________________ (00 लघी० 154] सन्निकर्षवादः स्यासिद्धत्वात् ; प्रथमतो हि चक्षुः सन्निकृष्टां शाखां प्राप्य प्रकाशयति, पश्चाद्विप्रकृष्टं चन्द्रमसम्, युगपत्प्रतिपत्त्यभिमानस्तु उत्पलपत्रशतव्यतिभेदवद् भ्रान्तिनिबन्धनः। दूरनिकटोदिव्यवहारोऽपि चक्षुषः प्राप्यकारित्वे न दुर्घटः; शरीरापेक्षया चक्षुर्विषयस्य सन्निकृष्ट-विप्रकृष्टतोपपत्तितस्तस्य सुघटत्वात् / यदि चाप्राप्यकारि चक्षुः स्यात्तर्हि कुड्याद्यव्यवहितवत् तद्वयवहितस्यापि घटादेर्मेर्वादेश्वानेकयोजनशतव्यवहितस्यापि तत् प्रकाशकं स्यात् कचित्प्रत्यासत्ति- 5 विप्रकर्षाऽभावात् , न चैवम्, अतः प्राप्यकारि तत् प्रतिपत्तव्यम् / ___ कारकत्वाच्च ; यत् कारकं तत् प्राप्यकारि यथा वास्यादि, कारकञ्च चक्षुरिति / यच्चास्याप्राप्यकारित्वे साधनमभिधीयते-'अत्यासन्नार्थाऽप्रकाशकत्वात्' इति; तत् साध्याऽविशिष्टत्वाद् असाधनमेव / पर्युदासप्रतिषेधे हि यदेवास्याऽप्राप्यकारित्वं तदेव अत्यासन्नार्थाऽप्रकाशकत्वम् / प्रसज्यप्रतिषेधस्तु जैनै भ्युपगम्यते, अपसिद्धान्तप्रसङ्गादिति / अत्र प्रतिविधीयते / यत्तावदुक्तम्-'बाह्येन्द्रियत्वात्' इति; तत्र किमिदं बाह्येन्द्रियत्वं नाम ? . बहिरर्थग्रहणाभिमुख्य॑म् , बहिर्देशावस्थायित्वम् , बहिःकारणप्रभतत्प्रतिविधान पुरस्सरं चक्षुषः वत्वम् , इन्द्रियस्वरूपातीतत्वम् , मनोऽन्यत्वं वा स्यात् ? तत्राअप्राप्यकारित्वप्रसाधनम्- द्यविकल्पे मनसाऽनेकान्तः ; तस्याप्राप्यकारित्वेऽपि बहिरर्थग्रह णाभिमुख्यतो बाह्येन्द्रियत्वसद्भावात् / द्वितीयविकल्पेऽपि रश्मि- 15 रूपस्य, गोलकरवभावस्य वा चक्षुषो बहिर्देशेऽवस्थायित्वं स्यात् ? प्रथमपक्षे किमिदं तत्र तस्यावस्थायित्वम्-आश्रितत्वम, प्रकाशकत्वेन प्रवृत्तिर्वा ? तत्राद्यविकल्पे अपसिद्धान्तः ; रश्मिरूप 10 १यत्पुनरेतदुक्तम्-दिग्देशव्यपदेशात् इति; तदपि शरीरावधिनिमित्तत्वात् / यत्र इन्द्रियं शरीरश्च अर्थेन सम्बद्ध्यते तत्र दिग्देशव्यपदेशो न भवति दूरान्तिकानुविधानं वा / यत्र तु इन्द्रियमेव केवलं सम्बध्यते तत्र शरीरमवधिं कृत्वा संयुक्तसंयोगाल्पीयस्त्वं भूयस्त्वं वाऽपेक्ष्यमाणस्य दिग्देशप्रत्ययाः सन्निकृष्ट वेप्रकृष्टप्रत्ययाश्च भवन्ति।" न्यायवा० पृ. 35 / न्यायवा० ता० टी० पृ० 121 / " इन्द्रियसम्बन्धस्य अतीन्द्रियत्वात् न तद्भावाऽभावकृतौ सान्तरनिरन्तरप्रत्ययौ, किन्तु शरीरसम्बन्धभावाभावकृतौ; यत्र शरीरसम्बद्धस्यार्थस्य ग्रहणं तत्र निरन्तरोऽयम् इति प्रत्ययः, यत्र तु तदसम्बद्धस्य तत्र सान्तर इति" प्रश. कन्द० पृ. 24 / 2 यदि प्राप्य-व०, ज० / “यद्यप्राप्यकारि चक्षुः भवति म कु.ड्यकटादेः आवरणस्य सामध्यमस्ति इत्यवरणानुपपत्तिः स्यात् / न च व्यवहितार्थोपलब्धिरस्ति तस्मान्न अप्राप्यकारे / न्यायवा० पृ. 35 / न्यायवा० ता० टी० पृ० 121 / न्यायमं० पृ० 479 / “ये पुनरप्यकारि चक्षुराहुः तेषां व्यवहितविप्रकृष्टार्थग्रहणं दुर्निवारम् सन्निधान इव विप्रकृष्टेऽपि स्फुटतरमणीयांसोप्यर्था गृह्येरन् / " प्रकरणपं० पृ० 45 / न्याय मं० पृ. 479 / 3 प्रकाशः कस्मात् ब०, ज० / -शकं कचि-भां०।४" करणं वास्यादि प्राप्यकारि दृष्टं तथा च इन्द्रियाणि, तस्मात् प्राप्यकारीणि |" न्यायवा० पृ. 36 / “कारकञ्च अप्राप्यकारि च इति चित्रम् / " न्यायमं० पृ. 479 / " इन्द्रियाणां कारकत्वेन प्राप्यकारित्वात् / " न्यायमं• पृ० 73 / ५पृ० 755012 / बाह्येन्द्रियात भां०।६“कि बहिरर्थग्रहणाभिमुख्यम् , बहिर्देशावस्थायित्वम् बहिःकारणप्रभवत्वं वा स्यात् ?" स्या० रत्ना० पृ० 328 / प्रमेयक पृ०५९ पू०। रत्नाकराव०१०५५ /