________________ लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [१प्रत्यक्षपरि० त्वाऽविशेषेऽपि सामान्यमेवोपलभ्यते न विशेषः इत्यभिधातव्यम् ; विशेषाभावात् / तन्न प्राप्यकारित्वं चक्षुषो घटते / न चोप्राप्यकारित्वे सकलार्थप्रकाशकत्वप्रसङ्गः; योग्यदेशापेक्षणाद् अयस्कान्तवत् ,नहि अयस्कान्तोऽयसोऽप्राप्तस्याकर्षणे प्रवर्तमानः सर्वस्यायसः तथाविधस्याकर्षणे समर्थः, अपि तु योग्यदेशस्थस्यैव / अञ्जन-तिलक-मन्त्रादिर्वा अप्राप्तस्यापि स्त्र्यादेराकर्षकः सन् 5 न सर्वस्याकर्षको दृष्टः नियतस्यैव स्त्यादेः तेनाकर्षणोपलम्भात् / भवतोऽपि च 'चक्षूरश्मयो लोकान्तं गत्वा किमिति रूपं न प्रकाशयन्ति, चक्षुर्वा संयुक्तसमवायाद् यथा रूपं प्रकाशयति तथा गन्धादिकमपि किमिति न प्रकाशयेत् तत्रापि तस्याविशेषात् ?' इति चोये योग्यतैव शरणम्। यदपि 'कारकत्वात्' इत्युक्तम् / तदपि मनसा अयस्कान्ताऽञ्जनतिलकमन्त्रादिना चानकान्तिकम् , तस्य कारकत्वेऽपि अप्राप्यकारित्वात् / यदपि 'अत्यासन्नार्थाऽप्रकाशकत्वात्' 10 इत्यस्य साध्याविशिष्टत्वमुक्तम् / तदप्ययुक्तम् ; प्रसङ्गसाधनत्वादेतस्य, श्रोत्रादौ हि प्राप्यकारि त्वाऽत्यासन्नार्थप्रकाशकत्वयोः व्याप्य-व्यापकभावसिद्धौ सत्यां परस्य व्यापकाभावेष्ट्या अत्यासन्नार्थाऽप्रकाशकत्वलक्षणया अनिष्टस्य प्राप्यकारित्वलक्षणव्याप्याभावम्य आपादनमात्रमेवानेन विधीयते इति / 1 “अथ दूषणं सर्वाप्राप्तग्राहकत्वं चक्षुःश्रोत्रलक्षणस्य धर्मिणः प्रसज्यते; तददूषणम् ; अनुमानबाधात् / कथमित्याह-कथं तावदयस्कान्तो न सर्वमप्राप्तमयः कर्षति इति / न सर्वाप्राप्तग्राहक चक्षुःश्रोत्रं सर्वाप्राप्तग्रहणशक्तिहीनत्वात् अयस्कान्तवत् / अयस्कान्तो हि अप्राप्तमयो गृह्णाति "न सर्वमप्राप्तं गृह्णाति... अथवा न सर्वस्वग्राह्यग्राहि चक्षुःश्रोत्रं इन्द्रियस्वाभाव्यात् / स्फुटार्थ अभि० पृ० 88 / “अप्राप्यकारित्वे व्यवहितातिविप्रकृष्टग्रहणप्रसङ्गः इति चेन्न ; अयस्कान्तेनैव प्रत्युक्तत्वात् / अयस्कान्तोपलम् अप्राप्य लोहमाकर्षदपि न व्यवहितमाकर्षति नातिविप्रकृष्टम् / " तत्त्वार्थरा०वा. पृ०४८ / स्या. रत्ना० पृ० 333 // रत्नाकराव० पृ० 57 / २-कान्तरं गता कि-भां० / ३-मपि प्रका-आ०, ब०, ज० / 4 पृ. 77 पं. 7 / 5 " तथैव कारणत्वस्य मनसा व्यभिचारिता / मन्त्रेण भुजङ्गायुच्चाटकादिकरेण वा // 8 // " तत्त्वार्थश्लो. पृ. 234 / स्था. रत्ना०पृ. 330 / “अथ प्राप्यकारि चक्षुः करणत्वात् वास्यादिवत् इति ब्रषे तर्हि अयस्कान्ताकर्षणोपलेन लोहासन्निकृष्टेन व्यभिचारः / " प्रमाणमी० पृ०३७ / स्या. रत्ना. पृ० 330 / 6 पृ. 77 पं० 8 / 7 तयुक्त-भां०। 8 “प्रसङ्गसाधनत्वादेतस्य"... प्रमेयक० पृ. 61 उ०। 9 सांख्य-नैयायिक-वैशेषिक-जैमिनीयाः सर्वबहिरिन्द्रियाणां प्राप्यकारित्वं मन्यन्ते / बौद्धाः त्वग-घ्राण-रसनानां प्राप्यकारित्वं चक्षुःश्रोत्रयोरप्राप्यकारित्वञ्च स्वीकुर्वते / जनास्तु त्वग्-घ्राण-रसन-श्रोत्राणां प्राप्यकारित्वं चक्षुषश्च अप्राप्यकारित्वं साधयन्ति / तत्तद्ग्रन्थानां सन्निकर्षचर्चाविषयकस्थलानि निम्नप्रकाराणि बोध्यानि-सांख्यद० सू० 1187 पृ. 62 / मुक्ताव० पृ. 176 / न्यायद० सू० 3 / 1 / 30, पृ० 246 / न्यायवा० पृ. 33, 373 / न्यायवा० ता० टी० 116, 520 / न्यायसारटी० पृ. 73 / न्यायमं० पृ. 73, 477 / प्रशस्त० कन्द० पृ. 23 / व्योमवती पृ० 159, 256 / प्रश. किरणा० पृ० 74 / शाबरभा० सू० 1 / 1 / 4, पृ० 21 / मी० श्लो० पृ० 146 / प्रकरणपं० पृ. 44 / प्रमाणसमु० श्लो० 20 पृ. 40 / स्फुटार्थअभि० पृ. 84 / चतुःशतक पृ० 186 / तत्त्वसं० पं० पृ. 682 / प्रज्ञा० 15, पृ० 298 / आवश्यकनि० गा०५ / विशेषाव० भा० गा० 204-212 पृ. 122,