________________ 86 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [१प्रत्यक्षपरि० भाविनि विकल्पज्ञाने तथाप्रतीतेरयमदोषः; तर्हि 'पूर्व दूगदिरहितस्य प्रतीतिः पुनस्तत्सहितस्य' इति क्रमेण तत्प्रतीतिः स्यात् , न चैवम् , प्रथममेव दूरत्वादिविशिष्टस्यास्य प्रतीतेः। ततो गतिपरिणतस्य स्वयं दूरादिप्रत्यययोग्यताविशिष्टस्य गन्धस्येव शब्दस्यापि दूरादिप्रत्ययगोचरत्वं प्रतिपत्तव्यम् ,इति सिद्धं प्राप्यकारित्वं श्रोत्रस्य,कथमन्यथा तद्विषये देशादिसन्देहः स्याद् रूपवत् ? 5 यथैव हि रूपे प्रतीयमाने 'किमस्मिन् देशे रूपमेतत् प्रतिभाति अन्यस्मिन् वा, अस्यां दिशि अन्यस्यां वा' इति न सन्देहः, नियतदिग्देशतयैव अस्य अप्राप्यकारिणेन्द्रियेण प्रतिपत्तिसंभवात् , तथा अत्राप्यसौ न स्यात् , अस्ति चात्रसन्देहः-'किमन्तः शब्दोऽयं जातः वहिर्वा' 'प्राच्यां दिशि अन्यस्यां वा' इति / अथ देशादिसन्देहात् तत्रैवं सन्देहः तर्हि गन्धोऽप्यप्राप्त एव गृह्यतां देशादि सन्देहादेवात्रापि सन्देहसंभवात् / अथ अतो घाणविकारदर्शनात् प्राप्तोऽसौ प्रतीयते; तदेत१० च्छब्देऽपि समम् , श्रोत्रविकारस्य बाधिर्यादेः शब्दात् प्रतीतेः / तस्माद् इन्द्रियानिन्द्रियाभ्या मन्यस्य गौणप्रत्यक्षं प्रत्यसाधारणकारणत्वानुपपत्तेः सूक्तम्- सांव्यवहारिकमिन्द्रियानिन्द्रियप्रत्यक्षम्' इति / मुख्यमिदानी प्ररूपयति-मुख्यम् प्रधानम् 'प्रत्यक्षम्' इत्यनुवर्तते / किं तत् ? इत्याह- .. अतीन्द्रियज्ञानम् अवधि-मनःपर्यय-केवलाख्यम् / 15 ननु च अतीन्द्रियज्ञानस्य तद्वतो वा सदुपलम्भकप्रमाणपञ्चकगोचरातिक्रान्ततया अभाव प्रमाणकवलीकृतविग्रहत्वतोऽस्याऽसत्त्वात् कस्य मुख्यप्रत्यक्षता सर्वज्ञाभाववादिनो मीमांसकस्य 4 प्रसाध्येत ? न च तदतिक्रान्तताऽस्याऽसिद्धा; अतीन्द्रियार्थ वेदिविषयस्य अध्यक्षादीनां मध्ये कस्यचिदपि प्रमाणस्याऽसंभवात् / तथाहि-न तावत्प्रत्यक्षं तद्विषयम् / प्रतिनियतरूपादिगोचरचारित्वात्तस्य / किञ्च, सम्बद्धे 20 वर्तमाने चार्थे प्रत्यक्षं प्रवर्तते, न चाशेषार्थवेदो चक्षुरादीन्द्रियेण सम्बद्धो वर्तमानश्च, तत्कथं तत्प्रभवप्रत्यक्ष प्रतिभासेत ? नाप्यनुमानं तद्विषयम् ; तद्धि लिङ्गलिङ्गिनोरविनाभावग्रहणे सति प्रवर्तते, न च सर्वज्ञेनाविनाभूतं किञ्चिल्लिङ्गमुपलभ्यते / तद्धि कार्य वा स्यात् , स्वभावो वा ? न तावत्कार्यम् ; विप्रकर्षिणा सर्वज्ञेन सह कस्यचित् कार्यकारणभावाऽसिद्धेः, प्रत्यक्षानु १-निर्विकल्प-आ०, ब०, ज० / 2 तत्रैव व०,ज० / 3 प्रत्यसाधारणत्वानु-आ० / श्रोत्रस्य अप्राप्यकारित्वसमर्थनम्-स्फुटार्थ अभि० पृ. 87 / चतुःशतक पृ. 191 / तत्त्वसं० श्लो० 25192528 तथा 2174-2175 / इत्यादौ, खण्डनञ्च-मीमांसाश्लो० अधि० 6 पृ० 146 तथा 760 / शास्त्रदी० 1 / 1 / 6 पृ० 140 / न्यायमं० पृ. 216 / तत्त्वार्थरा० पृ. 48 / तत्त्वार्थश्लो० पृ० 235 / सन्मति० टी० पृ. 545 / स्या. रत्ना० पृ. 333 / रत्नाकराव० पृ० 59 इत्यादिषु प्रेक्ष्यम् / ४-तोऽसत्वा-भां० / 5 कस्य प्रत्य-भां०। 6 “सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः / निराकरणवच्छतथा न चासीदितिकल्पना // 117 // " मीमां० श्लो. सू. 2, पृ० 81 / “सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः। दृष्टो न चैकदेशोस्ति लिंङ्गं वा योऽनुमापयेत् // 3186 // " तत्त्वसं० / 7 "नापि कार्यम् ; प्रत्यक्षानुपलम्भसाधनत्वात् कार्यकारणभावस्य, विप्रकर्षिणा सर्वज्ञेन सह कस्यचित् कार्यकारणभावाऽसिद्धेः / " तत्त्वसं० पं० पृ० 831 / 8 विप्रकर्षण भां० / ___ पूर्वपक्षः