________________ लघी० 14.] श्रोत्रस्य प्राप्यकारित्वसमर्थनम् गृह्येत तदा तत्रस्थैर्भर्यादिशब्दैमहद्भिः अल्पीयसोऽपि मशकादिशब्दस्यानभिभवाद् अनाकुलमेव ग्रहणं स्यात् / ये स्वोत्पत्तिदेशस्था एवेन्द्रियेणासन्निकृष्टा गृह्यन्ते न तेषामन्योन्यं महद्भिरल्पीयसामप्यभिभवः यथा पर्वतपादपादीनाम् , स्वोत्पत्तिदेशस्था एवेन्द्रियेणाऽसन्निकृष्टा गृह्यन्ते च शब्दा इति / ननु दूरदेशवर्तिनां पर्वतः पादपादीनभिभूय आत्मानमेवोपदर्शयति, अतः साध्यविकलो दृष्टान्तः; इत्यप्यसमीचीनम् ; यतस्तेषां देशविप्रकृष्टतया तग्रहणाऽयोग्यत्वाद् अप्रति- 5 भासः नाभिभवात् , मशकादिशब्दानां तु अविप्रकृष्टानामपि भेर्यादिशब्दरभिभवोऽस्ति अतो न तेषां स्वोत्पत्तिदेशस्थानामेव ग्रहणम् / . यदप्युक्तम्-तच्छब्दैः श्रोत्राभिघातात् तेषामग्रहणम् यथा भासुररूपेण चक्षुषोऽभिघातात् सूक्ष्माग्रहणम् इति; तदप्ययुक्तम् ; दृष्टान्तदा न्तिकयोवैषम्यात् , दिवाकरकरा हि भासुररूपात् प्रतिनिवर्त्य चक्षुषाभिसम्बद्धधमानास्तस्य अभिघातहेतवो दृष्टाः अतीव्रालोके तदभिघातादृष्टः, 10 नचात्र तथाविधं किञ्चिदस्ति यत् शब्दात् प्रतिनिवर्त्य तदभिघातकारणं स्यात् / वायुःस्यात् इति चेत् ; निर्वाते तर्हि न स्यात्तदश्रवणम् श्रोत्राभिघातकारणाऽभावात् , दृश्यते चात्रापि भेर्यादिकोलाहले अलीयसोऽग्रहणम् , अतोऽन्योन्यदेशोपसर्पणेन अनल्पैरल्पशब्दानामभिभवोऽ भ्युपगन्तव्यः / तथा च दूरदेशागमनविशिष्टत्वादेव अस्य गन्धादिवद् दूरत्वं सिद्धम् , न पुनः स्वोत्पत्तिदेशस्थानामपि देशगतदूरत्वोपचारात् , अन्यथा स्खलिता तत्प्रतिपत्तिः स्यात् माणवकेऽ 15 मितिपत्तिवत् / कथं वा तत् श्रोत्रस्याप्राप्यकारित्वं प्रसाधयेत् उपचरितस्याऽप्रसाधकत्वात् ? न हि माणवकेऽग्नित्वमुपचरितं दाहादिकार्य प्रसाधयति / किञ्च, देशापेक्षया यद् दूरत्वं शब्दस्य तत् किं देशग्रहणे सति स्यात् , असति वा ? न तावदसति; विशेषणत्वात्, यद् विशेषणं तद् गृहीतमेव विशेष्ये विशिष्टप्रतिपत्तिनिमित्तम् यथा दण्डादि, विशेषणञ्च शब्दस्य दूरादिप्रतिपत्तौ देश इति / तथा, शब्दे दूरादिप्रत्ययो दूरदेशादि- 20 ग्रहणे सत्येव भवति तत्सापेक्षदूरादिप्रत्ययत्वात् , यस्तत्सापेक्षदूरादिप्रत्ययः स तद्ग्रहणे सत्येव भवति यथा पादपादौ दूरादिप्रत्ययः, तत्सापेक्षदूरादिप्रत्ययश्वायम् , तस्मात्तद्ग्रहणे सत्येव भवतीति / सुप्रसिद्धो हि दूरासन्नपादपादौ चक्षुषा दूरासन्नदेशग्रहणे सत्येव दूरासन्नव्यवहारः, अतः शब्देऽप्यसौ तद्ग्रहणे सत्येव इष्यताम् / तेथेष्टौ च कुतस्तद्ग्रहणम्-किं श्रोत्रात्, अन्यतो वा ? यदि "श्रोत्रात्; देशस्यापि शब्दत्वप्रसङ्गः तल्लक्षणत्वात्तस्य / इन्द्रियान्तरेण 25 तत्प्रत्तिपत्तौ साङ्गत्याभावात् न देशापेक्षया 'दूरः शब्दः' इति प्रतीतिः स्यात् / न हि देवदत्तगृहीतदूरदेशापेक्षया यज्ञदत्तस्य 'दूरः शब्दः' इति प्रतीतिर्दृष्टा / अथ इन्द्रियद्वयानुभवानन्तर १-नां विप्र-भां० / 2 पृ० 83 पं० 7 / 3 भेर्यादिशब्दैः / 4 मशकादिशब्दानाम् / 5 'अतीवालोके तदभिघाताऽदृष्टेः" स्या. रत्ना० पृ. 337 / 6 निर्वातेऽपि / ७-प्रतीतिवत् भां० / ८-स्य * प्रा-भा० / 9 तदिष्टौ भां० / 10 “दिग्देशानां श्रुतिविषयता किञ्च नो युक्तियुक्ता / युक्तत्वे वा भवति न कथं ध्वानरूपत्वमेषाम् // 87 // " रत्नाकराव. पृ०६० /