________________ 79 लघी० 114] सन्निकर्षवादः रिक्तस्य वा ? न तावत्तद्वयतिरिक्तस्य ; तस्यासिद्धस्वरूपत्वात् , अपसिद्धान्तप्रसङ्गाचे / गोलकरूपस्य तु तत्साधने पक्षस्य प्रत्यक्षबाधा; प्रभासुरप्रभारहितस्य गोलकस्य प्रत्यक्षतः प्रतीतेः / अथ अदृश्यास्तद्रश्मयः अनुद्भूतरूप-स्पर्शवत्त्वात् , अतो नास्य प्रत्यक्षबाधा; कथमेवं रूपप्रकाशकत्वं तस्य स्यात् ? तथाहि-चक्षू रूपप्रकाशकं न भवति, अनुद्भूतरूपत्वात, जलसंयुक्तानलवत् / न चानुद्भूतरूपस्पर्श तेजोद्रव्यं क्वचित् प्रतीयते / जलहेम्नोर्भासुररूपोष्णस्पर्श. 5 योरनुद्भूतिप्रतीतिरस्ति; इत्यप्यसम्यक्; उभयानुद्भूतस्तत्राप्यप्रतिपत्तेः / दृष्टानुसारेण चादृष्टार्थकल्पना, अन्यथा पृथिव्यादेरपि तद्वत्ताप्रसङ्गः; तथाहि-रश्मिवन्तः पृथिव्यादयः द्रव्यत्वात् प्रदीपवत् / यथैव हि तैजसत्वं रश्मिवत्तया व्याप्तं प्रदीपे प्रतिपन्नं तथा द्रव्यत्वमपि / अथ ततस्तेषां तत्साधने प्रत्यक्षविरोधः, सोऽन्यत्रापि समानः / अथ मार्जारादिचक्षुषोः प्रत्यक्षतः प्रतीयन्ते रश्मयः, तत्कथं तद्विरोधः ? यदि नाम तत्र ते प्रतीयन्ते अयंत्र किमायातम् ? अन्यथा हेम्नि 10 पीतत्वस्य सुवर्णत्वेन व्याप्तिप्रतिपत्तेः पटादौ पीतत्वोपलम्भात सुवर्णत्वसिद्धिः स्यात् / प्रत्यक्षबाधनम् अन्यत्रापि / रश्मिवत्त्वे चास्य अर्थप्रकाशने आलोकापेक्षा न स्यात् ; तथाहि-यद् रश्मिवत् तदर्थप्रकाशने नालोकापेक्षं यथा प्रदीपः, रश्मिवच्च भवद्भिरभिप्रेतं चक्षुरिति / तथा तद्वत्त्वे स्वसम्बद्धस्याञ्जनादेः प्रकाशकत्वप्रसङ्गः, न खलु प्रदीपस्तद्वान् स्वसम्बद्धं शलाकादिकं न प्रकाशयति इति प्रातीतिकम् / 15 प्रयोगः-यद् रश्मिवत् तत्स्वसम्बद्धमर्थ प्रकाशयत्येव यथा प्रदीपः, रश्मिवञ्च चक्षुः, तस्मास्वसम्बद्धं कामलादिकं प्रकाशयेदेव / न चात्र चक्षुषः सम्बन्धोऽपि नास्ति इत्यभिधातव्यम् ; यतो गोलकस्वरूपं चक्षुस्तत्रासम्बद्धम् , रश्मिरूपम् , शक्तिस्वभावं वा ? तत्राद्यपक्षे प्रत्यक्षविरोधः; गोलकस्वरूपस्य चक्षुषः काचादौ सम्बन्धप्रतीतेः / द्वितीयपक्षेऽपि तत्रास्य सम्बन्धोऽ १-ङ्गात् गो-ब०, ज०।२अनुभूतरूपश्चायं नायनो रश्मिः तस्मात् प्रत्यक्षतो नोपलभ्यते इति / दृष्टश्च तेजसो धर्मभेदः-उद्भूतरूपस्पर्श प्रत्यक्षं तेजः यथा आदित्यरश्मयः / उद्भूतरूपमनुद्भूतस्पर्श च प्रत्यक्षं तेजः यथा प्रदीपरश्मयः / उद्भूतस्पर्शमनुद्भूतरूपमप्रत्यक्षं यथा अबादिसंयुक्तं तेजः / अनु द्भूतरूपस्पर्शोऽप्रत्यक्षश्चाक्षुषो रश्मिरिति / " न्यायभा० पृ० 250 / न्यायवा० पृ. 378 / “चाक्षुषे च रश्मौ रूपसंस्कारः रूपोद्भवो नास्ति / मध्यन्दिनोल्काप्रकाशे च रूपसंस्कारो रूपानभिभवो नास्ति इति न तेषां प्रत्यक्षता।" वैशे० उप० पृ० 120 / ३“नानुद्भूतद्वयं तेजो दृष्टं चक्षुर्यतस्तथा / अदृष्टवशतस्तच्चेत् सर्वमक्ष तथा न किम् // 50 // " तत्त्वार्थश्लो० पृ 233 / प्रमेयक० पृ०६० पू० / सन्मति० टी० पृ. 541 / 4 रश्मिवत्ता / 5 "नक्तञ्चरनयनरश्मिदर्शनाच्च / " न्यायसूत्र 3 / 1 / 43 / “दृश्यन्ते हि नक्तं नयनरश्मयः नक्तञ्चराणां वृषदंशप्रभृतीनाम् , तेन शेषस्यानुमानमिति / " न्यायभा० पृ० 254 / न्यायमं० पृ. 480 / 6 अस्मदादिचक्षुषि / 7 “यदि च प्राप्यकारि चक्षुः स्यात् तदा अत्यभ्यासेपि पश्येदक्षिस्थाम् अञ्जनशलाकाम् , दूरे च व्यक्तदर्शनं स्यात् / न चैतत् संभवति इत्ययुक्तमेतत् / " चतुःशतकवृ० पृ० 186 / 8 "बाह्य चक्षुर्यदा तावत् कृष्णतारादि दृश्यताम् / प्राप्तं प्रत्यक्षतो वाधात् तस्यार्थाऽप्राप्तिवेदिनः // 6 // " शक्तिरूपमदृश्यं चेदनुमानेन बाधनं / आगमेन स्वनिीतासंभवद्बाधकेन च // 10 // " तत्त्वार्थश्लो० पृ० 230 / 9 गोलकरूपम् ब०, ज० / " यतो व्यक्तिरूपं चक्षुः तत्र असम्बद्धं शक्तिस्वभावं वा रश्मिरूपं वा ?" प्रमेयक० पृ० 59 उ० /