________________ 78 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० स्य चक्षुषो भवता बहिर्देशाश्रितत्वस्यानभ्युपगमात् , गोलकान्तर्गततेजोद्रव्याश्रया हि रश्मयो भवद्भिः प्रतिज्ञाताः। द्वितीयविकल्पे त्वसिद्धो हेतुः ; रश्मिरूपस्य चक्षुषो प्राहकप्रमाणाऽभावतः प्रकाशकत्वेन बहिर्देशे तत्प्रवृत्तेरसिद्धः / तद्ग्राहकप्रमाणाभावश्च अत्रैव प्रतिपादयिष्यते / दृष्टान्तश्च साधनविकलः; तथाविधबाह्येन्द्रियत्वस्य त्वगादावसम्भवात् / गोलकस्वभावस्य तु 5 चक्षुषो बहिर्देशावस्थायित्वे प्रत्यक्षबाधा; अर्थदेशासम्बद्धस्यास्य शरीरप्रदेश एव प्रत्यक्षतः प्रतीतेः / बहिःकारणप्रभवत्वमपि मनसैवाऽनैकान्तिकम्। आत्मापेक्षया हि बहिःकारणं पुद्गलतत्त्वम् तत्प्रभवत्वञ्च चक्षुरादीन्द्रियवत् मनसोऽस्त्येव, अस्यापि पौद्गलिकत्वेन षट्पदार्थपरीक्षायां प्रसाधयिष्यमाणत्वात् / इन्द्रियस्वरूपातीतत्वञ्च अपसिद्धान्तप्रसङ्गादनुपपन्नम् / मनो ऽन्यत्वमपि मनसः सिद्धौ सिद्ध्येत, न च तत्सिद्धं भवत्परिकल्पितस्य मनसः षट्पदार्थपरी१० क्षायां निराकरिष्यमाणत्वात् / सिद्धयतु वा; तथापि बाह्येन्द्रियत्वं मनोऽन्यत्वे सतीन्द्रियत्वम् उच्यते, तत्रं च मनोव्यवच्छेदार्थ बाह्यविशेषणमयुक्तम् ; तस्यापि सर्वत्र प्राप्यकारित्वात्, सुखादौ हि संयुक्तसमवायादिसम्बन्धात्, व्याप्तौ तु सम्बन्धसम्बन्धात् तज् ज्ञानमुत्पादयति रूपादौ नेत्रादिवत् , न खलु रूपादौ नेत्रादेरपि सम्बन्धसम्बन्धादन्यः सम्बन्धोऽस्ति / धर्मित्वेनें चात्रोपात्तं चक्षुः गोलकस्वभावम् , रश्मिरूपं वा ? प्रथमपक्षे प्रत्यक्षविरोधः; 15 अर्थेनासम्बद्धस्य अर्थदेशपरिहारेण शरीरप्रदेश एव गोलकस्वभावस्य चक्षुषः प्रत्यक्षतः प्रतीतेः, अन्यथा तद्रहितत्वेन नयनपक्ष्मप्रदेशस्योपलम्भः स्यात् / द्वितीयपक्षे तु धर्मिणोऽसिद्धिः; रश्मिरूपस्य चक्षुषः कुतश्चित्प्रमाणादप्रसिद्धः / तत्साधकं हि प्रमाणं प्रत्यक्षम् , अनुमानं वा स्यात् ? न तावत्प्रत्यक्षम; अर्थवत्तत्र तत्स्वरूपाऽप्रतीतेः न खलु रश्मयः प्रत्यक्षतः प्रतीयन्ते विप्रतिपत्त्यभावप्रसङ्गात् , नहि नीले नीलतया प्रतीयमाने कश्चिद् विप्रतिपद्यते / किञ्च, इन्द्रि२० यार्थसन्निकर्षजं प्रत्यक्षं भवन्मते, न चार्थदेशे विद्यमानैस्तैः अपरेन्द्रियस्य सन्निकर्षोऽस्ति यत स्तत्र प्रत्यक्षमुत्पद्यत अनवस्थाप्रसङ्गात्। अनुमानतोऽपि अतएव, अन्यतो वा तत्सिद्धिः स्यात् ? यदि अतएव; अन्योन्याश्रयः-प्रसिद्ध हि अनुमानोत्थानेऽतस्तत्सिद्धिः, अस्याश्चानुमानोत्थानमिति / अनुमानान्तरात् तत्सिद्धावनवस्था ; धर्मिणस्तत्राप्यनुमानान्तरात् सिद्धिप्रसङ्गात् / एतेन यदुक्तं रश्मिप्रसाधकमनुमानम्-'रश्मिवञ्चक्षुः तैजसत्वात्' इति ; तत्प्रत्याख्यातम् ; 25 उक्तऍक्षदोषाणामत्राप्यविशेषात् / किञ्च, रश्मिवत्ता गोलकरूपस्य चक्षुषः प्रसाध्यते, तद्व्यति १-रणत्वं पुद्गलवत्त्वं आ०, ब०, ज० / “आत्मापेक्षया हि बहिःकारणं पुद्गलतत्त्वं तत्प्रभवत्वञ्च चक्षुरादीन्द्रियवत् मनसोऽप्यस्त्येव / " स्या. रत्ना० पृ. 329 / २-त्र मनो-भां० / 3 मनः। 4 "चक्षु. श्चात्र धर्मित्वेनोपात्तं गोलकस्वभाव रश्मिरूपं वा ?" प्रमेयक० पृ० 59 उ० / न्यायवि. वि. पृ. 397 पू० / स्या. रत्ना० पृ० 319 / रत्नाकराव० पृ० 52 / ५धर्मवत्तत्र ब०, ज०। 6 योगमते / 7 सिद्धे हि ब०, ज० / 8 उक्तदोषपक्षाणाम् भां०, आ० / " रश्मिवल्लोचनं सर्वं तैजसत्वात् प्रदीपवत् / इति सिद्धं (1) न नेत्रस्य ज्योतिष्कत्वं प्रसाधयेत् // 36 // " तत्त्वार्थश्लो० पृ० 232 / राजवा० पृ० 48 / प्रमेयक० पृ. 60 पू० / स्या. रत्ना० पृ. 319 / पृ० 76 पं० / / .