________________ लघी० 14] सन्निकर्षवादः स्यापि रूपज्ञानजनकत्वाभ्युपगमात् / 'करणत्वे सति' इति विशेषणेऽपि आलोकार्थसन्निकर्षण चक्षुरूपयोः संयुक्तसमवायेन चानेकान्तः, द्रव्यत्वे सति' इति विशेषणेऽपि चन्द्रादिनाऽनेकान्तः / अतश्चक्षुषा कुतश्चित्तैजसत्वाऽसिद्धः कथं रश्मिवत्त्वं सिद्धयेत् यतः प्राप्यकारित्वं स्यात् ? किञ्च, अस्य प्राप्यकारित्वे विषयश्चक्षुर्देशमागच्छेत् , चक्षुर्वा विषयदेशम् ? तत्राद्यविकल्पे प्रत्यक्षबाधा; चक्षुःप्रदेशे विषयस्य गमनाऽप्रतीतेः, न हि चक्षुःप्रदेशे पर्वतादेविषयस्यागमनं 5 केनचिद् दृष्टमिष्टं वाऽनुपहतचेतसा / द्वितीयविकल्पेऽपि अध्यक्षविरोधः; विषयं प्रति चक्षुषो गमनाऽप्रतीतेः, 'चक्षुर्गत्वा नार्थेनाभिसम्बद्धयते, इन्द्रियत्वात् , त्वगादिवत्' इत्यनुमानविरोधश्च / तदविशेषेऽपि दृष्टातिक्रमेण कस्यचित् तत्र गत्वा सम्बन्धाभ्युपगमे यथाप्रतीति असम्बन्ध एव किन्नाभ्युपगभ्यते अलं प्रतीत्यपलापेन ? किञ्च, चक्षुर्गत्वा संयुज्य अर्थ चेद् द्योतयति, तर्हि यथा विप्रकृष्टस्याऽऽदित्यादेः संयुक्त- 10 समवायाद् रूपं द्योतयति, एवं कर्माऽपि द्योतयेत् संयुक्तसमवायाऽविशेषात् / कथञ्चैववादिनः काचाऽभ्रपटल-स्वच्छोदक-स्फटिकाद्यन्तरितार्थानामुपलम्भः स्यात् चक्षुषस्तत्र गच्छतः काचाद्यवयविना प्रतिबन्धात् ? अथ काचादिकं भित्त्वा चक्षूरश्मयोऽर्थदेशं गच्छन्ति; तर्हि तद्व्यवहितार्थोपलम्भसमये काचादेरनुपलम्भः, तदाधेयद्रव्यस्य पातश्च स्यात् तदाधारस्यावयविनो नाशात्, न चैवम् , युगपत्तयोर्निरन्तरमुपलम्भात् / पूर्वपूर्वव्यूहनिवृत्तौ उत्तरोत्तरतद्रूपव्यूहा- 15 न्तरस्याशूत्पत्तेः प्रदीपाग्निज्वालावत् निरन्तरताभ्रमे सौगतमतसिद्धिः ; सर्वार्थानां प्रतिक्षणं क्षणिकत्वेऽपि इत्थं निरन्तरताभ्रमप्रसङ्गात् / एतेन 'शाखाचन्द्रमसोः क्रमेणानुभवेऽपि आशु वृत्त्योत्पलपत्रशतव्यतिभेदवद् युगपत्प्रतिपत्त्यभिमानो भ्रान्तिनिबन्धनः' इति प्रत्याख्यातम् / ... यच्चान्यदुक्तम् -'शरीरापेक्षया चक्षुर्विषयस्य सन्निकृष्ट-विप्रकृष्टतोपपत्तेर्दूरनिकटादिव्यवहार: सुबटः' इति; तदपि श्रद्धामात्रम् ; इन्द्रियसन्निकर्षेगास्य प्रतिपत्तौ तथा तद्व्यवहारानुप- 2 पत्तेः। तथाहि-यद् इन्द्रियसन्निकर्षेण प्रतीयते न तत्र दूरनिकट! दिव्यवहारः यथा रसादौ, इन्द्रियसन्निकर्षेण प्रतीयते च चक्षुर्विषय इति / प्राप्यकॉरित्वे च चक्षुषः संशय-विपर्ययानुषपत्तिः; सामान्यवद् विशेषाणामपि सन्निकृष्टानामुपलम्भसंभवात् / विशेषानुपलब्धिनिमित्तो हि संशयो विपर्ययश्च / न च चक्षुषा सन्निकृष्ट 1 “पश्येच्चक्षुश्चिराद् दूरे गतिमद् यदि तद्भवेत् / अत्यभ्यासे च दूरे च रूपं व्यक्तं न तत्र किम् // 13 // यदि चक्षुः प्राप्यकारित्वाद् विषयदेशं गच्छेत्तदा उन्मिषितमात्रेण न चन्दतारकादीनान् गृहीयात् / / चतुःशतक पृ० 186 . २'चक्षुर्गत्वा अर्थेन सम्बद्धयते' इत्येवंवादिनः। “काचेन अभ्रपटलेन स्फटिकेन अम्बुना च अन्तरितं व्यवहितं रूपं कथं दृश्यते सप्रतियत्वात् ? काचादिव्यवहितं चक्षुर्न पश्येत् , तच्च पश्यति इति सिद्धान्तः / " स्फुटार्थअभि० पृ. 84 / तत्त्वार्थश्लो० पृ. 230 / प्रमेयक पृ०६१३० / सन्मति० टी० पृ० 544 / रत्नाकराव. पृ० 58 / ३“अथ पूर्वपूर्वकाचादिव्यूह (नि)वृत्तौ उत्तरोत्तरतद्रूपव्यूहान्तरस्योपपत्तेः प्रदीपज्वालावत् निरन्तरताभ्रान्तिः इत्युच्यते".."स्या. रत्ना० 'पृ० 326 / 4 पृ० 77 पं० 3 / 5 “अप्राप्यकारित्वे संशयविपर्ययाभाव इति चेत् प्राप्यकारित्वेऽपि तदविशेषात्" तत्त्वार्थ राजवा०पृ० 48 / स्या० रत्ना० पृ० 332 /