' इति / किमित्यर्थवादत्वम् अत आह-'तत्परे इति / अनित्यस्य विग्रहवतः पुरुषस्य सर्वज्ञत्वं प्रतिपादयन्नागमोपि अनित्यः स्यादिति / " मीमां० श्लो० टी० पृ. 82 / “न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधकः / कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते // 3187 // " तत्त्वसं० पृ. 831 / 3 “स सर्ववित् स लोकवित् इत्यादेः हिरण्यगर्भः सर्वज्ञः इत्यादेश्च आगमस्य / " तत्त्वार्थश्लो० पृ. 45 / "हिरण्यगर्भ प्रकृत्य सर्वज्ञः" सन्मति० टी० पृ. 46 / स्या० रत्ना० पृ० 364 / शास्त्रवा० टी० पृ. 49 पू० / वृ० सर्वज्ञसि० पृ० 133 / 4 “स्तुतिनिन्दापरकृतिपुराकल्प अर्थवादः / " न्यायसू० 2 / 1 / 64 / “विधेः फलवादलक्षणा या प्रशंसा सा स्तुतिः सम्प्रत्ययार्थी अनिष्टफलवादो निन्दा वर्जनार्था... अन्यकर्त्रकस्य व्याहतस्य विधेर्वादः परकृतिः......"ऐतिह्यसमाचरितो विधिः पुराकल्प इति / " न्यायभा० पृ० 156 / “प्राशस्त्यनिन्दान्यतरपरं वाक्यमर्थवादः / " अर्थसं० पृ० 123 / 5 “अथ तद्वचनेनैव सर्वज्ञोऽन्यः प्रतीयते / प्रकल्प्येत कथं सिद्धिः अन्योन्याश्रययोस्तयोः // 3188 // सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता / कथं तदुभयं सिद्धयेत् सिद्धमूलान्तरादृते // 3189 // " तत्त्वसं०। 6 “असर्वज्ञप्रणीतात्तु वचनान्मूलवर्जितात् / सर्वज्ञमवगच्छन्तः स्ववाक्यात् किन्न जानते // 3190 // " तत्त्वसं० / 7 "सर्वज्ञसदृशः कश्चिद् यदि दृश्येत सम्प्रति / तदा गम्येत सर्वज्ञसद्भाव उपमाबलात् // 3215 // " तत्त्वसं० पृ० 838 / 8 " उपदेशो हि बुद्धादेर्धर्माधर्मादिगोचरः। अन्यथा नोपपद्येत सार्वज्यं यदि नो भवेत् // 3217 // प्रत्यक्षादौ निषिद्धपि सर्वज्ञप्रतिपादके / अर्थापत्त्यैव सर्वज्ञमित्थं यः प्रतिपद्यते // 3218 // " तत्त्वसं० पृ० 838 /