________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० हि निराकारं ज्ञानं भिन्नदेशमर्थ वेत्ति तस्य 'इदं दूरम, इदं निकटम्' इति वक्तुं युक्तम् / साकारज्ञानवादिनः पुनः यद् दूरादि न तज्ज्ञानवेद्यम् , अवेद्य च न दूरादिव्यवहारो युक्तः, न ह्यन्धस्य 'किञ्चिदूरं निकटवा' इति व्यवहारस्तात्त्विकोऽस्ति यच्च वेद्यं ज्ञानस्य स्वाकारमात्रम् न तहरादि, ज्ञानस्वरूपादभिन्नत्वात् / नहि ज्ञानस्य स्वरूपं सुखादयो वा ज्ञानादभिन्नाः प्रतीयमानाः दूरादिव्यवहारभाजः प्रतीयन्ते, सर्वत्र आसन्नव्यवहारोच्छेदप्रसङ्गात् / अथात्रापि आकाराधायकस्य दूरादित्वाद् दूरादिव्यवहारः; व्यर्थस्तर्हि तदप्राप्यकारित्वप्रसाधनप्रयासः, कर्णशष्कुलिप्रविष्टशब्दग्रहणेऽपि दूरादिव्यवहारस्य तन्मूलकारणदूरादित्वेनोपपद्यमानत्वात् / दृश्यते हि गन्धस्य घ्राणेन्द्रियसन्निकृष्टस्य ग्रहणेऽपि तन्मूलकारणदूरादित्वेन ‘दूरे पद्मगन्धः' इत्यादि व्यवहारः / 10 किञ्च, स्वरूपैत एव शब्दो दूरादिस्वभावः, दूरादिकारणप्रभवत्वात् , दूरादिदेशादागत त्वात् , दूरादिदेशे स्थितत्वाद्वा ? न तावत्स्वरूप॑तः ; निकटस्यापि तथाव्यवहारप्रसङ्गात् / दूरादिकारणप्रभवत्वेन चास्य दूरादिव्यवहाराहत्वे नातः स्वग्राहकेणासन्निकृष्टस्य ग्रहणसिद्धिः , गन्धेनानैकान्तिकत्वप्रतिपादनात् / अथ दूरादिदेशादागतत्वात् शब्दस्य दूरादित्वम् ; युक्तमिदं तथैवास्य तद्रूपतोपपत्तेर्गन्धादिवत , दूगदिप्रदेशादागतो हि गन्धः शब्दो वा स्वेन्द्रियसन्निकर्षण 15 प्रतीयमानोऽपि योग्यताविशेषवशात सन्निकृष्ट-विप्रकृष्टतया प्रतीयते / दूरादिदेशे स्थितत्वात्तु तस्य दूरादित्वे 'स्वोत्त्पत्तिदेशस्था एव शब्दाः श्रोत्रैर्गृह्यन्ते नवागताः' इत्यभ्युपंगतं स्यात्। तथा च यो निर्वाते दूरस्थेन मनागपि न श्रूयते शब्दः सोऽनुकूलवाते कथं श्रयेत ? यश्च आसन्नेन श्रूयते स एव प्रतिवाते कस्मात्तेने न श्रूयते; तद्वातेन श्रोत्रा भिघातात् , शब्दस्य नाशितत्वाद्वा ? यदि श्रोत्राभिघातात् तर्हि निर्वातप्रदेशस्थेन श्रूयताम् / 20 न च तत्प्रदेशे असता शब्दप्रदेश एव सतो ऽनेन तदभिघातो युक्तः, पर्वते प्रज्वलिताग्निना महानसे अन्नपाकप्रसङ्गात् / शब्दस्य नाशितत्वे तु यस्याप्यसौ 'वातोऽनुकूलः तेनापि न श्रूयेत अविशेषात् / तं प्रति तेनास्य प्रेरणे तच्छ्रोत्रेण प्राप्तोऽसौ गृह्यते इति सिद्धमस्य प्राप्यकारित्वम् / यदि च स्वोत्पत्तिदेश एव सर्वे शब्दा विलयिनः कथं तर्हि नलिकादिशब्दस्य भेर्यादिशब्दस्य च कर्णशष्कुलिगृहप्रपूरणेन प्रतिपत्तिः स्यात् ? कथं वा धवलगृहादौ प्रतिशब्दनम् ? न हि 25 लोष्ठादयः कासपात्राऽसंमृष्टाः शब्दमुपजनयन्तः प्रतीयन्ते / यदि च स्वोत्पत्तिदेशस्थ एव शब्दो 1 निकटाकारं ब०, ज० / 2 ज्ञानाभिन्नाः ब०, ज / 3 स्वस्वरूपतः आ०, ब०, ज० / ४-स्वरूपता आ०, ब०, ज० / “किं स्वभावत एवास्य दूरत्वादित्वात् , दूरादिकारणप्रभवत्वात् ,दूरादिदेशे स्थितत्वाद्वा ?" स्या,रना० पृ० 335 / 5 “यदि च स्वोत्पत्तिदेशस्थ एव शब्दः श्रोत्रेण गृह्यते नागतः तर्हि कथम् अनुवाते शब्दस्य तद्देशोत्पत्तिकस्यैव श्रवणम् ,प्रतिवातेऽश्रवणम् , मन्दवाते मनाक श्रवणं भवेत् ?" सन्मति० टी० पृ. 546 / ६-गन्तव्यं भां० / ७-न्नेन स एव भा०। 8 ते एव आ० / 9 तेन श्रयते ब०, ज० / १०-ता तेन ब, ज० / 11 वातेऽनुकूलः बज० / १२-पाच्या-च०, ज., भां० /