________________ लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [9 प्रत्यक्षपरि० कचिदपि इन्द्रियेऽप्रसिद्धः, न खलु स्पर्शनादेरपि अधिष्ठानादव्यतिरिक्तत्वम् उभयोः प्रसिद्धम् / तृतीयपक्षोप्यसङ्गतः; अधिष्ठानादन्यत्रापि तत्सत्त्वसम्भवात् / अधिष्ठानं हि गोलकरूपम् , तस्मानिसृताः रश्मयोऽर्थदेशं यावत् प्रसृताः सन्ति प्रदीपान्निसृतर श्मिवत् / अधिष्ठानपिधाने विषयाग्राहकत्वञ्च न प्राप्यकारित्वं विहन्ति घाणादेस्तत्सद्भावेऽपि प्राप्यकारित्वाऽविरोधात् / न 5 च रश्मिवत्त्वं चक्षुषोऽसिद्धम् ; तत्साधकप्रमाणसद्भावात् / तथाहि-रश्मिंवच्चक्षुः तैजसत्वात् प्रदीपवत् / नचेदमप्यसिद्धं तत एव, तथाहि-तैजसं चक्षुः रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् तद्वदेव, अतो रश्मिवत्त्वस्यात्र प्रसिद्धः / 'प्राप्यकारित्वे चक्षुषो महतः पर्वतादेरप्रकाशप्रसङ्गः' इत्येतत्प्रत्याख्यातम् / धृत्तूरकपुष्पवद् आदौ सूक्ष्माणामप्यन्ते महत्त्वोपपत्तेस्तद्रश्मी नाम् / ते हि आलोकमिलिता यावदर्थ वर्द्धन्ते, महतः पर्वतादेः प्रकाशकत्वान्यथानुपपत्तः / 10 ननु चहूंषः प्राप्यकारित्वे कथं शाखाचन्द्रमसोर्युगपद्ग्रहणम् ? इत्यपि वार्तम्; युगपद् प्रहण 1 " रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् / " न्यायसू० 3 / 1 / 32 / “तयोर्महदण्वोर्ग्रहणं चक्षुरश्मेरर्थस्य च सन्निकर्षविशेषाद् भवति यथा प्रदीपरइमेरर्थस्य च इति / " न्यायभा० पृ० 247 // 2 "कृष्णसारं रश्मिवत् द्रव्यत्वे सति रूपोपलब्धौ नियतस्य साधनाङ्गस्य निमित्तत्वात् प्रदीपवद् इति / '' अथवा, रश्मिवच्चक्षुः द्रव्यत्वे सति नियत्वे च सति म्फटिकादिव्यवहितार्थप्रकाशकत्वात् प्रदीपवत् / " न्यायवा० पृ. 381 / न्यायवा. ता. पृ० 525 / "तैजसत्वं तु तस्य रूपादिषु मध्ये नियमेन रूपस्याभिव्यञ्जकत्वात् प्रदीपवत् / " प्रशस्त• कन्दली पृ.४० / प्रश. व्योमवती पृ० 256 / “यद्गन्धाद्यव्यञ्जकत्वे सति रूपस्य व्यञ्जकम् इन्द्रियं तत्तैजसम्' 'तैजसत्वे च स्पर्शाद्यव्यञ्जकत्वे सति रूपाभिव्यञ्जकत्वं प्रदीपवत्" प्रश. किरणावली पृ. 73 / वैशे० उप० पृ. 128 / “चक्षुस्तै जसं परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीयरूपव्यजकत्वात् प्रदीपवत्" मुक्तावली पृ. 176 / 3 " यच्च महदणुप्रकाशकत्वं तदप्यन्यथासिद्धत्वादसाधनम् ; तथाहि-चक्षुर्बहिर्गतं बाह्यालोकसम्बन्धाद्विषयपरिमाणमुत्पद्यते......." प्रश• व्योमवती पृ. 159 / “पृथुतरग्रहणस्यापि पृथ्वप्रतया तद्वदेवोपपत्तेः" प्रश• किरणावली पृ० 74 | 4 “यत्पुनरेतत् शाखाचन्द्रमसोः तुल्यकालग्रहणात् इति; तदपि न; अनभ्युपगमात् / को हि स्वस्थात्मा शाखाचन्द्रमसाः तुल्यकालग्रहणं प्रतिपद्यते ? कालभेदाग्रहणात् मिथ्याप्रत्यय एषः उत्पलदलशतव्यतिभेदवत् इति / " न्यायवा० पृ. 35 / न्यायवा० ता० टी० पृ. 120 / प्रश० कन्दली पृ० 23 / व्योमवती पृ० 159 / प्रश• किरणावली पृ० 74 / मुक्तावली पृ. 178 / " समसमयसंवेदने तु केचित्परिहारमेवं वर्णयन्ति-सकलानर्थान् व्याप्य युगपदवस्थितेन बाह्येन तेजसा सह एकीभूतास्ते चाक्षुषा रश्मयः युगपद् ग्रहणहेतवः इति / तत्र अपरे दूषयन्ति-इत्थं प्राप्तावभ्युपगम्यमानायाम् अतिदूरव्यवहितानामप्यर्थानां प्रहणं दुर्निवारम् / अन्ये त्वाहुः क्षेपीयस्तया तेषां रश्मीनां कालभेदानवग्रहाद्योगपद्या. भिमान इति / तदप्यन्ये नानुमन्यन्ते-अतिसन्निकृष्टेषु वस्तुषु कालभेदः पद्मपत्रशतव्यतिभेदवन्मा नामावसायि / अनेकयोजनसहस्रान्तरितेषु भूमिष्ठेष्वर्थेषु ध्रुवे च कालभेदानध्यवसायो न बुद्धिमनुर जयतीति / वयं तु वदामः अदृष्टसापेक्षत्वाइदोषः, नयनरश्मिभिरेकीभूतेऽपि बाह्ये तेजसि यावानेव तस्य भागः अदृष्टवशेन उपलब्धिहेतुतया उपात्तः तावानेव उपलब्धये प्रभवति न सर्वः, इति न सर्वोपलम्भः युगपच भौमध्रुवादिदर्शनसिद्धिः / " प्रकरणपं० पृ. 45 /