________________ लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि स्त्येव, नहि स्फटिकादिकूपिकामध्यगतप्रदीपादिरश्मयः ततो निर्गच्छन्तः तस्संयोगिना न सम्बद्धाः तत्प्रकाशका वा न भवन्तीति प्रेतोतिः / शक्तिरूपमपि चक्षुः व्यक्तिरूपचक्षुषो भिन्नदेशम् , अभिन्नदेशं वा स्यात् ? न तावद्भिन्नदेशम् ; तच्छक्तित्वव्याघातानुषङ्गान, निराश्रयत्वप्रसङ्गाच्च / न हि अन्यशक्तिरन्याश्रयायुक्ता, तद्देशद्वारेणैवार्थोपलब्धिप्रसङ्गश्च / अथ ततोऽभिन्नदेशम् ; 5 तत्तत्र सम्बद्धम् , असम्बद्धं वा ? यदि सम्बद्धम् ; बहिरर्थवत् स्वाश्रयं तत्सम्बद्धञ्चाजनादिकं प्रकाशयेत् / अथासम्बद्धम् ; कथमाधेयं नाम अतिप्रसङ्गात् ? __यदपि-तैजसत्वात्' इति साधनमुक्तम् ; तदप्ययुक्तम् ; असिद्धत्वात् / तदसिद्धत्वञ्च कुतश्चिप्रमाणात्तत्र तस्याऽप्रतीतेः / तद्धि गोलकस्वरूपस्य चक्षुषोऽभ्युपगम्येत, रश्मिरूपस्य वा ? यदि गोलकस्वरूपस्य ; तदाऽध्यक्षबाधा, भासुररूपोष्णस्पर्श रहितस्यास्य अध्यक्षतः प्रतीतेः / 10 अनुमानबाधश्च ; तथाहि-चक्षुस्तैजसं न भवति, भासुररूपोष्णस्पर्शरहितत्वात् , यद् यत्तथा विधं तत् (तत्तत् ) तैजसं न भवति यथा मृत्पिण्डादिः, भासुररूपोष्णस्पर्शरहितञ्च चक्षुः , तस्मात्तैजसं न भवतीति / ता, न तैजसं चक्षुः, तमःप्रकाशकत्वात , यत्पुनस्तैजसं तन्न तमःप्रकाशकं यथा आलोकः , तमःप्रकाशकञ्च चक्षुः, तस्मान्न तैजसमिति / रश्मिरूपस्य तु चक्षुषोऽसिद्धस्वरूपत्वान्न तैजसत्वमुपपद्यते, न खलु रश्मयः प्रत्यक्षादितः प्रसिद्धयन्तीत्युक्तम् / 15 ननु मार्जारादिनेत्रे नेत्रत्वं रश्मिवत्तया व्याप्तं प्रतिपन्नम्, अतोऽन्यत्रापि मनुष्यादिने नेत्र त्वाद्रश्मिवत्त्वं ततस्तैजसत्वञ्च प्रसाध्यते, तर्हि गवादिनेत्रे नेत्रत्वं कृष्णवेन नरनारिनेत्रे च धावल्येन व्याप्तं प्रतिपन्नम् , अतोऽविशेषेण काय॑ धावल्यं वा पार्थिवत्वम् आप्यत्वं वा प्रसाध्यताम् अविशेषात् / यदपि-रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात्' इति तत्तैजसत्वे साधनमभिहितम् , तदपि 20 जलाऽञ्जन-चन्द्र-माणिक्यादिभिरनैकान्तिकम् / न चैतद्वक्तव्यम्-जलादोन प्रति गत्वा व्यावृत्तानां चक्षूरश्मीनामेव तत्प्रकाशकत्वम् , न जलादीनाम् इति; सर्वत्र दृष्टहेतुवैफल्यापत्तेः / तथा च दृष्टान्ताऽसिद्धिः; प्रदोपादावपि अन्यस्यैव तत्प्रकाशकत्वप्रसङ्गात् , प्रत्यक्षबाधनम् उभयत्र / रूपप्रकाशकत्वञ्च रूपस्यानुभवः, तत्र ज्ञानजनकत्वं वा ? प्रथमविकल्पे रूपज्ञानेनानेकान्तः; तस्यातैजसत्वेऽपि रूपानुभवसम्भवात् / द्वितीयविकल्पे तु घटादिरूपेणानेकान्तः,तस्याऽतै जस 1 प्रतीतम् ब०, ज०, भां० / 2 " चक्षुषा शक्तिरूपेण तारकागतमञ्जनम् / न स्पृष्टमिति तद्धेतोरसिद्धत्वमिहोच्यते // 12 // शक्तिर्हि शक्तिमतोऽन्यत्र तिष्टतार्थेन युज्यते। तत्रस्थेन तु नैवेति कोऽन्योबयाजडात्मनः // 13 // " तत्त्वार्थश्लो० पृ. 230 / ३-शं तत्र-भां०। 4 "चक्षुस्तैजसं न भवति तमःप्रकाशकत्वात् / " स्या. रत्ना० पृ. 324 / ५-षोऽप्रसि-भां०। ६-तः सिद्धय-भां० / ७-नेत्रेऽपि मनुष्यादिनेत्रत्वाद्र-भां०। 8 “रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् इति हेतुश्च जलाजनचन्द्रमाणिक्यादिभिरनैकान्तिकः / " प्रमेयक० पृ० 60 उ० / सन्मति० टी० पृ० 541 / स्या० रत्ना० पृ० 320 / रत्नाकराव• पृ. 53 / पृ० 76 पं० 5 / पृ० 76 60 6 / .