________________ लघी० 1 / 4] श्रोत्रस्य प्राप्यकारित्वसमर्थनम् ननु 'श्रोत्रादौ हि ' इत्याद्ययुक्तमुक्तम् ; चक्षषोऽप्राप्यकारित्वे साध्ये श्रोत्रस्य विपक्षतानुप पत्तेः तद्वत्तस्याप्यप्राप्यकारित्वात् / " चक्षुःश्रोत्रमनसामप्राप्तार्थ'श्रोत्रस्याप्राप्यकारित्वम्' प्रकाशकत्वम्” [ ] इत्यभिधानात् / प्राप्यकारित्वेइति बौद्धस्य पूर्वपक्षः चास्य तद्विषये दूरादिव्यवहारो न स्यात् , अस्ति चात्रायम् 'दूरे शब्दः' 'निकटे शब्दः' इति व्यवहारोपलम्भात् , अतोऽप्राप्यकारित्वमेवास्योपपन्नम् / तथा च 5 प्रयोगः-शब्दः स्वग्राहकेण असन्निकृष्ट एव गृह्यते, दूरादिप्रत्ययग्राह्यत्वात् , पादपादिवत् / न चासन्निकृष्टस्य शब्दस्य ग्रहणे कथं ततः श्रोत्राभिघातः इत्यभिधातव्यम् ; भासुररूपस्यासन्निकृष्टस्य ग्रहणेऽपि अतश्चक्षुषोऽभिघातोपलम्भात् / इयांस्तु विशेषः अत्र तेजस्विताऽभिघातहेतुः, शब्दे तु तीव्रतेति / / अत्र प्रतिविधीयते / यत्तावदुक्तम्-' शब्दः स्वग्राहकेणासन्निकृष्ट एव गृह्यते' इत्यादि; तत्र 10 . पक्षस्याध्यक्षबाधा ; कर्णशष्कुल्यन्तःप्रविष्टस्य मशकादिशब्दस्य तत्प्रतिविधानम् प्रकाशकत्वेन श्रोत्रस्याध्यक्षतः प्रतीतेः , अतोऽग्नावनुष्णत्ववत् स्वग्राहकेणासन्निकृष्टत्वं शब्दस्याध्यक्षबाधितम् / हेतुश्च गन्धेनानैकान्तिकः ; तस्य स्वग्राहकेण सन्निकृष्टस्य ग्रहणेऽपि दूरादिप्रत्ययग्राह्यत्वप्रतीतेः / न च तथा प्रतीयमाने गन्धे दूर-निकटादिव्यवहारोऽसिद्धः; 'दूरे पद्मगन्धः,निकटे मालतीगन्धः' इत्यादिव्यवहारस्य लोके सुप्रसिद्धत्वात्। 15 . किर्च, दूरादिप्रत्ययग्राह्यत्वं साकारज्ञानपक्षमभ्युपगम्य उच्यते, निराकारज्ञानपक्षं वा ? तत्राद्यपक्षोऽनुपपन्नः; स्वज्ञानगतस्य शब्दाकारस्य ग्रहणे दूर-निकटव्यवहारानुपपत्तेः। यस्य तथा गा०. 336-340 पृ० 199 / तत्त्वार्थभा• व्या० पृ० 87 / सर्वार्थसिद्धि पृ० 57 / राजवा० पृ० 48 / तत्त्वार्थश्लो० पृ० 229 / प्रमेयक० पृ०५९ / न्यायवि० वि० पृ० 397 / सन्मति० टी० पृ० 540 / स्या. रत्ना० पृ. 318 / रत्नाकराव०पृ० 51 / १"अप्राप्तान्यक्षिमनःश्रोत्राणि त्रयमन्यथा / घ्राणादिभिः त्रिभिस्तुल्यविषयग्रहणं मतम् / " अभि० कोश 1 / 43 / "चक्षुः-श्रोत्र-मनोऽप्राप्तविषयम् उपात्तानुपात्तमहाहेतुः शब्दः इति सिद्धान्तात् तत्त्वसं० पं० पृ०६०३ / स्या० रत्ना०पृ०३३३ / “चक्षुःश्रोत्रमनसाम् अप्राप्तार्थकारित्वम्" सन्मति० टी० पृ०५४५। 2 भास्वर-भां० / ३"इयांस्तु विशेषः अत्र तेजस्विता अभिघातहेतुः शब्दे तु तीव्रता।" स्या. रत्ना०पू० 333 / ४-बाधः आ० / “विप्रकृष्टशब्दग्रहणे च स्वकर्णतान्तर्विलगन्मशकशब्दो नोपलभ्येत।" तत्त्वार्थराजवा० पृ. 48 / “अप्राप्यकारित्वे श्रोत्रस्य चक्षुष इव अत्यासन्नविषयप्रकाशकत्वं न स्यात् इति मशकादिशब्दस्य प्राप्तस्य प्रत्यक्षतः प्रकाशकत्वेन प्रतीयमानस्य अप्राप्तार्थप्रकाशकत्वं तस्य अध्यक्षबाधितम् अग्नौ अनुष्णत्ववत् / " सन्मति० टी० पृ५४५ / स्या० रत्ना० पृ. 334 / 5 "दूरे जिघ्राम्यहं गन्धमिति व्यवहृतीक्षणात् / घ्राणस्याप्राप्यकारित्वप्रसक्तिरिष्टहानितः // 92 // " तत्त्वार्थश्लो. पृ. 235 / स्या० रत्ना० पृ. 334 / रत्नाकराव. पृ. 59 / 6 “यतः साकारज्ञानपक्षे अनाकारज्ञानपक्षे वायमभ्युपगम इति वाच्यम् / " सन्मति० टी०पृ. 545 / स्या० रत्ना० पृ. 334 / ७-स्य ग्रह-भां० /